Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 60
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
5
Keep
एवमाद्यं परं तत्त्वं चिद्धनं परमं पदम् ।
तत्स्था एते महारूपा ब्रह्मविष्णुहरादयः
2
Keep
विभूतिभिः स्फुरन्त्युच्चैर्जनास्तुष्टा नृपा इव ।
आकाशगमनाद्याभिः क्रीडाभिः क्रीड्यते चिरम्
3
Keep
तत्स्थेनैव जनेनेह स्वर्गे स्वर्गौकसो यथा ।
तत्प्राप्याङ्ग न म्रियते तत्प्राप्याङ्ग न शोच्यते
4
Keep
तत्प्राप्य जीव्यते नाङ्ग तत्प्राप्याङ्ग न रुध्यते ।
अपारपरमाकाशरूपिणः परमात्मनः
5-2
Keep
सत्तासामान्यरूपं चेन्मनागपि विभाव्यते ।
तत्त्वं निमेषमात्रेण जन्तुर्मुक्तमना मुनिः ।
कुर्वन्संसारकर्माणि न भूयः परितप्यसे
6
Keep
मनो बुद्धिरहंकारश्चित्तं यत्र क्षयं गतम् ।
सत्तासामान्यमाभातं मनस्वी स किमुच्यते
7
Keep
यद्ब्रह्म सर्वदेहस्थं भुङ्क्ते पिबति वल्गति ।
आदत्ते विनिहन्त्यन्तः संवित्संवेद्यवर्जितम्
8
Keep
तत्सर्वगतमाद्यन्तरहितं स्थितमर्जितम् ।
सत्तासामान्यमखिलं वस्तुतत्त्वमिहोच्यते
9
Keep
तत्स्थितं खतया व्योम्नि शब्दे शब्दतया स्थितम् ।
स्पर्शे स्थितं स्पर्शतया त्वचि तत्त्वक्तया स्थितम्
10
Keep
रसे लीनं रसतया रसनायां तु तत्तया ।
रूपे रूपतया दृष्टं नेत्रे लीनं च दृक्तया
11
Keep
ध्राणे घ्राणतया दृष्टं गन्धे गन्धतयोदितम् ।
पुष्टं कायतया काये भूमावपि च भूतया
12
Keep
पयस्तया च पयसि वायौ वायुतया स्थितम् ।
तेजस्तया तेजसि च बुद्धौ बुद्धितया गतम्
13
Keep
मनस्तया मनस्यन्तरहंकृत्याप्यहंकृतौ ।
रूढं संविदि संवित्त्या चित्ते चित्ततयोत्थितम्
14
Keep
वृक्षे वृक्षतया लग्नं पटे पटतयोदितम् ।
घटे घटतया रूढं वटे वटतयोत्थितम्
15
Keep
स्थावरे स्थावरत्वेन जंगमत्वेन जंगमे ।
पाषाणत्वेन पाषाणे चेतनत्वेन चेतने
16
Keep
अमरेष्वमरत्वेन नरत्वेन नरेषु च ।
तिर्यक्त्वेन च तिर्यक्षु क्रिमित्वेन क्रिमिस्थितौ
17
Keep
कालक्रमे कालतया ऋतावृतुतया तथा ।
त्रुटिक्षणनिमेषादौ संस्थितस्तत्तया विभुः
18
Keep
शुक्ले शुक्लतया जातं कृष्णे कृष्णतया स्थितम् ।
क्रियासु स्पन्दरूपेण नियतौ नियमेन च
19
Keep
संस्थितः संस्थितौ स्थित्या नाशे नाशतया स्थितः ।
उत्पत्तिरूपेणोत्पत्तावास्थितः परमेश्वरः
20
Keep
बाल्येन बाल्ये विश्रान्तो यौवने यौवनेन च ।
जरसा च जरारूपे मरणे मरणेन च
21
Keep
इति सर्वपदार्थानामभिन्नः परमेश्वरः ।
कल्लोलसीकरोर्मीणामब्धाविव पयोभरः
22
Keep
नानातैषां त्वसत्यैव सत्येनानेन चैव हि ।
कल्पिता चित्स्वभावेन वेतालः शिशुना यथा
23
Keep
सर्वत्र संस्थितिमता विगतामयेन
व्याप्तं मयेदमखिलं विविधैर्विलासैः ।
चिद्रूपिणैव कलना कलितात्मनेति
मत्वोपशान्तमतिरास्स्व सुखं महात्मन्
24
Keep
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायंतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम
Previous
←
Sarga 59
Next
Sarga 61
→