Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 50
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
ज्ञातं ज्ञातव्यमखिलं दृष्टं द्रष्टव्यमक्षतम् ।
परेण परिपूर्णाः स्मो ब्रह्मज्ञानामृतेन ते
2
Keep
पूर्णात्पूर्णमिदं पूर्णं पूर्णात्पूर्णं प्रसूयते ।
पूर्णेनापूरितं पूर्णं स्थिता पूर्णे च पूर्णता
3
Keep
लीलयेदं तु पृच्छामि भूयोबोधाभिवृद्धये ।
बालस्येव पिता ब्रह्मन्न कोपं कर्तुमर्हसि
4
Keep
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
विद्यमानमपि ब्रह्मन्दृश्यमानमपि स्फुटम्
6
Keep
कथं मृतस्य वै जन्तोर्विषयं स्वं न पश्यति ।
जीवतश्च कथं सर्वं विषयं स्वं प्रपश्यति । ।
कथं घटादिबाह्यत्वमिन्द्रियाणि जडान्यपि ।
शरीरेऽनुभवन्त्यन्तःपुनर्नानुभवन्त्यपि
7
Keep
अयःशलाकोपमयोर्घटादीन्द्रिययोः किल ।
अश्लिष्टयोरन्तरसौ कथं तन्नोदिता मिथः
8
Keep
जानन्नपि यदेतान्वै विशेषाञ्छतधा पुनः ।
पृच्छामि तदशेषेण कथयस्वानुकम्पया
9
Keep
इन्द्रियाद्यपि चित्तादि घटाद्यपि न किंचन ।
पृथक् संभवतीहाङ्ग निर्मलाच्चेतनादृते
10
Keep
गगनादपि याऽच्छा चित्तया रूपं स्वमात्मना ।
चित्त्वात्पुर्यष्टकत्वेन भाववृत्त्यैव भावितम्
11
Keep
तदेव च प्रकृतितां गतं जगदवस्थितेः ।
तस्या अवयवाज्जातमिन्द्रियादि घटादि च
12
Keep
पुर्यष्टकत्वमायातं यच्चित्तं स्वस्वभावतः ।
स्व एवावयवस्तस्मिन्घटादि प्रतिबिम्बति
13
Keep
जगत्सहस्रनिर्माणमहिम्नो दर्पणस्य च ।
पुर्यष्टकस्य भगवन्रूपं कथय कीदृशम्
14
Keep
अनाद्यन्तं जगद्बीजं यद्ब्रह्मास्ति निरामयम् ।
भारूपं शुद्धचिन्मात्रं कलाकलनवर्जितम्
15
Keep
कलनोन्मुखतां यातमन्तर्जीव इति स्मृतः ।
स जीवः खलु देहेऽस्मिंश्चिनोति स्पन्दते स्फुटम्
16
Keep
अहंभावादहंकारो मननान्मन उच्यते ।
बोधनिश्चयतो बुद्धिरिन्द्रदृष्टेस्तथेन्द्रियम्
17
Keep
देहभावनया देहो घटभावनया घटः ।
एष एव स्वभावात्मा जनैः पुर्यष्टकं स्मृतः
18
Keep
ज्ञत्वकर्तृत्वभोक्तृत्वसाक्षित्वाद्यभिपातिनी ।
या संविज्जीव इत्युक्ता तद्धि पुर्यष्टकं विदुः
19
Keep
काले काले ततो जीवस्त्वन्योन्यो भवति स्वतः ।
भाविताकारयानन्तवासनाकणिकोदयम्
20
Keep
पुर्यष्टकस्वभावेन कालेनाकारमृच्छति ।
यथावासनतः सेकाद्बीजं पल्लवतामिव
21
Keep
आकारोऽहं शरीरादि स्थावरादि चरादि च ।
नाहमाद्यश्चिदात्मेति मिथ्या ज्ञानेन चेतति
22
Keep
भ्रमत्येव जगज्जीवो वासनावलितश्चिरम् ।
ऊर्ध्वाधोगमनैरब्धौ काष्ठं वीचिहतं यथा
23
Keep
कश्चिद्विशुद्धजातित्वाद्भवबन्धादनन्तरम् ।
बुद्ध्वात्मानं समभ्येति पदमाद्यन्तवर्जितम्
24
Keep
कश्चित्कालेन बहुना भुक्तयोनिगणातुरः ।
आत्मज्ञानवशादेति परमं पदमात्मनः
25
Keep
एवंरूपश्च सुमते जीवो यातः शरीरताम् ।
नेत्रादिना घटाद्यन्तर्यथा वेत्ति तथा श्रृणु
26
Keep
चित्त्वस्य कलनान्तस्य संप्रयातस्य जीवताम् ।
मनःषष्ठेन्द्रियग्रामो देहोऽयमवतिष्ठते
27
Keep
यदान्यः सर्वदेहेभ्यः खे पतत्यक्षरूपिणा ।
तदा तज्जीवसंस्पर्शाज्जीवात्मैकत्वमृच्छति
28
Keep
बाह्यार्थवेदने नित्यं संबन्धोऽक्षस्य कारकः ।
समन्वितस्य चित्तेन न मुक्तस्य कदाचन
29
Keep
यद्यदच्छतरं तस्मिन्नभःस्थं प्रतिबिम्बति ।
जीवेन भवति श्लिष्टो बहिर्जीवोऽप्यजीवति
30
Keep
निघृष्टनवरत्नाभे यदा नयनतारके ।
तदा तयोर्बाह्यगतः पदार्थः प्रतिबिम्बति
31
Keep
जीवेन भवति श्लिष्टः प्रतिबिम्बतया ततः ।
जीवज्ञेयत्वमायाति बाह्यं वस्त्विति राघव
32
Keep
यत्संश्लेषमुपायाति तद्बालोऽपि हि विन्दति ।
पशुर्वा स्थावरो वापि जीवः कस्मान्न वेत्स्यति
33
Keep
अच्छस्य नयनस्याथो रश्मयो जीववेष्टिताः ।
क्रोडीकुर्वन्त्यलं दृश्यं जीवस्तत्त्वेन विन्दति
34
Keep
एष एव क्रमः स्पर्शे संबन्धः प्रत्ययोद्भवः ।
रसे गन्धे च कथितो जीवसंस्पर्शसंभवः
35
Keep
शब्दस्त्वाकाशनिष्ठत्वात्कर्णाकाशगतः क्षणात् ।
जीवाकाशं विशत्यन्तरित्थमिन्द्रियसंविदः
36
Keep
दृश्यते मानसादर्शे यन्त्रदार्वौदरेषु तत् ।
प्रतिबिम्बितमेतन्मे ब्रूहि ब्रह्मन्किमात्मकम्
37
Keep
अत्यन्तजडयोरेव जीवयोरिव तन्मिथः ।
प्रतिबिम्बं दृशो भ्रान्ति विद्धि वेद्यविदां वर
38
Keep
तावन्मात्रं जगत्त्वेतद्विश्वासो मा तवास्त्विह ।
अहमित्यादिस्तरङ्गो वर्तमानं सदा जलम्
39
Keep
पराम्भोधौ तु नास्त्येव देशकालक्रियादिकम् ।
तन्मयैकतया नित्यमात्मा सर्वत्र सर्वगः
40
Keep
नित्यमसक्तमतिर्मुदितात्मा
शान्तमृषासुखदुःखविदन्तः ।
तिष्ठ निविष्टमतिः समताया-
मस्तसमस्तभवामयमायः
Previous
←
Sarga 49
Next
Sarga 51
→