Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 12
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
इति निश्चयवन्तस्ते महान्तो
विगतैन
सः ।
सत्याः सत्ये पदे शान्ते समे सुखमवस्थिताः
2
Keep
इति पूर्णधियो धीराः
समनीरागचेत
सः ।
न निन्दन्ति न नन्दन्ति जीवितं मरणं तथा
3
Keep
इत्यलक्ष्यचमत्कारा नारायणभुजा
इ
व ।
ऋजवः स्खलिताकारा अपरा इव मेरवः
4
Keep
रेमिरे वनखण्डेषु द्वीपेषु नगरेषु
च ।
देवोपवनमालासु स्वर्गेषु च सुरा इव
5
Keep
भ्रेमुः कुसुमपूर्णासु दोलान्दोलचलासु
च ।
विचित्रवनलेखासु मेरुश्रृङ्गशिखासु च
6
Keep
चक्रुर्विजितशत्रूणि चामरच्छत्रवन्ति
च ।
विचित्रार्थानि राज्यानि चित्राचारमयानि च
7
Keep
अनुजग्मुरिमान्सर्वान्नानाचारविचेष्टिता
न् ।
श्रुतिस्मृत्युदितारम्भामितिकर्तव्यतामिति
8
Keep
ईदृशीरमणीयेषु
ललनाहास्यहारि
षु ।
विहाराहाररम्येषु भोगाभोगेषु भूषिताः
9
Keep
विविशुश्चारुचूतासु मन्दारवलितासु
च ।
अप्सरोगीतपूर्णासु नन्दनोद्यानभूमिषु
10
Keep
सचराचरभूतेषु
विश्रान्ताखिलजन्तु
षु ।
यज्ञक्रियाकलापेषु गार्हस्थ्येषु यथाक्रमम्
11
Keep
तेरुर्हतगजेन्द्रासु भ्रान्तभूरिशिवासु
च ।
भेरीभांकारभीमासु संग्रामार्णववीथिषु
12
Keep
तस्थुः परुषचित्तासु हृतवित्तोद्धतासु
च ।
संरम्भक्षोभरौद्रीषु सर्वासु द्वन्द्वरीतिषु
13
Keep
मनस्तेषां तु नीरागमनुपाधि
गतभ्रम
म् ।
असक्तं मुक्तमाशान्तं परं सत्वपदं गतम्
14
Keep
न ममज्जुः क्वचिदपि संकटेषु
महत्स्व
पि ।
महदप्युपयातेषु कुलशलाः सरस्स्विव
15
Keep
नोल्ललास विलासिन्या श्रिया
परमकान्त
या ।
परिपूर्णेन्दुलक्ष्म्येव जलराशी रघूद्वह
16
Keep
न मम्लौ दुःखशोकेन ग्रीष्मेणेव
वनस्थल
म् ।
जहर्ष च न भोगौघैरवश्यायैरिवौषधीः
17
Keep
ते हि केवलमव्यग्राः कुर्वन्तः
काममञ्ज
रीः ।
इष्टानिष्टफलं राम नाभिलेषुर्न तत्यजुः
18
Keep
नोदगुः कार्यसंपत्तावाक्रान्ता
नास्तमाय
युः ।
जहृषुर्न सुखप्राप्तौ मम्लुर्नैव च संकटे
19
Keep
मुमुहुर्न विमोहेषु न
ममज्जुर्विपत्क्र
मैः ।
न जहर्षुः शुभैः शोकै रुरुदुर्न भवानिव
20
Keep
प्राकृताचारसंप्राप्ते कुर्वन्तः कर्म
केवल
म् ।
स्थिता विगतसंरम्भमपरा इव मेरवः
21
Keep
तां त्वं दृष्टिमवष्टभ्य
राघवाऽघविनाशिनी
म् ।
अनहंकृत्यहंकारो विहरस्व यथाक्रमम्
22
Keep
यथाभूतामिमामेव
पश्यत्सर्गपरम्परा
म् ।
मेरुस्थितोऽब्धिगम्भीरः सममास्स्व गतभ्रमः
23
Keep
चिन्मात्रं सर्वमेवेदमित्थमाभासतां
गत
म् ।
नेह सत्यमसत्यं वा क्वचिदस्ति न किंचन
24
Keep
महत्तामलमालम्ब्य
त्यक्त्वेदमवहेल
या ।
असक्तबुद्धिः सर्वत्र भव भव्य भवक्षयी
25
Keep
किं रोदिषि घनोद्वेगं
मूढवच्चानुशोच
सि ।
भ्रमस्युद्भान्तचित्तश्च सौम्यावर्ते तृणं यथा
26
Keep
अहो न भगवन्नूनं
सम्यग्जातमलक्ष
यः ।
त्वत्प्रसादात्प्रबुद्धोऽस्मि सूर्यसङ्गादिवाम्बुजम्
27
Keep
भ्रान्तिरस्तं गता नूनं मिहिका शरदीव
मे ।
संशान्ताखिलसंदेहः करिष्ये वचनं तव
28
Keep
व्यपगतमदमोहो मानमात्सर्यमुक्त
श्चिरतरमुदितात्मा
शान्तशोकश्चिरे
ण ।
पुनरसुखमगच्छन्स्वच्छयैकान्तबुद्ध्या
यदिह वदसि साधो तत्करिष्येऽविशङ्कं
Previous
←
Sarga 11
Next
Sarga 13
→