Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 45
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अत्रेमामवबोधाय विस्मयोल्लासकारिणीम् ।
अपूर्वां चैव संक्षेपाद्राम रम्यां कथां श्रृणु
2
Keep
योजनानां सहस्राणि विपुलं विमलं स्फुटम् ।
युगैरप्यजरद्रूपमस्ति बिल्वफलं महत्
3
Keep
अविनाशरसाधारं सुधामधुरसारवत् ।
पुराणमपि बालेन्दुदलमार्दवसुन्दरम्
4
Keep
व्यूहमध्यमहामेरुं मन्दराद्रिरिवाचलम् ।
महाकल्पान्तवात्याया अपि वेगैरचालितम्
5
Keep
योजनायुतकोटीनां कोटिलक्षशतैरपि ।
वैपुल्येनापरिच्छेद्यं मूलमाद्यं जगत्स्थितेः
6
Keep
यस्य बिल्वफलस्योच्चैब्रह्माण्डानि समीपतः ।
हरन्ति लीलां शैलाधो राजिकाकणपद्धतेः
7
Keep
स्यन्दमानरसापूरां स्वाद्वीं रसचमत्कृतिम् ।
यस्यातिशेते नो कश्चिदपि राघव षड्रसः
8
Keep
न कदाचन पाकेन पातं तेन समेति यत् ।
सदैव पक्वमप्यङ्ग जरसा यन्न बाध्यते
9
Keep
ब्रह्मविष्ण्विन्द्ररुद्राद्या जरठाः केचिदेव न ।
यस्योत्पत्तिं विजानन्ति मूलं वा वृन्तमेव च
10
Keep
अदृष्टाङ्कुरवृक्षस्य त्वदृष्टकुसुमाकृतेः ।
अस्तम्भमूलशाखस्य फलस्यास्य महाकृतेः
11
Keep
एकपिण्डघनाकारविततस्थौल्यशालिनः ।
यस्योत्पत्तिविकारादिपरिणामो न दृश्यते
12
Keep
समस्तफलसारस्य फलस्यास्य महाकृतेः ।
न मज्जा नाष्ठि विततो निर्विकारो निरञ्जनः
13
Keep
शिलान्तरिव नीरन्ध्रः स्यन्दमानेन्दुबिम्बवत् ।
रसं स्वसंविदास्वाद्यं स्यन्दमान इवामृतम्
14
Keep
कोशः सकलसौख्यानां शीतलालोककारकः ।
शैलाभोऽमृतपिण्डाभो मज्जाआत्मफलस्थितेः
15
Keep
तस्मात्परममज्जा तु यासौ स्वात्मचमत्कृतिः ।
अनन्तरक्षितो नित्यमनन्यः श्रीफलं गतः
16
Keep
स्वसंनिवेशवैचित्र्यमन्यत्वफलतां गताम् ।
अत्यजन्त्या तया तन्व्या स्थूलयाप्यतिबालया
17
Keep
इयमस्मीति कलनादसदप्यन्यतामलम् ।
भेदाद्यसंभवदिदं स्वयमुत्पाद्य भावितम्
18
Keep
अहंकलासमुदयसमनन्तरमेव सा ।
वलिताकाशशब्दाङ्गत्रैलोक्यपरमाणुभिः
19
Keep
इत्यनुक्रमतो याता संविच्छक्तिस्वरूपताम् ।
मज्जा प्राक् संनिवेशं स्वं तमेवाप्य समुज्झती
20
Keep
संविच्छक्तया तया तत्र ततस्तरलरूपया ।
निज एव समे रूपे दृगित्थं संप्रसारिता
21
Keep
इदं व्योम महानन्तमियं कालमयी कला ।
इयं नियतिरित्युक्ता क्रियेयं स्पन्दरूपिणी
22
Keep
अयं संकल्पविस्तारस्त्वयमाशान्तरभ्रमः ।
रागद्वेषस्थितिरियं हेयोपादेयधीरियम्
23
Keep
इयं त्वत्ता त्वियं मत्ता तत्तेयं संस्थिता स्वयम् ।
ब्रह्माण्डौघोऽयमूर्ध्वस्थः स्वयमङ्गोर्ध्वमप्यधः
24
Keep
अयं पुरः पार्श्वतोऽयं पश्चादाराद्दवीयसी ।
इदं भूतं वर्तमानं भविष्यत्त्विदमित्यपि
25
Keep
इदमन्तःस्थितानल्पकल्पनाम्भोरुहालयम् ।
ब्रह्माण्डमण्डपापीडक्रीडामण्डपमण्डलम्
26
Keep
अनन्तकलनातत्त्वपरिपल्लविता हरेः ।
हृदब्जकर्णिका चेयं लोकपद्माक्षमालिका
27
Keep
इयं कीर्णमहारुद्रगणापूरितकोटरा ।
दीर्घाभ्रसरणिर्भ्रान्तध्वंसनेभ्यः प्रभाविनी
28
Keep
इयं मेरुः ककुभ्यत्र जगत्पङ्कजकर्णिका ।
स्फुरदिन्दुमधूल्लासलम्पटामरषट्पदा
29
Keep
इयमुद्दामसौगन्ध्यस्वर्गश्रीपुष्पमञ्जरी ।
जगज्जरठवृक्षस्य रजोनरकमूलिनः
30
Keep
इयं च ताराकिंजल्का ब्रह्मार्णवतटस्थिता ।
अपारापारपर्यन्ता व्योमलीलासरोजिनी
31
Keep
इयं क्रियापरिग्राहा तरङ्गतरलावली ।
सर्गावर्तविधानस्थभूरिभूतपरम्परा
32
Keep
इयत्तया प्रसरिणी क्षणकल्पादिपल्लवा ।
तेजःकेसरिणी कालनलिनी व्योमपङ्कजा
33
Keep
इमा भावविकाराढ्या जरामृतिविषूचिकाः ।
विद्याविद्याविलासाढ्या इमाः शास्त्रार्थदृष्टयः
34
Keep
इति सा तस्य बिल्वस्य निजमज्जाचमत्कृतिः ।
संकल्पसंनिवेशान्तरेवैव कृतसंस्थितिः
35
Keep
शान्ता स्वस्था निराबाधा सौम्या भावनयोज्झिता ।
कर्तृत्वमप्यकर्तृत्वं कृत्वाऽकृत्वेव संस्थिता
36
Keep
एषैकिकैव विविधेव विभाव्यमाना
नैकात्मिका न विविधा ननु सैव सैव ।
सत्यास्थिता सकलशान्तिसमैकरूपा
सर्वात्मिकातिमहती चितिरूपशक्तिः
Previous
←
Sarga 44
Next
Sarga 46
→