Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 34
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
इत्थं स्थितमिदं विश्वं सदसद्देवरूपि च ।
द्वैतैक्यपदनिर्मुक्तं युक्तं द्वैतैक्यमप्यतः
2
Keep
चितेः कलङ्कवैरूप्यमिति संसारतां गतम् ।
अकलङ्कमसंसारि तच्चाभिन्नाद्वयात्मकम्
3
Keep
इयमस्मीति संप्राप्तकलङ्का चिन्निबध्यते ।
एतामेव कलां बुद्ध्वा स्वकाभिन्नां विमुच्यते
4
Keep
चिदर्थाकारताभावाद्द्वित्वात्सत्त्वं समुज्झति ।
सुखादिमिलितां धत्ते न सत्यां सदिति क्षणात्
5
Keep
शुद्धा निरंशा सत्या वाऽसत्या वेत्येवमादिभिः ।
विमुक्ता नामशब्दार्थैः सर्वैः सर्वात्मिकापि खम्
6
Keep
सर्वं निरुपमं शान्तं मनसैतत्त्रिमार्गगम् ।
ब्रह्मेदं बृंहितं ब्रह्म शक्त्याऽऽकाशविकासया
7
Keep
मनसा मनसि च्छिन्ने स्वेन्द्रियावयवात्मनि ।
सत्यालोकाज्जगज्जाले प्रच्छन्ने विलयं गते
8
Keep
छिद्यते शीर्णसंसारकलना कल्पनात्मिका ।
भृष्टबीजोपमा सत्ता जीवस्य इतिनामिका
9
Keep
पश्यन्ती नाम कलितोत्सृजन्ती चेत्यचर्वणाम् ।
मनोमोहाभ्रनिर्मुक्ता शरदाकाशकोशवत्
10
Keep
शुद्धा चिद्भावमात्रस्था चेत्यचिच्चापलं गता ।
समस्तसामान्यवती भवतीर्णभवार्णवा
11
Keep
अपुनर्भवसौषुप्तपदपाण्डित्यपीवरी ।
परमासाद्य विश्रान्ता विश्रान्ता वितते पदे
12
Keep
एतत्ते मनसि क्षीणे प्रथमं कथितं पदम् ।
द्वितीयं श्रृणु विप्रेन्द्र शक्तेरस्याः सुपावनम्
13
Keep
एषैव मनसोन्मुक्ता चिच्छक्तिः शान्तिशालिनी ।
सर्वज्योतिस्तमोमुक्ता वितताकाशसुन्दरी
14
Keep
घनसौषुप्तलेखावच्छिलान्तःसन्निवेशवत् ।
सैन्धवान्तस्थरसवद्वातान्तःस्पन्दशक्तिवत्
15
Keep
कालेनायाति तत्रैव परां परिणतिं यदा ।
शून्यशक्तिरिवाकाशे परमाकाशगा तदा
16
Keep
चेत्यांशोन्मुखतां नूनं त्यजत्यम्ब्विव चापलम् ।
वातलेखेव चलनं पुष्पलेखेव सौरभम्
17
Keep
कालताकाशते त्यक्त्वा सकले सकलाकला ।
न जडा नाजडा स्फारा धत्ते सत्तामनामिकाम्
18
Keep
दिक्कालाद्यनवच्छिन्नमहासत्तापदं गताम् ।
तुर्यतुर्यांशकलितामकलङ्कामनामयाम्
19
Keep
कांचिदेव विशालाक्ष साक्षिवत्समवस्थिताम् ।
सर्वतः सर्वदा सर्वप्रकाशस्वादुतत्पराम्
20
Keep
एषा द्वितीया पदता कथिता तव सुव्रत ।
तृतीयं श्रृणु वक्ष्यामि पदं पदविदां वर
21
Keep
एषा दृक्चेत्यवलनादनामार्थापदं गता ।
ब्रह्मात्मेत्यादिशब्दार्थादतीतोदेति केवला
22
Keep
स्थैर्येण कालतः स्वस्था निष्कलङ्का परात्मना ।
तुर्यातीतादिनामत्वादपि याति परं पदम्
23
Keep
सा परा परमा काष्ठा प्रधानं शिवभावतः ।
चित्येका निरवच्छेदा तृतीया पावनी स्थितिः
24
Keep
चिरमस्यां प्रतिष्ठायां सर्वाध्वाध्वगदूरगा ।
सा ममाप्यंग वचसां न समायाति गोचरम्
25
Keep
त्रिमार्गकलनातीतमिति ते कथितं मुने ।
तिष्ठ तस्मिन्पदे नित्यमिति देवः सनातनः
26
Keep
एतन्मयमिदं विश्वं मुने तन्मयवेदनात् ।
सत्यसंवेदनान्नेदं न च नेदं मुनीश्वर
27
Keep
नेदं प्रवर्तते किंचिन्नेदं किचिन्निवर्तते ।
शान्तं समसमाभासं प्रथते स्वस्य कोशवत्
28
Keep
अद्वैतैक्यादसंक्षोभाद्धनचेतनया तया ।
अविकारादिमत्त्वाच्च नित्यानित्यतया चिरम्
29
Keep
चिद्धनत्वाच्छिशुशिलाकोशानां जगतामपि ।
मनागपि न भेदोऽस्ति सतामप्यसतामपि
30
Keep
समस्तं सुशिवं शान्तमतीतं वाग्विलासतः ।
ओमित्यस्य च तन्मात्रातुर्या सा परमा गतिः
31
Keep
श्रीवाल्मीकिरुवाच ।
इत्युक्तवानमलदृक्परिणामतोऽस्मिन्
पारे पदे समुपशान्तरवाभिधाने ।
तूष्णीमतिष्ठदमुना मुनिना च सार्धं
विश्रान्तवृत्तिरथ तत्र मुहूर्तमीशः
Previous
←
Sarga 33
Next
Sarga 35
→