Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 125
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि ।
नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्रमम्
2
Keep
शान्त एव चिदाभासे स्वच्छे समसमात्मनि ।
समग्रशक्तिखचिते ब्रह्मेति कलिताभिधे
3
Keep
निर्णीय केचिच्छून्यत्वं केचिद्विज्ञानमात्रताम् ।
केचिदीश्वररूपत्वं विवदन्ते परस्परम्
4
Keep
सर्वमेव परित्यज्य महामौनी भवानघ ।
निर्वाणवान्निर्मननः क्षीणचित्तः प्रशान्तधीः
5
Keep
आत्मन्येवास्स्व शान्तात्मा मूकान्धबधिरोपमः ।
नित्यमन्तर्मुखो भूत्वा स्वात्मनान्तः प्रपूर्णधीः
6
Keep
जाग्रत्येव सुषुप्तस्थः कुरु कर्माणि राघव ।
अन्तः सर्वपरित्यागी बहिः कुरु यथागतम्
7
Keep
चित्तसत्ता परं दुःखं चित्तासत्ता परं सुखम् ।
अतश्चित्तं चिदेकात्मा नय क्षयमवेदनात्
8
Keep
दृष्टा रम्यमरम्यं वा स्थेयं पाषाणवत्समम् ।
एतावतात्मयत्नेन जिता भवति संसृतिः
9
Keep
संवेदनीयं न सुखं नासुखं न च मध्यमम् ।
एतावतात्मयत्नेन दुःखान्तोऽनन्त आप्यते
10
Keep
आपीनमण्डलशशाङ्कवदन्तरेव
श्रीमद्रसायनमयः सुखमेति तज्ज्ञः ।
विज्ञातसर्वभुवनत्रयवस्तुसारः
कुर्वन्न नाम कुरुते परमभ्युपेतः
Previous
←
Sarga 124
Next
Sarga 126
→