Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 57
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
श्रीभगवानुवाच ।
इदं विद्धि महाश्चर्यमर्जुनेह हि यत्किल ।
पूर्वं संजायते चित्रं पश्चाद्भित्तिरुदेति हि
2
Keep
अभित्तावुत्थिते चित्रे दृश्यते भित्तिरातता ।
अहो विचित्रा मायेयं मग्नं तुम्बं शिला प्लुता
3
Keep
चित्तस्थचित्रसदृशे व्योमात्मनि जगत्त्रये ।
व्योमात्मनस्ते किमियमहन्ताव्योमतोदिता
4
Keep
सर्वं व्योमकृतं व्योम्ना व्योम्नि व्योम विलीयते ।
भुज्यते व्योमनि व्योम व्योम व्योमनि चाततम्
5
Keep
वेष्टितं वासनारज्ज्वा दीर्घसंसृति दामवत् ।
वासनोद्वेष्टनेनैव तदिहोद्वेष्ट्यतेऽर्जुन
6
Keep
प्रतिबिम्बं यथादर्शे तथेदं ब्रह्मणि स्वयम् ।
अगम्यं छेदभेदादेराधारानन्यतावशात्
7
Keep
अनन्यच्छेदभेदादि ब्रह्मणि ब्रह्मणाम्बरम् ।
किं कथं कस्य केनैव च्छिद्यते वा क्व भिद्यते
8
Keep
तेनेह वासनाभावो बोधात्संपन्न एव ते ।
यो न निर्वासनो नूनं सर्वधर्मपरोऽपि सन्
9
Keep
सर्वज्ञोऽप्यतिबद्धात्मा पञ्जरस्थो यथा हरिः ।
यस्यास्ति वासनाबीजमत्यल्पं चितिभूमिगम्
10
Keep
बृहत्संजायते तस्य पुनः संसृतिकाननम् ।
अभ्यासाद्धृदि रूढेन सत्यसंबोधवह्निना ।
निर्दग्धं वासनाबीजं न भूयः परिरोहति
11
Keep
दग्धं तु वासनाबीजं न निमज्जति वस्तुषु ।
सुखदुःखादिषु स्वच्छं पद्मपत्रमिवाम्भसि
12
Keep
शान्तात्मा विगतभयोज्झितामिताशो
निर्वाणो गलितमहामनोविमोहः ।
सम्यक्त्वं श्रुतमवगम्य पावनं त-
त्तिष्ठात्मन्यपहतिरेकशान्तिरूपः
Previous
←
Sarga 56
Next
Sarga 58
→