Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 103
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
निर्विकल्पसमाधानात्काष्ठकुड्योपमस्थितिः ।
एवं शिखिध्वजो राजा चूडालामधुना श्रृणु
2
Keep
शिखिध्वजं तं भर्तारं कुम्भवेषेण तेन सा ।
प्रबोध्यान्तर्धिमागत्य ततार तरसा नभः
3
Keep
देवपुत्राकृतिं व्योम्नि जहौ मायाविनिर्मिताम् ।
विदग्धमुग्धमाकारं स्त्रैणं जग्राह सुन्दरम्
4
Keep
नभसा स्वपुरं प्राप विवेशान्तःपुरं क्षणात् ।
दृश्या बभूव लोकस्य नृपकर्म चकार च
5
Keep
वासरत्रितयेनाथ पुनरम्बरमेत्य सा ।
बभूव कुम्भो योगेन शिखिध्वजवनं ययौ
6
Keep
तथा तत्रैव तं भूपमपश्यद्वनभूमिगा ।
निर्विकल्पसमाधिस्थं समुत्कीर्णमिव द्रुमम्
7
Keep
अहो नु खलु भो दिष्ट्या विश्रान्तोऽयमिहात्मनि ।
स्थितः स्वस्थः समः शान्त इत्युवाच पुनःपुनः
8
Keep
तदेनं तावदेतस्माद्बोधयामि परात्पदात् ।
इदानीमेव किं देहत्यागमेष करोति वै
9
Keep
किंचित्कालं स्फुरत्वेष राज्येन विपिनेन वा ।
सममेव गमिष्यावस्त्यक्तदेहाविमौ समौ
10
Keep
तस्योपदेशो विषमः परिणामं न गच्छति ।
अनेनाभ्यासयोगेन तावदाबोधयाम्यहम्
11
Keep
इति संचिन्त्य चूडाला सिंहनादं चकार सा ।
भूयोभूयः प्रभोरग्रे वनेचरभयप्रदम्
12
Keep
न चचाल शिलेवाद्रौ यदा नादेन तेन सः ।
भूयोभूयः कृतेनापि तदा सा तं व्यचालयत्
13
Keep
चालितः पातितोऽप्येष यदा न बुबुधे नृपः ।
तदा संचिन्तयामास चूडाला कुम्भरूपिणी
14
Keep
अहो परिणतः साधुः स्वपदे भगवानयम् ।
तदेनं हि कया युक्त्या सांप्रतं बोधयाम्यहम्
15
Keep
अथवैनं महात्मानं किमर्थं बोधयाम्यहम् ।
विदेहं बोधमासाद्य तिष्ठत्वेष यथासुखम्
16
Keep
अहमप्यंगनादेहमिमं त्यक्त्वा परं पदम् ।
अपुनर्जननायैव गच्छामीह हि किं समम्
17
Keep
इति संचिन्त्य देहं स्वं त्यक्तुमभ्युद्यता सती ।
पुनः संचिन्तयामास चूडाला सा महामतिः
18
Keep
आलोकयामि चैतावदेनं देहं महीपतेः ।
यद्यस्य सत्त्वशेषोऽस्ति बोधबीजं हृदन्तरे
19
Keep
तत्कालेनैष भगवान्संप्रबोधमुपैष्यति ।
मूलकोशरसालीनं पुष्पजालमिव द्रुमे
20
Keep
तदेवं विरहञ्जीवन्मुक्त एव भवत्यलम् ।
मुक्तो भवत्यथ यदि मन्ये गच्छामि तत्समम्
21
Keep
इति संचिन्त्य चूडाला स्पर्शनेन नयेन च ।
पतिमालोक्य साशङ्कमुवाच वरवर्णिनी
22
Keep
अस्त्येव सत्त्वशेषोऽस्य हृदि संबोधकारणम् ।
संबोधहेतूदयेन सत्त्वशेषं व्यबुध्यत
23
Keep
भृशं संशान्तचित्तस्य काष्ठलोष्टसमस्थितेः ।
सत्त्वशेषः कथं ब्रह्मन्ज्ञायते ध्यानशालिनः
24
Keep
प्रबोधकारणं यस्य दुर्लक्ष्याणुवपुर्हृदि ।
विद्यते सत्त्वशेषोऽन्तर्बीजे पुष्पफलं यथा
25
Keep
चित्तस्पन्दवियुक्तस्य तस्यास्पन्दितसच्चितः ।
द्वित्वैकत्वविहीनस्य समस्याचलसंस्थितेः
26
Keep
कायः समसमाभोगो न ग्लायति न हृष्यति ।
नास्तमेति न चोदेति सममेवावतिष्ठते
27
Keep
द्वित्वैकत्वादियुक्तस्य यस्य प्रस्पन्दते मनः ।
तस्य देहोऽन्यतामेति नास्पन्दस्य कदाचन
28
Keep
चित्तस्पन्दो हि सर्वेषां कारणं जगतः स्थितेः ।
राम भावविकाराणां कुसुमानां यथा मधुः
29
Keep
अस्मिन्प्रयास्यतो देहे चेतसो हि मुहुर्मुहुः ।
हर्षः कोपो न संमोहो वशमेति रघूद्वह
30
Keep
चित्ते प्रशममायाते कायो यः सत्त्ववर्जितः ।
बाधते नाम्बरस्येव तस्य भावविकारभूः
31
Keep
वीच्यादि न यथोदेति समाया जलसंततेः ।
तथा न दृश्यते दोषः समायाः सत्त्वसंततेः
32
Keep
सत्त्वस्यानुपलम्भोऽस्ति न तस्योपशमादृते ।
यावद्भाति समं तत्त्वं कालाच्छाम्यति केवलम्
33
Keep
देहे यस्मिंस्तु नो चित्तं नापि सत्त्वं च विद्यते ।
स तापे हिमवद्राम पञ्चत्वेन विलीयते
34
Keep
शिखिध्वजस्य देहोऽसौ निश्चित्तस्तेजसोर्जितः ।
सत्त्वांशेन च संयुक्तस्तेन न ग्लानिभाजनम्
35
Keep
तं तथाभूतमालोक्य भर्तुर्देहं वराङ्गना ।
अनुज्झितवती देहं चिन्तयामास सत्वरम्
36
Keep
चित्तत्त्वं सर्वगं शुद्धं प्रविश्याबोधयाम्यहम् ।
भविष्यद्बोधनं कान्तमथ तत्र हि संस्थिता
37
Keep
न बोधयामि यद्येनं चिरात्तद्बुध्यते स्वयम् ।
किमेकैवावतिष्ठेऽहमित्येवं बोधयाम्यहम्
38
Keep
इति संचिन्त्य चूडाला देहं करणपञ्जरम् ।
संत्यज्य प्राप चित्तत्त्वे स्थितिमाद्यन्तवर्जिते
39
Keep
तत्र सा चेतनास्पन्दं कृत्वा सत्त्ववतः प्रभोः ।
स्वं विवेश पुनर्देहं स्वं नीडमिव पक्षिणी
40
Keep
कुम्भाकृतिरथोत्थाय निविष्टा कुसुमस्थले ।
साम गातुं प्रवृत्ता सा भ्रमरीवृन्दनिःस्वना
41
Keep
तं सामस्वनमाकर्ण्य चित्सत्त्वगुणशालिनी ।
बुबुधे भूपतेर्देहे वसन्त इव पद्मिनी
42
Keep
दृशं विकासयामास तां तदार्क इवाब्जिनीम् ।
गृहीतसत्त्वसंपत्तिः शिखिध्वजमहीपतिः
43
Keep
अपश्यत्कुम्भमग्रस्थं सामगायनतत्परम् ।
परेण वपुषा युक्तं सामवेदमिवापरम्
44
Keep
अहो बत वयं धन्याः पुनः प्राप्तो मुनिः स्वतः ।
इत्येवोदाहरव्राजा कुम्भाय कुसुमं ददौ
45
Keep
दिष्ट्योदिताः स्मो भगवंस्तव चेतसि पावने ।
के नाम वा महासत्त्वाः प्रसादेष्वङ्ग नो स्थिताः
46
Keep
अस्मत्पवित्रीकरणमेवागमनकारणम् ।
न चेत्किं चागमे ब्रूहि द्वितीयं कारणं भवेत्
47
Keep
यतः प्रभृति यातोऽस्मि त्वत्सकाशादनिन्दितः ।
ततः प्रभृति चेतो मे त्वयैवेह समं स्थितम्
48
Keep
रम्ये स्वर्गे न तिष्ठामि समीपे तव सांप्रतम् ।
अभीष्टमुद्यदेवाङ्ग रम्याणां तत्पुरः स्थितम्
49
Keep
त्वादृशो बन्धुराप्तश्च सुहृन्मित्रं तथा सखा ।
विश्वास्यो वापि शिष्यश्च मन्ये जगति नास्ति मे
50
Keep
अहो नु फलितं पुण्यपादपैर्नः कुलाचले ।
यस्माद्भवानसङ्गोऽपि वाञ्छत्यस्मत्समागमम्
51
Keep
इदं वनमिमे वृक्षा भृत्योऽयमहमादृतः ।
रोचते ते न चेतस्वर्गस्तदिह स्थीयतां प्रभो
52
Keep
भवद्वितीर्णया योगयुक्त्या विश्रान्तवानहम् ।
यथा साधो तथा मन्ये स्वर्गे विश्रमणं कुतः
53
Keep
तामेव संस्थितिं स्वच्छामवलम्ब्य प्रकाशिनीम् ।
विहरेह यथाकामं स्वर्गे भूमितले तथा
54
Keep
परे पदे महानन्दे कच्चिद्विश्रान्तवानसि ।
इदं भेदमयं दुःखं कच्चित्संत्यक्तवानसि
55
Keep
कच्चिदापातरम्येभ्यः संकल्पेभ्यो रतिर्भृशम् ।
निर्मूलतां गता राजन्भोगनीरसमेव ते
56
Keep
हेयादेयदशातीतं शान्तं शमसमस्थिति ।
यथाप्राप्तेष्वनुद्वेगं कच्चित्तव मनःस्थितम्
57
Keep
त्वत्प्रसादेन भगवन्दृष्टा दृश्यातिगा गतिः ।
प्राप्तः संसारसीमान्तो लब्धो लब्धव्यनिश्चयः
58
Keep
चिरादतिचिरेणैव विश्रान्तोऽस्मि निरामयः ।
लब्धं लव्धव्यमखिलं तृप्तः संश्चिरसंस्थितः
59
Keep
नोपदेष्टव्यमस्माकं किंचिदप्युपयुज्यते ।
सर्वत्रैवातितृप्तोऽस्मि संस्थितोऽस्मि गतज्वरः
60
Keep
ज्ञातमज्ञातमप्राप्तं त्यक्तं त्यक्तव्यमाश्रितम् ।
तत्त्वं परत्वं सत्त्वं मे स्वस्यैवास्ति न किंचन
61
Keep
निःसंसृतिर्विगतमोहभयो विरागो
नित्योदितः समसमाशयसर्वसौम्यः ।
सर्वात्मकः सकलसंकलनावियुक्त
आकाशकोशविशदः सममास्थितोऽस्मि
Previous
←
Sarga 102
Next
Sarga 104
→