Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 101
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
इति कुम्भवचो राजा भावयंस्तदकृत्रिमम् ।
स्वयमात्मपदे तस्मिन्क्षणं परिणतोऽभवत्
2
Keep
बभूवामीलितमनोलोचनः शान्तवाङ्मुनिः ।
शिलातलादिवोत्कीर्णो निस्पन्दावयवाकृतिः
3
Keep
ततो मुहूर्तमात्रेण प्रबुद्धं स्फुरितेक्षणम् ।
तमुवाच महाबाहो चूडाला कुम्भरूपिणी
4
Keep
कच्चिदस्मिन्पदे स्फारे शुद्धे विततनिर्मले ।
सुतल्पे निर्विकल्पानां सुखं विश्रान्तवानसि
5
Keep
कच्चिदन्तः प्रबुद्धोसि कच्चिद्भ्रान्तिस्त्वयोज्झिता ।
कच्चिज्ज्ञेयं परिज्ञातं दृष्टं द्रष्टव्यमेव वा
6
Keep
भगवंस्त्वत्प्रसादेन महाविभवभूमिका ।
महती पदवी दृष्टा सर्वस्योर्ध्वं स्थिता मया
7
Keep
सतां विदितवेद्यानामहो बत महात्मनाम् ।
अपूर्वैकामृतमयः सङ्गः सारफलप्रदः
8
Keep
जन्मनापि मया लब्धं यन्नाम न महामृतम् ।
तदद्य त्वत्समासङ्गात्तेनैवासादितं स्वयम्
9
Keep
अनन्तमाद्यममृतं चैतत्कमललोचन ।
कथं नासादितमभूत्पूर्वमात्मपदं मया
10
Keep
मनस्युपशमं याते त्यक्तभोगैषणे स्थिते ।
कषायपाके निर्वृत्ते सर्वेन्द्रियगणस्य च
11
Keep
यान्ति चेतसि विश्रान्तिं विमला देशिकोक्तयः ।
यथा सितांशुके शुद्धे बिन्दवः कुङ्कुमाम्भसः
12
Keep
कषायाणामनन्तानां संभृतानां शरीरकैः ।
स्ववासनास्वरूपाणामद्य पाकस्तवोदितः
13
Keep
देहान्मलानि सर्वाणि कालेन कमलेक्षण ।
साधो वृक्षात्फलानीव पाकेन विगलन्त्यधः
14
Keep
वासनात्मसु यातेषु मलेषु विमलं सखे ।
यद्वक्ति गुरुरन्तस्तद्विशतीषुर्यथा विसे
15
Keep
कषायपाके संपन्ने त्वं मयाद्य विबोधितः ।
तेनाद्यैव तवाज्ञानक्षयो जातो महामते
16
Keep
अद्य पक्वकषायस्त्वमद्यैव ज्ञानसंकथाम् ।
अद्येह सोपदेशस्त्वमद्यैवासि प्रबुद्धवान्
17
Keep
शुभाशुभानां सर्वेषां कर्मणामद्य संक्षयः ।
सत्सङ्गव्यपदेशेन तव निष्पत्तिमागतः
18
Keep
यावदस्य दिनस्यैष पूर्वभागो महीपते ।
तावच्चेतोहंममेति तवाज्ञानं बभूव ह
19
Keep
इदानीं मद्वचोबोधाच्चेतसि क्षयमागते ।
हृदयात्संपरित्यक्ते संप्रबुद्धोऽसि भूपते
20
Keep
हृदि यावन्मनःसत्ता तावदज्ञानसस्थितिः ।
चित्ते चित्ततया त्यक्ते ज्ञानस्याभ्युदयो भवेत्
21
Keep
द्वित्वैकत्वदृशौ चित्तं तदेवाज्ञानमुच्यते ।
एतयोर्यो लयो दृष्टेस्तज्ज्ञानं सा परा गतिः
22
Keep
प्रबुद्धोऽसि विमुक्तोऽसि त्यक्तं चित्तं त्वया नृप ।
सदसत्तामयत्वं हि त्वया त्यक्तमसत्पदम्
23
Keep
वीतशोको निरायासो निःसङ्गोऽनन्य आत्मवान् ।
महोदयो मुनिर्मौनी स्वरूपे तिष्ठ निर्मले
24
Keep
एवं हि भगवन् जन्तोर्मूर्खस्यैवास्ति चित्तभूः ।
प्रबुद्धस्य न तज्ज्ञस्य चित्तं नाम किल प्रभो
25
Keep
जीवन्मुक्तास्तदेते हि विहरन्ति कथं वद ।
अविद्यमानमनसो युष्मदाद्यास्तथा नराः
26
Keep
इति मे कथयाशेषमन्यैः स्ववचनांशुभिः ।
हार्दं तमो मे निपुणमेवंप्रायैः प्रमार्जय
27
Keep
यथा वदसि तत्त्वज्ञ तत्तथैव हि नान्यथा ।
चित्तं हि जीवन्मुक्तानां नास्त्यङ्कुर इवाश्मनाम्
28
Keep
पुनर्जननयोग्या या वासना घनवासना ।
सा प्रोक्ता चित्तशब्देन न सा तज्ज्ञस्य विद्यते
29
Keep
यया वासनया तज्ज्ञा विहरन्तीह कर्मसु ।
तां त्वं सत्त्वाभिधां विद्धि पुनर्जननवर्जिताम्
30
Keep
जीवन्मुक्ता महात्मानः सत्त्वस्थाः संयतेन्द्रियाः ।
विहरन्ति गतासङ्गं न चित्तस्थाः कदाचन
31
Keep
मूढं चित्तं चित्तमाहुः प्रबुद्धं सत्त्वमुच्यते ।
अप्रबुद्धा हि चित्तस्थाः सत्त्वस्थास्तु महाधियः
32
Keep
भूयः प्रजायते चित्तं सत्त्वं भूयो न जायते ।
अप्रबुद्धस्य बन्धोस्ति न प्रबुद्धस्य भूपते
33
Keep
सत्ववानसि संजातो महात्यागी स्थितो भवान् ।
अशेषेण त्वया चित्तं त्यक्तमद्येति वेद्म्यहम्
34
Keep
समस्तवासनोन्मुक्तो राजन्नद्यैव राजसे ।
आकाशसाम्यमायातं मन्ये तव मुने मनः
35
Keep
शमं प्राप्तोऽसि परमं सिद्धः समसमस्थितिः ।
अयं हि स महात्यागः सर्वं यत्तत्समुज्झितम्
36
Keep
स्वर्गापवर्गवित्तादि तपोदानफलाद्यपि ।
प्रबुद्धमेधया साधो धिया परमबोधया
37
Keep
तपो नाम कियन्मात्रदुःखक्षयकरं भवेत् ।
क्षयातिशयनिर्मुक्तं यत्सुखं समतामयम्
38
Keep
तत्सत्तद्वस्तु तत्किंचिन्न तु स्वर्गादि भङ्गुरम् ।
भावाभावैरुपारूढं स्थिताधिगतवेदनम्
39
Keep
स्वर्गो नाम किमानन्दः सोपि संदेहसंस्थितः ।
अप्राप्तस्वात्मसंसिद्धेः क्रियाकाण्डः शुभो भवेत्
40
Keep
येन नासादितं हेम रीतिं किं स परित्यजेत् ।
चूडालादिसमासङ्गाद्भवेज्ज्ञत्वं सुखेन ते
41
Keep
तत्किमर्थमनर्थेऽस्मिन्निमग्नस्त्वं तपोमये ।
आश्रमादिविकल्पांशसाध्यस्याद्य कुकर्मणः
42
Keep
आद्यन्तावस्य सुमते मध्य एव सुखं स्म भो ।
यतस्ते समयो जातो यस्मिन्परिणमन्ति च
43
Keep
तपोरूपा विकल्पांशास्तत्र बद्धपदो भव ।
चिद्व्योम्नोनभसोत्यच्छात्सर्वेभावाः समुत्थिताः
44
Keep
तथैव परिदृश्यन्ते तत्रैव विलयं गताः ।
इदं कार्यमिदं नेति संकल्पा ब्रह्मबिन्दवः
45
Keep
वन्ध्यं शिखिध्वज त्यक्त्वा पूर्णमेव समाश्रय ।
इष्टं मे प्रार्थयस्वेति यथैव प्रार्थ्यते सखे
46
Keep
स्त्रिया तथैव स कथं दयितः प्रार्थ्यते स्वयम् ।
संकल्परचितानेतान्भावानापतभासुरान्
47
Keep
गृह्णन्ति न महात्मानः प्राज्ञा जलरवीनिव ।
स्वर्गमोक्षादिफलदं यत्किंचित्सर्वमेव तत्
48
Keep
त्यक्त्वा समसमाभासो योऽस्यसावेव वै भव ।
सत्त्वं सत्त्वेन नाशेन नाश्यं हि विगतस्पृहः
49
Keep
पदार्थौघमिमं गृह्णंस्तिष्ठास्पन्दितचित्तभूः ।
अपरिस्पन्दचित्तस्य संसृतिर्नेह धावति
50
Keep
पौरुषप्रभवा साधो विपत्तिर्हि मतौ यथा ।
यानि यानीह दुःखानि प्रस्फुरन्ति जगत्त्रये
51
Keep
चेतश्चापलजान्येव तानि तानि महीपते ।
स्थिरं शान्तं गतस्पन्दं यस्य चित्तमचापलम् ।
सदैव स महानन्दी साम्राज्यस्य स भाजनम्
52
Keep
अथ चेतसि तत्त्वज्ञ स्पन्दास्पन्दौ त्वमेकताम् ।
नीत्वा तिष्ठ यथाकाममैक्यमागत्य शाश्वतम्
53
Keep
कथमैक्यं विभो यातः स्पन्दास्पन्दाविमावुभौ ।
सर्वसंशयविच्छेदकारिन्नेतद्वदाशु मे
54
Keep
एकं वस्तु जगत्सर्वं चिन्मात्रं वारिवाम्बुधि ।
तदेव स्पन्दते धीभिः शुद्धवारिव वीचिभिः
55
Keep
ब्रह्म चिन्मात्रममलं सत्त्वमित्यादिनामकम् ।
यद्गीतं तदिदं मूढाः पश्यन्त्यङ्ग जगत्तया
56
Keep
चित्स्पन्द एव सर्वस्वं सर्गे तस्माद्धि संसृतिः ।
परिस्पन्दो हि विन्ध्यादिशब्दस्पन्दसमं परम्
57
Keep
चितः स एव चेत्स्पन्दस्तथाऽस्पन्दश्च भावितः ।
एकरूपतया नाम तत्रेदममलं शिवम्
58
Keep
सर्गश्चित्स्पन्दमात्रात्मा सम्यग्दृष्टौ विलीयते ।
उदेत्यसम्यग्दृष्टीनां रज्ज्वां सर्पभ्रमो यथा
59
Keep
सस्पन्दा चित्तदभिधा निःस्पन्दा त्वियमातता ।
तुर्यातीतपदारूढा वाचा वक्तुं न पार्यते
60
Keep
शास्त्रसज्जनसंपर्कसंतताभ्यासयोगतः ।
कालेनामलतां याते चेतसीन्दाविवोदिता
61
Keep
एतत्केवलमाभातं स्वानुभूतिभिराततम् ।
कथ्यते स्वानुभूतेषु स्वयं स्वं रूपमात्मना
62
Keep
प्राप्तोऽसि सारं स्वमनादिमध्य-
मत्रैव तिष्ठ स्वपदे निविष्टः ।
नो रूपनिर्भेदमहाचिदात्मा
जातोऽसि साधो खलु वीतशोकः
Previous
←
Sarga 100
Next
Sarga 102
→