Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 40
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
यथाकालं यथारम्भं न करोषि करोषि यत् ।
चिन्मात्रस्य शिवस्यान्तस्तदेवार्चनमात्मनः
2
Keep
तेनैवाह्लादमायाति याति प्रकटतां तथा ।
तथा स्थितेन रूपेण स्वेनैव स्वयमीश्वरः
3
Keep
रागद्वेषादिशब्दार्थानात्मन्यन्यतयामले ।
संभवन्ति पृथग्रूपावह्नौ वह्निकणा इव
4
Keep
यद्यद्राजत्वदीनत्वसुखदुःखादिवेदनम् ।
आत्मीयं परकीयं च तत्तदर्चनमात्मनः
5
Keep
विश्वसंवित्तिरेवार्चा नित्यस्यात्मन एव च ।
घटाद्यात्मतया ब्रह्म स्वयमात्मा तथैव च
6
Keep
शिवं शान्तमनाभासमेकं भास्वरमागतम् ।
जगत्प्रत्ययवत्सर्वमात्मरूपमिदं स्थितम् ।
7
Keep
अहो नु चित्रमात्मैव घटाद्यन्यद्व्यवस्थितम् ।
जीवादिस्वस्वभावोऽन्तर्नूनं विस्मृतिमानिव
8
Keep
सर्वात्मकस्यानन्तस्य शिवस्यान्तः किलात्मनः ।
पूज्यपूजकपूजाख्यो विभ्रमः प्रोदितः कुतः
9
Keep
नियताकारता शान्ते न च संभवतीश्वरे ।
यत्र संकल्प्यते ब्रह्मन्पूज्यपूजामयः क्रमः
10
Keep
पूज्यपूजाद्यवच्छिन्नो देवो नित्यामलात्मनः ।
सर्वशक्तेरनन्तस्य नेश्वरत्वस्य भाजनम्
11
Keep
त्रिजगत्प्रसृताच्छाच्छसंविद्रूपस्य चात्मनः ।
नेश्वरस्याकृतेर्ब्रह्मन्व्यपदेशो हि युज्यते
12
Keep
देशकालपरिच्छिन्नो येषां स्यात्परमेश्वरः ।
अस्माकमुपदेश्यास्ते न विपश्चिद्विपश्चिताम्
13
Keep
तदीयां दृष्टिमुत्सृज्य तथेमामवलम्ब्य च ।
समः स्वच्छमनाः शान्तो वीतरागो निरामयः
14
Keep
कामोपहारैरभितो यथाप्राप्तैरखिन्नधीः ।
आत्मानमर्चयंस्तिष्ठ सुखदुःखशुभाशुभैः
15
Keep
अधिगतवति साधौ चैकमेवानुरूपं
त्वयि तरलितजीवे जन्मदुःखादि किंचित् ।
न लगति परिशून्ये सर्वतः स्फाटिकाङ्गे
नवसदन इवाङ्के निष्कलङ्के कलङ्कः
Previous
←
Sarga 39
Next
Sarga 41
→