Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 4
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
मनो बुद्धिरहंकार इन्द्रियादि तथानघ ।
अचेत्यचिन्मयं सर्वं क्व ते जीवादयः स्थिताः
2
Keep
एकेनैवात्मना दत्ता नानातेयं महात्मना ।
यथैकेनैव चन्द्रेण तिमिराप्पात्रदर्पणैः
3
Keep
भोगतृष्णाविषावेशो यदैवोपशमं गतः ।
तदैवमस्तमज्ञानमान्ध्यं ध्वान्तक्षयादिव
4
Keep
अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका ।
क्षीयते भावितेनान्तः शरदा मिहिका यथा
5
Keep
मौर्ख्ये क्षीणे क्षतं विद्धि चित्तं राम सबान्धवम् ।
विलीनाम्बुधरे व्योम्नि जाड्यं शाम्यत्यविघ्नतः
6
Keep
अचित्तत्वं गते चित्ते क्षीयते वासनाभ्रमः ।
हारमुक्तासमावेशश्छिन्ने तन्ताविवानघ
7
Keep
रघुनाथ विघाताय शास्त्रार्थं भावयन्ति ये ।
कृमिकीटत्वयोग्याय चेतसा संमिलन्ति ते
8
Keep
नवतामरसाकारकान्तलोचनलोलता ।
शान्ते मौर्ख्येऽक्षता वाते चलता सरसो यथा
9
Keep
स्थिरतामुपयातोऽसि भावाभावविवर्जितः ।
पदे परमविस्तारे नभसीव प्रभञ्जनः
10
Keep
मन्ये मद्वचनैर्बोधमागतोऽसि रघूद्वह ।
विगताज्ञाननिद्रोऽन्तर्नृपतिः पटहैरिव
11
Keep
सामान्ये च लगन्त्येव जने कुलगुरोर्गिरः ।
अत्युदारमतौ राम न लगन्ति कथं त्वयि
12
Keep
यत्रोपादेयवाक्यत्वं भावितं स्वेन चेतसा ।
मद्वचोऽन्तर्विशत्युच्चैस्तप्ते क्षेत्रे यथा पयः
13
Keep
वयमिह हि महानुभाव नित्यं
कुलगुरवो भवतां रघूद्वहानाम् ।
मदुदितमिदमाशु धार्यमार्य
शुभवचनं हृदि हारवत्त्वयेति
Previous
←
Sarga 3
Next
Sarga 5
→