Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 36
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
ततश्चिद्रूपमेवैकं सर्वसत्तान्तरास्थितम् ।
स्वानुभूतिमयं शुद्धं देवं रुद्रेश्वरं विदुः
2
Keep
बीजं समस्तबीजानां सारं संसारसंसृतेः ।
कर्मणां परमं कर्म चिद्धातुं विद्धि निर्मलम्
3
Keep
कारणं कारणौघानामकारणमनाविलम् ।
भावनं भावनौघानामभाव्यमभवात्मकम्
4
Keep
चेतनं चेतनौघानां चेतनात्मनि चेतनम् ।
स्वं चेत्यचेतनं चेत्यपरमं भूरिभावनम्
5
Keep
आलोकालोकममलमनालोक्यमलोकजम् ।
आलोकं बीजबीजौघं चिद्धनं विमलं विदुः
6
Keep
असत्यं सन्मयं शान्तं सत्यासत्यविवर्जितम् ।
महासत्तादिसत्तान्ते चिन्मात्रं विद्धि नेतरत्
7
Keep
स्वयं भवति रागात्मा रञ्जको रञ्जनं रजः ।
स्वयमाकाशमप्याशु कुड्यं भवति मण्डितम्
8
Keep
अस्मिंश्चिच्चेतसि स्फारे जगन्मरुमरीचयः ।
स्फुरिताः प्रस्फुरिष्यन्ति प्रस्फुरन्ति च कोटयः
9
Keep
स्वसत्तामात्रसंपन्नं पदमस्मिन्स्वतेजसि ।
न किंचन च संपन्नमन्यदौष्ण्यादिवानले
10
Keep
गर्भीकृतमहामेरुं परमाणुसमं विदुः ।
आच्छादितमहामेरुं परमाणुसमं विदुः
11
Keep
गर्भीकृतमहाकल्पो निमेषोऽसावुदाहृतः ।
आक्रान्तकल्पेनानेन न संत्यक्ता निमेषता । । ।
12
Keep
बालाग्रकादप्यणुना व्याप्तानेनाखिला मही ।
सप्ताब्धिवसनाप्युर्वी नास्यान्तमधिगच्छति
13
Keep
अकुर्वन्नेव संसाररचनां कर्तृतां गतः ।
कुर्वन्नेव महाकर्म न करोत्येव किंचन
14
Keep
द्रव्यमप्येष निर्द्रव्यो निर्द्रव्योऽपि हि द्रव्यवान् ।
अकायोऽपि महाकायो महाकायोऽप्यकायवान्
15
Keep
अद्याप्येष सदा प्रातः प्रातरप्यद्यतां गतः ।
न वाद्यमद्य न प्रातस्त्वद्य प्रातश्च वा सदा
16
Keep
भिंडिं भिंडिं खिले मत्ता पुरुपिच्छिलिसालघम् ।
विविच्चलित्सदालोका लासो गुलुगुलुः शिली
17
Keep
इत्याद्यनर्थकं वाक्यं तथा सत्यं स एव च ।
न तदस्ति न यत्सत्यं न तदस्ति न यत्त्वसौ
18
Keep
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।
यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः
19
Keep
यत्रान्तरालगहनेन विलासवत्या
हेलाविलोलघनसर्जितयामलेन ।
मल्लेन पल्लवदलामलमालितानां
लक्ष्मीलताऽविरलिता वलितेव मुष्टिः
Previous
←
Sarga 35
Next
Sarga 37
→