Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 1
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
श्रीवाल्मीकिरुवा
च ।
उपशमप्रकरणादनन्तरमिदं
श्रृ
णु ।
त्वं निर्वाणप्रकरणं ज्ञातं निर्वाणदायि यत्
2
Keep
कथयत्येवमुद्दामवचने
मुनिनाय
के ।
श्रवणैकरसे मौनस्थिते राजकुमारके
3
Keep
मुनिवागर्थनिक्षिप्तमनस्यस्ततपःक्रि
ये ।
राजलोके गतस्पन्दे चित्रार्पित इव स्थिते
4
Keep
वसिष्ठवचसामर्थं विचारयति
सादर
म् ।
लसदङ्गुलिभङ्गेन मुनिसार्थे स्फुरद्भुवि
5
Keep
विस्मयालोकनोल्लासप्रोत्फुल्लनयनालि
नि ।
पुरन्ध्रिवर्गे गम्भीरतरुमञ्जरितां गते
6
Keep
खे वासरचतुर्भागदेशे दिनकरे
स्थि
ते ।
किंचिज्ज्ञानोदयात्सौम्ये किंचिच्छममुपेयुषि
7
Keep
श्रवणायेव संशान्ते
वितानस्पन्दमालि
ते ।
मौनं मरुति मन्दारमधुरामोददायिनि
8
Keep
पुष्पदामसुषुप्तासु
महाभ्रमरपंक्ति
षु ।
ज्ञातज्ञेयतया नूनं सम्यग्ध्यानवतीष्विव
9
Keep
मुक्ताजालकलापान्तर्गतास्वन्तरभूमि
षु ।
कचत्यपगतस्पन्दं तोये श्रोतुमिवास्थिते
10
Keep
गृहान्तरं प्रविष्टेषु गवाक्षे
दूरमंशु
षु ।
विश्रामार्थमिवादीर्घं नभःपान्थेषु शीतलम्
11
Keep
मुक्ताजालप्रभाजालभस्मनोद्धूलितात्म
नि ।
शंसतीव शमं शाम्यद्दिनदेहे दिवातपे
12
Keep
करे लीलासरोजेषु शेखरेषु च
भूभृता
म् ।
श्रुत्वा सुरसमामोदादवृत्तिषु मनस्स्विव
13
Keep
बालकेष्वज्ञलोकेषु लीलापक्षिषु
सादर
म् ।
भोजनार्थं वधूलोकमुपरुन्धत्स्वनारतम्
14
Keep
भ्रमद्भ्रमरपक्षोत्थवातधूतरजस्यल
म् ।
कौमुदे परिविश्रान्ते चामरेष्वक्षिपक्ष्मसु
15
Keep
रश्मिष्वगगुहोन्मुक्तच्छायाजालभयादि
व ।
गवाक्षादिष्विवोड्डीय प्रविष्टेषु गृहान्तरम्
16
Keep
आसीद्दिनचतुर्भागसत्तावेदनतत्प
रः ।
भेरीपटहशङ्खानां दिङ्मुखापूरको ध्वनिः
17
Keep
तेन तत्तारमप्याशु
वचोऽन्तर्धानमाय
यौ ।
मौनं जलदनादेन मायूर इव निस्वनः
18
Keep
आक्षुब्धा क्षुब्धपक्षालिः पञ्जरस्था
खगाव
ली ।
भूकम्पे तरसाऽऽतालीपल्लवेव वनावली
19
Keep
आययुर्भयवित्रस्ता बाला
धात्रीकुचान्तर
म् ।
सारवं प्रावृषीवाब्दाः प्रोन्नतं श्रृङ्गकोटरम्
20
Keep
उत्तस्थुरवतंसेभ्यो भूभृतां
भ्रमरस्र
जः ।
ईषत्करालवाहाभ्यः सरिद्भ्योऽम्बुकणा इव
21
Keep
एवं प्रक्षुभिते तस्मिन्गृहे दाशरथे
त
दा ।
प्राप्ते वासरवृद्धत्वे शान्तशङ्खस्वने शनैः
22
Keep
संहरन्प्रस्तुतं वस्तु वचो
मधुरवृत्तिम
त् ।
उवाच मुनिशार्दूलः सभामध्ये रघूद्वहम्
23
Keep
राघवानघ वाग्जालं
मयैतत्प्रविसारित
म् ।
तेन चित्तखगं बद्ध्वा क्रोडीकृत्यात्मतां नय
24
Keep
कच्चिद्गृहीतो भवता मद्गिरामर्थ
ईदृ
शः ।
त्यक्त्वा दुर्बोधमक्षीणो हंसेनेवाम्भसः पयः
25
Keep
विचार्यैतदशेषेण स्वधियैवं
पुनःपु
नः ।
अनेनैव पथा साधो गन्तव्यं भवताधुना
26
Keep
अनयैव धिया राम विहरन्नैव
बध्य
से ।
अन्यथाधः पतस्याशु विन्ध्यखाते यथा गजः
27
Keep
सुगृहीतं धिया राम मद्वचो न करोषि
चे
त् ।
तत्पतस्यवटे त्यक्तदीपो वान्धो निशास्विव
28
Keep
असङ्गेन यथाप्राप्तो व्यवहारोऽस्य
सिद्ध
ये ।
इत्येव शास्त्रसिद्धान्तमादायोदारवान्भव
29
Keep
हे सभ्या हे महाराज
रामलक्ष्मणभूमि
पाः ।
सर्व एव भवन्तोऽद्य तावद्व्यापारमाह्निकम्
30
Keep
कुर्वन्त्वयं हि दिवसः प्रायः
परिणताकृ
तिः ।
शेषं विचारयिष्यामो विचार्यं प्रातरागताः
31
Keep
श्रीवाल्मीकिरुवा
च ।
इत्युक्ता मुनिना तेन सा सर्वैव तदा
स
भा ।
प्रोत्तस्थौ पद्मवदना सविकासेव पद्मिनी
32
Keep
राजानः स्तुतराजानः
कृतराघववन्द
नाः ।
परिष्टुते वसिष्ठे ते जग्मुरात्मनिवेशनम्
33
Keep
विश्वामित्रेण सहितो वसिष्ठो
गन्तुमाश्रम
म् ।
उत्तस्थावासनाच्छ्रीमान्नमस्कृतनभश्चरः
34
Keep
दशरथप्रभृतयो राजानो
मुनयस्त
था ।
यथानुरूपं वक्तारमनुगम्य मुनिं चिरम्
35
Keep
आपृच्छ्य केचिद्गगनं ययुः
केचिद्वनान्तर
म् ।
केचिद्राजगृहं सन्तो भृङ्गाः पद्मोत्थिता इव
36
Keep
वसिष्ठपादयोस्त्यक्त्वा
पुष्पाञ्जलिमनाविल
म् ।
दारैरनुगतो राजा प्रविवेश गृहान्तरम्
37
Keep
रामलक्ष्मणशत्रुघ्नाः प्राप्तस्य स्वाश्रमं
गु
रोः ।
अभ्यर्च्य चरणौ भक्त्या त्वाजग्मुर्नृपमन्दिरम्
38
Keep
सदनानि समासाद्य श्रोतारः सर्व एव
ते ।
सस्नुरानर्चुरभ्येयुर्देवान्विप्रान्पितृंस्तथा
39
Keep
यथाक्रमं स्वभृत्यान्तैर्विप्राद्यैश्च
परिच्छ
दैः ।
समं बुभुजिरे भोज्यं वर्णधर्मक्रमोदितम्
40
Keep
अस्तं गते दिनकरे समं
दिवसकर्म
भिः ।
अभ्यागते रात्रिकरे समं रजनिकर्मभिः
41
Keep
स्थित्वा तल्पेषु कौशेयशयनेष्वासनेषु
च ।
भूचरा मुनिराजानो राजपुत्रा महर्षयः
42
Keep
संसारोत्तरणोपायं
वसिष्ठवदनेरित
म् ।
यथावदेकाग्रधियश्चिन्तयामासुरादृताः
43
Keep
ततः प्रहरमात्रेण
निद्रामामुद्रितान
नाः ।
उत्स्वप्नसुन्दरीमीयुः पद्मा इव दिनार्थिनः
44
Keep
रामलक्ष्मणशत्रुघ्नाः प्रहरत्रयमेव
त
त् ।
वासिष्ठमुपदेशं ते चिन्तयामासुरक्षतम्
45
Keep
प्रहरस्यार्धमात्रं ते तत
आमुद्रितेक्ष
णाः ।
उत्स्वप्नमाययुर्निद्रां क्षणाद्विद्रावितश्रमाम्
46
Keep
इति शुभमनसां विवेकभाजा-
मधिगतसारतयोदिताशयाना
म् ।
अभजत विरतिं तदा त्रियामा
मलिननिशाकरवक्रतां जगाम
Previous
←
Sarga 93
Next
Sarga 2
→