Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 66
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
वाल्मीकिरुवाच ।
वसिष्ठमुनिसंयुक्ता विश्वामित्रादिसंयुताः ।
स्थिताः खेचरसिद्धौघा विश्रान्ता नृपनायकाः
2
Keep
सरामलक्ष्मणा सैव तथैवाथ सभा बभौ ।
सौम्या समसमाभोगा शान्तवातेव पद्मिनी
3
Keep
अनवेक्ष्य वचः प्रश्नमुवाचाथ मुनीश्वरः ।
बोधयन्ति बलादेव सानुकम्पा हि साधवः
4
Keep
राजन् रघुकुलाकाशशशाङ्क रघुनन्दन ।
ह्यो मया ज्ञाननेत्रेण स भिक्षुः प्रेक्षितश्चिरम्
5
Keep
ध्यानेनाहं चिरं भ्रान्तस्तादृग्भिक्षुदिदृक्षया ।
द्वीपानि सप्त विपुलां कुलशैलसपर्वताम्
6
Keep
यावत्कुतश्चिदप्येवं भिक्षुर्लब्धो न तादृशः ।
कथं किल मनोराज्यं बहिरप्युपलभ्यते
7
Keep
ततस्त्रिभागशेषायां रात्र्यां पुनरहं धिया ।
उत्तराशान्तरं यातो वेलावात इवार्णवम्
8
Keep
जिननामैष तत्रास्ति श्रीमान् जनपदो महान् ।
वल्मीकोपरि तत्रास्ति विहारो जनसंश्रयः
9
Keep
तस्मिन्विहारे स्वकुटीकोशे कपिलमूर्धजः ।
भिक्षुर्दीर्घदृशो नाम स्थित एव समाधये
10
Keep
एकविंशतिरात्रं च तस्यैवं स्थितिशालिनः ।
दृढार्गलं गृहं ध्यानभङ्गभीता विशन्ति नो
11
Keep
भृत्याः प्रियाः किल तथा संतिष्ठति स भिक्षुकः ।
अद्यैव तस्य संवेत्तुं नियतेरीदृशी स्थितिः
12
Keep
रात्रयो ध्याननिष्ठस्य गतास्तस्यैकविंशतिः ।
स तु वर्षसहस्त्रानी तथा चित्तेन भूतवान्
13
Keep
कस्मिंश्चित्प्राक्तने कल्पे भिक्षुरेव पुराऽभवत् ।
अद्य त्विह द्वितीयोऽस्मिंस्तृतीयो नोपलभ्यते
14
Keep
मया तु पुनरन्विष्य चेतसा चतुरात्मना ।
तादृग् भिक्षुस्तृतीयोऽन्यो जगत्पद्मोदरालिना
15
Keep
अस्मात्सर्गात्ततो लब्धस्तृतीयस्तादृशाशयः ।
अथान्ये लीलया सर्गा मया संप्रेक्षितास्ततः
16
Keep
यावत्तस्मिंश्चिदाकाशकोशशायिनि सर्गके ।
तृतीयो विद्यते भिक्षुर्ब्राह्मश्च सदृशक्रमः
17
Keep
एवं तेनैव तेनैव संनिवेशेन भूरिशः ।
भविष्यन्त्यभवन्सर्वे पदार्थाः सर्गसंततौ
18
Keep
अस्यां सभायामपि ये मुनयो ब्राह्मणास्तथा ।
भाव्यमेवं समाचौरस्तैरन्यैरप्यनेकशः
19
Keep
नारदेनामुना भाव्यं पुनरन्येन चामुना ।
एवं कलनकर्मभ्यां युक्तेनान्येन भूरिशः
20
Keep
एवं जन्मादिना भाव्यं व्यासेनापि शुकेन च ।
शौनकेन पुनर्भाव्यं क्रतुना पुलहेन च
21
Keep
अगस्त्येन पुलस्त्येन भृगुणाऽङ्गिरसापि च ।
एत एव तथान्ये च एवंरूपक्रियास्पदम्
22
Keep
चिराच्चिराद्भविष्यन्ति मायेयं वितता यतः ।
सदृशाचारजन्मानस्त एवान्ये च भूरिशः
23
Keep
भूयोभूयो विवर्तन्ते सर्गेष्वप्स्विव वीचयः ।
अत्यन्तसदृशाः केचित्केचिदर्धसमक्रमाः
24
Keep
केचिदीषत्समाः केचिन्न कदाचित्पुनस्तथा ।
एवमेषातिवितता महतामपि मोहिनी
25
Keep
क्षणेनेहास्ति नो कर्म प्रतिपत्तिर्हि जृम्भते ।
क्वैकविंशत्यहोरात्रा अनन्ताकृतयोऽनघ
26
Keep
क्व तासामुपलम्भोऽलमहो भीमा मनोगतिः ।
प्रतिभामात्रमेवेदमित्थं विकसितं स्थितम्
27
Keep
नानाकलहकल्लोलं जले प्रातरिवाम्बुजम् ।
जातं संवेदनादेव शुद्धादिदमशुद्धिमत् ।
संसारजालमखिलं सार्चिर्वह्निकणादिव
28
Keep
प्रत्येकमेवमुदितः प्रतिभासखण्डः
खण्डान्तरेष्वपि च तस्य विचित्रखण्डः ।
सर्वे स्वयं ननु च तेऽपि मिथो न मिथ्या
सर्वात्मनि स्फुरति कारणकारणेऽस्मिन्
Previous
←
Sarga 65
Next
Sarga 67
→