Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 48
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
यत्रानुदितरूपात्म सर्वमस्तीदमाततम् ।
मयूर इव बीजेऽन्तस्तदहंतादिगादि च
2
Keep
यत्र नाभ्युदितं किंचित्तत्र सर्वं च विद्यते ।
तदत्राप्यङ्गिराः स्वर्गसुखसारेण बिम्बति
3
Keep
तथा च मुनयो देवा गणाः सिद्धा महर्षयः ।
आस्वादयन्तः स्वं रूपं सदा तुर्यपदे स्थिताः
4
Keep
एते ये स्तब्धनयनदृष्टयो निर्निमेषिणः ।
ते दृश्यदर्शनासङ्गस्पन्दत्यागे व्यवस्थिताः
5
Keep
नास्थिता भावना येषां स्थितानामपि कर्मसु ।
संवित्संवेद्यसंबन्धस्पन्दत्यागे च ये स्थिताः
6
Keep
प्राणो न स्पन्दते येषां चित्रस्थवपुषामिव ।
मनो न स्पन्दते येषां चित्रस्थवपुषामिव
7
Keep
चित्तचेत्यसमासङ्गत्यागे ते स्वपदे स्थिताः ।
स्पन्दात्संसाधयन्त्यर्थं तेनांशेनेश्वरो यथा
8
Keep
तथैव चित्तचेत्यादिस्पन्दात्कुर्वन्ति संस्थितिम् ।
यथा ह्लादयति स्वच्छः पल्लवं रश्मिरैन्दवः
9
Keep
तथात्मा ह्लादयत्यन्तर्दृश्यदर्शनसंगमे ।
बिम्बाद्दूरं प्रयातस्य भित्तावपतितस्य च
10
Keep
यदिन्दोस्तेजसो रूपं तद्रूपं शुद्धसंविदः ।
न दृश्यं नोपदेशार्हं नात्यासन्नं न दूरगम्
11
Keep
केवलानुभवप्राप्यं चिद्रूपं शुद्धमात्मनः ।
न देहो नेन्द्रियप्राणौ न चित्तं न च वासना
12
Keep
न जीवो नापि च स्पन्दो न संवित्तिर्न वै जगत् ।
न सन्नासन्न मध्यं च शून्याशून्यं न चैव हि
13
Keep
न देशकालवस्त्वादि तदेवास्ति न चेतरत् ।
एतैः सर्वैर्विनिर्मुक्तं हृदि कोशशतेन च
14
Keep
यत्रैतत्स्पन्दते दृश्यं तत्तदात्मपदं भवेत् ।
यच्च नाद्यं न कल्पान्तं न वस्त्वाद्यनिलादिभिः
15
Keep
इह चामुत्र सद्रूपादन्यथा भवति क्वचित् ।
जायन्ते च म्रियन्ते च देहकुम्भाः सहस्रशः
16
Keep
सबाह्याभ्यन्तरस्यास्य नात्माकाशस्य खण्डना ।
तच्च देहादि सकलमात्मैवात्मविदां वर
17
Keep
केवलं बोधवैरूप्यादीषत्पृथगिव स्थितम् ।
विष्वगात्ममयं विश्वं ज्ञातं बुद्ध्या सुसिद्धया
18
Keep
प्रज्वलन्नपि कार्येषु निर्वाणो निर्ममो भव ।
यदिदं दृश्यते किंचिज्जगत्स्थावरजंगमम्
19
Keep
तत्सर्वं ब्रह्म निर्धर्म निर्गुणं निर्मलात्मकम् ।
निर्विकारमनाद्यन्तं नित्यं शान्तं समात्मकम्
20
Keep
कालक्रियाकरणकर्तृनिदानकार्य-
जन्मस्थितिप्रलयसंस्मरणादि सर्वम् ।
ब्रह्मेति दृष्टवत एव तवात्मदृष्ट्या
भूयोऽपि किं भ्रमणमङ्ग समङ्ग एव
Previous
←
Sarga 47
Next
Sarga 49
→