Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 24
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
एकैव केवला दृष्टिर्निरापाया गतभ्रमा ।
विद्यते सर्ववित्त्वेषु सर्वश्रेष्ठा समुन्नता
2
Keep
आत्मचिन्ता समस्तानां दुःखानामन्तकारिणी ।
चिरसंभृतदुःस्वप्नसंसारभ्रमहारिणी
3
Keep
निष्कलङ्कमनोमार्गविपुलाङ्गणचारिणी ।
तथा समस्तदुःखानां चिन्तानर्थविनाशिनी
4
Keep
ज्योत्स्नयेवान्धकाराणामलमन्तः प्रजायते ।
सा स्वात्मचिन्ता भगवन्सर्वसंकल्पवर्जिता
5
Keep
युष्मदादिषु सुप्रापा दुष्प्रापैवास्मदादिषु ।
समस्तकलनातीतं परां कोटिमुपागतम्
6
Keep
पदमासादयन्त्येतत्कथं सामान्यबुद्धयः ।
आत्मचिन्ताविलासिन्यास्तस्याः सख्यो महामुने
7
Keep
किंचित्साम्यमुपायाता विज्ञानशशिशीतलाः ।
आत्मचिन्तासमानानां विविधानां मुनीश्वर
8
Keep
आत्मचिन्तावयस्यानां मध्यादेकतमा मया ।
सर्वदुःखक्षयकरी सर्वसौभाग्यवर्धिनी
9
Keep
कारणं जीवितस्येह प्राणचिन्ता समाश्रिता ।
इत्युक्तवन्तं विहगं भुशुण्डं पुनरप्यहम् ।
जानन्नपीदमव्यग्रः पृष्टवान्क्रीडया मुनिम्
10
Keep
सर्वसंशयविच्छेदिन्नत्यन्तचिरजीवित ।
यथार्थम ब्रूहि मे साधो प्राणचिन्ता किमुच्यते
11
Keep
सर्ववेदान्तवेत्तासि सर्वसंशयनाशकः ।
मामेतत्परिहासार्थं मुने पृच्छसि वायसम्
12
Keep
अथवा भवतामेव भगवन्परिशिक्षितुम् ।
पुनः प्रत्युत्तराणीदं का मे क्षतिरुपस्थिता
13
Keep
भुशुण्डजीवितकरं भुशुण्डस्वात्मलाभदम् ।
शृणु प्राणसमाधानं वक्ष्यमाणमिदं मया
14
Keep
पश्येदं भगवन्सर्वं देहगेहं मनोरमम् ।
त्रिप्रकारमहास्थूणं नवद्वारसमावृतम्
15
Keep
पुर्यष्टककलत्रेण तन्मात्रस्वजनेन च ।
अहंकारगृहस्थेन सर्वतः परिपालितम्
16
Keep
अन्तः पश्यसि सत्कर्णशष्कुलीचन्द्रशालिकम् ।
शिरोरुहाच्छादनवद्विपुलाक्षिगवाक्षकम्
17
Keep
आस्यप्रधानसुद्वार भुजपार्श्वोपमन्दिरम् ।
दन्तालिकेसरस्रग्भिर्भूषितद्वारकोटरम्
18
Keep
अनारतं रूपरसस्पर्शनद्वारपालवत् ।
संकुलालोकवलितं तारालिन्दकृतस्थिति
19
Keep
रक्तमांसवसादिग्धं स्नायुसंततिवेष्टितम् ।
स्थूलास्थिकाष्ठसंबद्धं सुकुडयं सुसमाहितम्
20
Keep
इडा च पिङ्गला चास्य देहस्य मुनिनायक ।
सुस्थिते कोमले मध्ये पार्श्वकोष्ठे निमीलिते
21
Keep
पद्मयुग्मत्रयं यन्त्रमस्थिमांसमयं मृदु ।
ऊर्ध्वाधोनालमन्योन्यमिलत्कोमलसद्दलम्
22
Keep
सेकेन विकसत्पत्रं सकलाकाशचारिणा ।
चलन्ति तस्य पत्राणि मृदु व्याप्तानि वायुना
23
Keep
चलत्सु तेषु पत्रेषु स मरुत्परिवर्धते ।
वाताहते लतापत्रजाले बहिरिवाभितः
24
Keep
वृद्धिं नीतः स नाडीषु कृत्वा स्थानमनेकधा ।
ऊर्ध्वाधोवर्तमानासु देहेऽस्मिन्प्रसरत्यथ
25
Keep
प्राणापानसमानाद्यैस्ततः स हृदयानिलः ।
संकेतैः प्रोच्यते तज्ज्ञैर्विचित्राचारचेष्टितैः
26
Keep
हृत्पद्मयन्त्रत्रितये समस्ताः प्राणशक्तयः ।
ऊर्ध्वाधः प्रसृता देहे चन्द्रबिम्बादिवांशवः
27
Keep
यान्त्यायान्ति विकर्षन्ति हरन्ति विहरन्ति च ।
उत्पतन्ति पतन्त्याशु ता एताः प्राणशक्तयः
28
Keep
स एष हृत्पद्मगतः प्राण इत्युच्यते बुधैः ।
अस्य काचिन्मुने शक्तिः प्रस्पन्दयति लोचने
29
Keep
काचिस्पर्शमुपादत्ते काचिद्वहति नासया ।
काचिदन्नं जरयति काचिद्वक्ति वचांसि च
30
Keep
बहुनात्र किमुक्तेन सर्वमेव शरीरके ।
करोति भगवान्वायुर्यन्त्रेहामिव यान्त्रिकः
31
Keep
तत्रोर्ध्वाधोद्विसंकेतौ प्रसृतावनिलौ मुने ।
प्राणापानाविति ख्यातौ प्रकटौ द्वौ वरानिलौ
32
Keep
तयोरनुसरन्नित्यं मुने गतिमहं स्थितः ।
शीतोष्णवपुषोर्नित्यं नित्यमम्बरपान्थयोः
33
Keep
कलेवरमहायन्त्रवाहयोः श्रमहीनयोः ।
हृदाकाशार्कशशिनोस्त्वग्नीषोमस्वरूपयोः
34
Keep
शरीरपुरपालस्य मनसो रथचक्रयोः ।
अहंकारनृपस्यास्य प्रशस्येष्टतुरङ्गयोः
35
Keep
तयोर्ममानुसरतः प्राणापानाभिधानयोः ।
गतिं शरीरमरुतोराशरीरमरुद्धयोः
36
Keep
जाग्रत्स्वप्नसुषुप्तेषु सदैव समरूपयोः ।
सुषुप्तसंस्थितस्येव ब्रह्मन् गच्छन्ति वासराः
37
Keep
सहस्रविनिकृत्ताङ्गाद्बिसतन्तुलवादपि ।
दुर्लक्ष्या विद्यमानापि गतिः सूक्ष्मतराऽनयोः
38
Keep
अविरतगतयोर्गतिं विदित्वा हृदि मरुतोरनुसृत्य चोदितां ताम् ।
न पुनरिह हि जायते महात्मन्मुदितमनाः पुरुषः प्रणष्टपाशः
Previous
←
Sarga 23
Next
Sarga 25
→