Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 68
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
सुषुप्तमौनवान्भूत्वा त्यक्त्वा चित्तविलासिताम् ।
कलनामलनिर्मुक्तस्तिष्ठावष्टब्धतत्पदः
2
Keep
वांग्मौनमक्षमौनं च काष्ठमौनं च वेद्म्यहम् ।
सुषुप्तमौनं मौनेश ब्रह्मन्ब्रूहि किमुच्यते
3
Keep
द्विविधः प्रोच्यते राम मुनिर्मुनिवरैरिह ।
एकः काष्ठतपस्वी स्याज्जीवन्मुक्तस्तथेतरः
4
Keep
अभावितायां शुष्कायां क्रियायां बद्धनिश्चयः ।
हठाज्जितेन्द्रियग्रामो मुनिः स्यात्काष्ठतापसः
5
Keep
यथाभूतमिदं बुद्ध्वा भावितात्मात्मनि स्थितः ।
लोकोपमोपि तृप्तोऽन्तर्यः स मुक्तमुनिः स्मृतः
6
Keep
एतयोर्यो भवेद्भावः शान्तयोर्मुनिनाथयोः ।
चित्तनिश्चयरूपात्मा मौनशब्देन स स्मृतः
7
Keep
चतुष्प्रकारमाहुस्तं मौनं मौनविदो जनाः ।
वांग्मौनमक्षमौनं च काष्ठं सौषुप्तमेव च
8
Keep
वांग्मौनं वचसां रोधो बलादिन्द्रियनिग्रहः ।
अक्षमौनं परित्यागश्चेष्टानां काष्ठसंज्ञकम्
9
Keep
मनोमौनं पञ्चमं च तन्मृतौ काष्ठतापसे ।
भावे सुषुप्तमौनाख्यं जीवन्मुक्तोऽनुजीवति
10
Keep
त्रिषु मौनविशेषेषु विषयः काष्ठतापसः ।
सुषुप्तमौनावस्थायां सा तुर्या सैव मुक्तधीः
11
Keep
वांग्मौनं मौनमित्येतत्सिद्धं तच्च मनः किल ।
मलिनं जीवबन्धाय तत्रस्थः काष्ठतापसः
12
Keep
अस्मत्संस्मरणं वापि दृश्यं वाङ्मयमस्पृशन् ।
अपश्यन्नेव पश्यन् हि काष्ठमौनी तु तिष्ठति
13
Keep
प्रस्फुरच्चित्तकलनमेतन्मौनत्रयं स्मृतम् ।
भवन्ति मौनिनस्तत्र न तज्ज्ञास्तत्स्थलीलया
14
Keep
नात्रोपादेयताज्ञानमेतन्मौनत्रये किल ।
लीलया कथितं तेन तज्ज्ञाः कुप्यन्तु वा न वा
15
Keep
इदं सुषुप्तमौनं तु जीवन्मुक्तमितिस्थितम् ।
अपुनर्जन्मनो जन्तोः श्रृणु श्रवणभूषणम्
16
Keep
नात्र संयम्यते प्राणस्त्रिविधो नापि योज्यते ।
नोल्लस्यन्ते न ग्लायन्ते समस्तेन्द्रियसंविदः
17
Keep
नानाताकलनेयं च न वल्गति न शाम्यति ।
चेतो न चेतो नाचेतो न सन्नासन्न चेतरत्
18
Keep
अविभागमनभ्यासं यदनाद्यन्तमास्थितम् ।
ध्यायतोऽध्यायतश्चैतत्सौषुप्तं मौनमुच्यते
19
Keep
यथाभूतमिदं बुद्ध्वा जगन्नानात्वविभ्रमम् ।
यथास्थितमसंदेहं सौषुप्तं मौनमेव तत्
20
Keep
अनेकसंविद्रूपात्म शिवेनैवेदमाततम् ।
इत्यास्थितमनन्तं यत्सौषुप्तं मौनमुच्यते
21
Keep
आकाशं नैव चाकाशं सर्वमस्ति च नास्ति च ।
इति चित्तं समं शान्तं यत्तन्मौनं सुषुप्तवत्
22
Keep
सर्वशून्यं निरालम्बं शान्तिविज्ञप्तिमात्रकम् ।
न सन्नासदिति यस्यामासितं मौनमुत्तमम्
23
Keep
भावाभावादशादेशविशेषैर्वितथोत्थितैः ।
संविदो यदनाभासस्तन्मौनं परमं विदुः
24
Keep
अत्यन्तमसतैवान्तश्चेतसाऽवृत्तिरूघिणा ।
यदनावर्तनं संविद्वृत्तेस्तन्मौनमक्षयम्
25
Keep
नाहमस्मि न चान्योऽस्ति न मनो न च मानसम् ।
इति संविदसंवित्तिरविच्छिन्नातिमौनिता
26
Keep
अहमस्मि जगत्यस्मिन्स्वस्ति शब्दार्थमात्रकम् ।
सत्तासामान्यमेवेति सौषुप्तं मौनमुच्यते
27
Keep
यस्मात्संविदमेव स्यात्स्वान्यादिकलना कुतः ।
अनन्तमेव सौषुप्तं सर्वं मौनमतस्ततम्
28
Keep
सुषुप्तमौनमेवेदमनन्तत्वात्प्रबोधवत् ।
तुर्यमेवामलं विद्धि तुर्यातीतमथापि च
29
Keep
सौषुप्तैकसमाधानस्तथा तुर्यसमाधिकः ।
तुर्यातीतसमाधिर्वा जाग्रत्यपि भवन्ति वै
30
Keep
तुर्यस्य एव सकलामलशान्तिवृत्ति-
र्जाग्रत्यपि व्यवहरन्निपुणं समन्तात् ।
नित्यं सदेह उत वापि विदेह एव
ब्रह्मन्नभोभवत एव किलास्ति साधो
31
Keep
ओंमित्युदस्तभववासनमेकमास्स्व
न त्वं न चाहमपि नान्यदिहास्ति सत्यम् ।
सर्वं च विद्यत इतीह किलान्तराभं
ज्ञस्तिष्ठ चिद्गगनकोशकलैकनिष्ठः
Previous
←
Sarga 67
Next
Sarga 69
→