Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 4
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
मनो बुद्धिरहंकार इन्द्रियादि
तथान
घ ।
अचेत्यचिन्मयं सर्वं क्व ते जीवादयः स्थिताः
2
Keep
एकेनैवात्मना दत्ता नानातेयं
महात्म
ना ।
यथैकेनैव चन्द्रेण तिमिराप्पात्रदर्पणैः
3
Keep
भोगतृष्णाविषावेशो यदैवोपशमं
ग
तः ।
तदैवमस्तमज्ञानमान्ध्यं ध्वान्तक्षयादिव
4
Keep
अध्यात्मशास्त्रमन्त्रेण
तृष्णाविषविषूचि
का ।
क्षीयते भावितेनान्तः शरदा मिहिका यथा
5
Keep
मौर्ख्ये क्षीणे क्षतं विद्धि चित्तं राम
सबान्धव
म् ।
विलीनाम्बुधरे व्योम्नि जाड्यं शाम्यत्यविघ्नतः
6
Keep
अचित्तत्वं गते चित्ते क्षीयते
वासनाभ्र
मः ।
हारमुक्तासमावेशश्छिन्ने तन्ताविवानघ
7
Keep
रघुनाथ विघाताय शास्त्रार्थं भावयन्ति
ये ।
कृमिकीटत्वयोग्याय चेतसा संमिलन्ति ते
8
Keep
नवतामरसाकारकान्तलोचनलोल
ता ।
शान्ते मौर्ख्येऽक्षता वाते चलता सरसो यथा
9
Keep
स्थिरतामुपयातोऽसि
भावाभावविवर्जि
तः ।
पदे परमविस्तारे नभसीव प्रभञ्जनः
10
Keep
मन्ये मद्वचनैर्बोधमागतोऽसि
रघूद्व
ह ।
विगताज्ञाननिद्रोऽन्तर्नृपतिः पटहैरिव
11
Keep
सामान्ये च लगन्त्येव जने
कुलगुरोर्गि
रः ।
अत्युदारमतौ राम न लगन्ति कथं त्वयि
12
Keep
यत्रोपादेयवाक्यत्वं भावितं स्वेन
चेत
सा ।
मद्वचोऽन्तर्विशत्युच्चैस्तप्ते क्षेत्रे यथा पयः
13
Keep
वयमिह हि महानुभाव नित्यं
कुलगुरवो भवतां
रघूद्वहाना
म् ।
मदुदितमिदमाशु धार्यमार्य
शुभवचनं हृदि हारवत्त्वयेति
Previous
←
Sarga 3
Next
Sarga 5
→