Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 18
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अस्त्यस्मिञ्जगति श्रेष्ठः सर्वनाकनिवासिनाम् ।
देवदेवो हरो नाम देवदेवाभिवन्दितः
2
Keep
षट्पदश्रेणिनयना यस्योच्चस्तबकस्तनी ।
विलासिनी शरीरार्धे लता चूततरोरिव
3
Keep
हिमहारसिता यस्य लहरीस्तबकोम्भिता । ।
आवेष्टितजटालूटा गङ्गाकुसुममालिका
4
Keep
क्षीरसागरसंभूतः प्रसृतामृतनिर्झरः ।
प्रतिबिम्बकरः श्रीमान्यस्य चूडामणिः शशी
5
Keep
अनारतशिरश्चन्द्रप्रस्रवेणामृतीकृतः ।
यस्येन्द्रनीलवत्कालकूटः कण्ठे विभूषणम्
6
Keep
धूलिलेखामहावर्तं स्वच्छपावकसंभवम् ।
परमाणुमयं भस्म यस्य ज्ञानजलं सितम्
7
Keep
निर्मलानि जितेन्दूनि सृष्टानि घटितानि च ।
यस्यास्थीन्येव रत्नानि देहकान्तमयानि च
8
Keep
सुधाकरसुधाधीतं नीलनीरदपल्लवम् ।
तारकाबिन्दुशबलं यस्य चाम्वरमम्बरम्
9
Keep
भ्रमच्छिवाङ्गनापक्वमहामांसौदनाकुलम् ।
बहिर्भूतं गृहं यस्य श्मशानं हिमपाण्डुरम्
10
Keep
कपालमालाभरणाः पीतरक्तवसासवाः ।
आन्त्रस्रग्दामवलिता बन्धवो यस्य मातरः
11
Keep
प्रस्फुरन्मूर्धमणयश्चरन्तो मसृणाङ्गकाः ।
भुजगा वलया यस्य प्रकचत्कनकत्विषः
11-2
Keep
दृक्पातदग्धशैलेन्द्रं जगत्कवललालसम् ।
भैरवाचरितं यस्य लीलासंत्रासितासुरम्
13
Keep
स्वस्थीकृतजगज्जातस्वव्यापारस्थचेतसः ।
यदृच्छया करस्पन्दो यस्यासुरपुरक्षयः
14
Keep
एकाग्रमूर्तयः स्नेहरागद्वेषविवर्जिताः ।
स्वशना यस्य ते शैलाः सरसा अपि नीरसाः
15
Keep
शिरःखुराः खुरकराः करदन्तमुखोदराः ।
ऋक्षोष्ट्राजाहिवक्त्राश्च प्रमथा यस्य लालकाः
16
Keep
तस्य नेत्रत्रयोद्भासिवदनस्यामलप्रभाः ।
यथा गणास्तथैवान्याः परिवारो हि मातरः
17
Keep
नृत्यन्ति मातरस्तस्य पुरो भूतगणानताः ।
चतुर्दशविधानन्तभूतजातैकभोजनाः
18
Keep
खरोष्ट्राकारवदना रक्तमेदोवसासवाः ।
दिगन्तरविहारिण्यः शरीरावयवस्रजः
19
Keep
वसन्तगिरिकूटेषु व्योम्नि लोकान्तरेषु च ।
अवटेषु श्मशानेषु शरीरेषु च देहिनाम्
20
Keep
जया च विजया चैव जयन्ती चापराजिता ।
सिद्धा रक्तालम्बुसा च उत्पला चेति देवताः
21
Keep
सर्वासामेव मातॄणामष्टावेतास्तु नायिकाः ।
आसामनुगतास्त्वन्यास्तासामनुगताः पराः
22
Keep
तासां मध्ये महार्हाणां मातॄणां मुनिनायक ।
अलम्बुसेति विख्याता माता मानद विद्यते
23
Keep
वज्रास्थितुण्डश्चण्डाख्य इन्द्रनीलाचलोपमः ।
तस्यास्तु वाहनं काको वैष्णव्या गरुडो यथा
24
Keep
इत्यष्टैश्वर्ययुक्तास्ता मातरो रौद्रचेष्टिताः ।
कदाचिन्मिलिता व्योम्नि सर्वाः केनापि हेतुना
25
Keep
उत्सवं परमं चक्रुः परमार्थप्रकाशकम् ।
वामस्रोतोगता एतास्तुम्बुरुं रुद्रमाश्रिताः
26
Keep
पूजयित्वा जगत्पूज्यौ देवौ तुम्बुरुभैरवौ ।
विचित्रार्थाः कथाश्चक्रुर्मदिरामदतोषिताः
27
Keep
अथेयमाययौ तासां कथावसरतः कथा ।
अस्मानुमापतिर्देवः किं पश्यत्यवहेलया
28
Keep
प्रभावं दर्शयामोऽस्य पुनर्नास्मांस्त्वसौ यथा ।
दृष्टमात्रमहाशक्तिः करिष्यत्यवधीरणम्
29
Keep
इति निश्चित्य ता देव्यो विवर्णवदनाङ्गिकाम् ।
उमामेव वशीकृत्य प्रोक्षयामासुरादृताः
30
Keep
माययापहृतां भर्तुरङ्गाद्रङ्गमुपागताम् ।
तामालोलकचां देव्यः शेपुरोदनतां गताम्
31
Keep
पार्वतीप्रोक्षणदिने तस्मिंस्तत्र महोत्सवः ।
बभूव तासां सर्वासां नृत्यगेयमनोहरः
32
Keep
अत्यानन्दमनुद्दामरवमेवाम्बरं बभौ ।
दीर्घावयवविक्षेपविकासिजघनोदराः
33
Keep
अन्या जहसुरुद्दामतालक्ष्वेडाघनारवम् ।
लसदङ्गविकारं च ध्वनत्सगिरिकाननाः
34
Keep
अन्या जगुर्ध्वनच्छैलग्रहमापानतोषिताः ।
वारीव रववद्रञ्जज्जगन्मण्डलकोटरे
35
Keep
अन्याः पानं पपुः पुष्टचर्चिताङ्गशिरःखुरम् ।
लीलाघुरघुरारावरणदाकाशकोटरे
36
Keep
पपुरुदगुरथोच्चैः सत्वरा जग्मुरूचु-
र्जहसुरपुरहौषुः पेतुरुच्चैर्ववल्गुः ।
ननृतुरनिशमादुः स्वादु मांसं च देव्य-
स्त्रिभुवनमपवृत्तं चक्ररुन्मत्तवृत्ताः
Previous
←
Sarga 17
Next
Sarga 19
→