Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 84
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
इति निर्णीय स मुनिर्वीतहव्यो विवासनः ।
आसीत्समाधावचलो विन्ध्यकन्दरकोटरे
2
Keep
अपरिस्पन्दिताशेषसंविदानन्दसुन्दरः ।
बभावस्तंगतमनाः स्तिमिताम्भोधिशोभनः
3
Keep
अन्तरेव शशामास्य क्रमेण प्राणसंततिः ।
ज्वालाजालपरिस्पन्दो दग्धेन्धन इवानलः
4
Keep
अनन्तर्निष्ठतां याते बाह्यार्थे चाप्यसंस्थिते ।
शेषेऽन्तर्लब्धसंस्थाने तस्यास्फुरितपक्ष्मणी
5
Keep
घ्राणप्रान्तगताल्पाल्पसमालोके इवेक्षणे ।
अर्धकुड्मलितैः पद्मैः श्रियमाययतुः समाम्
6
Keep
समकायशिरोग्रीवस्थानकः स महामतिः ।
आसीच्छैलादिवोत्कीर्णश्चित्रार्पित इवाथवा
7
Keep
तथाभितिष्ठतस्तस्य संवत्सरशतत्रयम् ।
कोटरे विन्ध्यकच्छस्य ययावर्धमुहूर्तवत्
8
Keep
एतावन्तमसौ कालं नाबुद्ध्यत किलात्मवान् ।
जीवन्मुक्ततया ध्यानी न च तत्याज तां तनुम्
9
Keep
तावत्कालं स सुभगो न प्राबुध्यत योगवित् ।
उदारैरम्बुदारावैरासारभरघर्घरैः
10
Keep
पर्यन्तमण्डलाधीशमृगयानतबृंहितैः ।
पक्षिवानरनिर्ह्रादैर्मातङ्गास्फोटनिःस्वनैः
11
Keep
सिंहसंरम्भरटितैर्निर्झरारावसीत्कृतैः ।
विषमाशनिसंपातैर्जनकोलाहलैर्घनैः
12
Keep
प्रमत्तशरभास्फोटैर्भूकम्पतटघट्टनैः ।
वनदाहधमध्वानैर्जलौघाहतिवल्गनैः
13
Keep
महोपलतटाघातैर्धरणीतलमृज्जलैः ।
जलौघान्दोलनायातैस्तापैरनलकर्कशैः
14
Keep
केवलं वहति स्वैरं काले गलितकारणम् ।
परियान्तीषु वर्षासु लहरीष्विव वारिणि
15
Keep
स्वल्पेनैव हि कालेन तस्मिन्पर्वतकन्दरे ।
प्रावृडोघविनुन्नेन पङ्केनोर्वीतले कृतः
16
Keep
तत्रासाववसद्भूमौकोटरे संकटोदरे ।
पङ्कसंपीडितस्कन्धः पर्वतेषु शिला यथा
17
Keep
शतत्रये स वर्षाणामथ याते स्वयंप्रभुः ।
व्यबुध्यतात्मरूपात्मा धराकोटरपीडितः
18
Keep
संविदेवास्य तं देहं जग्राहोर्वीनिपीडितम् ।
तनुः प्राणमयस्पन्दः प्राणसंसरणं विना
19
Keep
उत्पत्तिप्रौढिमासाद्य कलना हृदयान्तरे ।
स्वमनोरूपिणी तस्य हृद्येवानुबभूव सा
20
Keep
कैलासकानने कान्ते कदम्बस्य तरोस्तले ।
मुनित्वं शतमब्दानां जीवन्मुक्तात्मनिर्मलम्
21
Keep
विद्याधरत्वं वर्षाणां शतमाधिविवर्जितम् ।
युगपञ्चकमिन्द्रत्वं प्रणतं सुरचारणैः
22
Keep
शक्रत्वादिषु तेष्वस्य प्रतिभासेषु भो मुने ।
नियमोऽनियमश्चैव दिक्कालनियतेः कथम्
23
Keep
सर्वात्मिकैषा चिच्छक्तिर्यत्रोदेति यथा यथा ।
तथा तत्राशु भवति तथात्मैकस्वभावतः
24
Keep
यथा यत्र यदा बुद्धौ नियमः स तदा स्थितः ।
देशकालादिनियमक्रमाणां तन्मयात्मता
25
Keep
तेन नानाविधान्येष जगन्ति परिदृष्टवान् ।
हृदि संवेदनाकाशे वीतहव्यो विवासनः
26
Keep
सम्यग्बोधवतामेषा वासनैव न वासना ।
ज्ञानाग्निदग्धाऽदग्धस्य कैव बीजस्य बीजता
27
Keep
कल्पमेकं गणत्वं स चन्द्रमौलेश्चकार ह ।
समस्तविद्यानिपुणं त्रिकालामलदर्शनम्
28
Keep
यो यादृग्दृढसंस्कारः स तं पश्यति तादृशम् ।
जीवन्मुक्ततयैवैतद्वीतहव्योऽनुभूतवान्
29
Keep
एवं स्थिते मुनिश्रेष्ठ जीवन्मुक्तमतेरपि ।
बन्धमोक्षदृशः सन्ति वीतहव्यात्मनो यथा
30
Keep
यथास्थितमिदं विश्वं शान्तमाकाशनिर्मलम् ।
ब्रह्मैव जीवन्मुक्तानां बन्धमोक्षदृशः कुतः
31
Keep
एतत्संविन्नभो भाति यत्र यत्र यथा यथा ।
तत्र तत्र तथा तावत्तावत्तद्विन्दते ततम्
32
Keep
तेनानुभूतानि बहून्यनुभूयन्त एव च ।
जगन्ति सर्वात्मतया ब्रह्मरूपेण राघव
33
Keep
धराकोटरनिर्मग्नवीतहव्यचिदात्मसु ।
जगत्सु तेष्वसंख्येषु नीरूपेषु महात्मसु
34
Keep
यः शक्रोऽनवबुद्धात्मा सोऽद्य दीनेषु पार्थिवः ।
कर्तुं प्रवृत्तो मृगयां क्षणेऽस्मिन्नपि कानने
35
Keep
यो हंसोऽनवबुद्धात्मा पाद्मे पैतामहेऽभवत् ।
स्थितः स एव दाशेन्द्रः कैलासवनकुञ्जके
36
Keep
यो राजानवबुद्धात्मा भूमेः सौराष्ट्रमण्डले ।
स एषोऽद्य स्थितोऽन्ध्राणां ग्रामे बहुलपादपे
37
Keep
मानसः किल सर्गोऽसौ वीतहव्यस्य तत्र ये ।
देहिनो भ्रान्तिपात्रं चेत्तद्देहाकारिणः कथम्
38
Keep
यदि भ्रान्त्येकमात्रात्म वीतहव्यस्य तज्जगत् ।
तदिदं नाम ते राम किं भूयः परिभासते
39
Keep
इदमप्यङ्ग चिन्मात्रं मनोमात्रभ्रमोपमम् ।
तदपि व्योम चिन्मात्रं मनोमात्रं भ्रमोपमम्
40
Keep
वस्तुतस्तु न तद्राम जगन्नैवं न चेतरत् ।
तवापि न जगत्सत्ता ब्रह्मेदं भाति केवलम्
41
Keep
भावि भूतं भविष्यच्च यथेदं च तथेतरत् ।
जगत्सर्वमिदं दृश्यं संविन्मात्रमनोमयम्
42
Keep
एवंरूपमिदं यावन्न परिज्ञातमीदृशम् ।
वज्रसारदृढं तावज्ज्ञातं सत्परमाम्बरम्
43
Keep
अज्ञानान्मन एवेदमित्थं संप्रविजृम्भते ।
प्रत्युल्लासविलासाभ्यां जलमम्बुनिधाविव
44
Keep
यथास्थितेनैव चिदम्बरेण
स्वचित्तमेवैति मनोभिधानम् ।
स्फारं कृतं तेन जगच्च दृश्य-
मेवं ततं नैव ततं च किंचित्
Previous
←
Sarga 83
Next
Sarga 85
→