Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 6
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
भूय एव महाबाहो श्रृणु मे परमं
व
चः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया
2
Keep
भेदमभ्युपगम्यापि श्रृणु
बुद्धिविवृद्ध
ये ।
भवेदल्पप्रबुद्धानामपि नो दुःखिता यथा
3
Keep
यस्याज्ञानात्मनोऽज्ञस्य देह
एवात्मभाव
ना ।
उदितेति रुषैवाक्षरिपवोऽभिभवन्ति तम्
4
Keep
यस्य ज्ञानात्मनो ज्ञस्य सत्येवात्मनि
संस्थि
तिः ।
संतुष्ट्यैवाक्षसुहृदो न घ्नन्ति तमनिन्दितम्
5
Keep
पदार्थे स्फुरतो यस्य न
स्तुतिर्निन्दनादृ
ते ।
स देहं देहदुःखार्थमादत्ते केन हेतुना
6
Keep
नात्मा शरीरसंबन्धी शरीरमपि
नात्म
नि ।
मिथो विलक्षणावेतौ प्रकाशतमसी यथा
7
Keep
सर्वैर्भावविकारैस्तु
नित्योन्मुक्तस्त्वलेप
कः ।
नात्मास्तमेति भगवान्न चोदेति सदोदितः
8
Keep
जडस्याज्ञस्य तुच्छस्य कृतघ्नस्य
विनाशि
नः ।
शरीरकोपलस्यास्य यद्भवत्यस्तु तत्तथा
9
Keep
आदत्ते तत्कथं नित्यं चिन्मयत्वं
सदोदित
म् ।
ययोरेकपरिज्ञाने जडतैवाऽपरस्थिता
10
Keep
तयोः कीदृग्विधा भूता
समानसुखदुःख
ता ।
यौ समौ समधर्माणौ न कदाचन तौ कथम्
11
Keep
यावप्यसक्तावन्योन्यं मिथः संनमितौ
कथ
म् ।
कथं स्थूलोऽणुरूपः स्यादणुः स्थूलः कथं भवेत्
12
Keep
एकोदये द्वितीयस्य न सत्ता
दिनरात्र
योः ।
ज्ञानं नाज्ञानतामेति च्छाया नायाति तापताम्
13
Keep
सद्ब्रह्म नासद्भवति विचित्रास्वपि
दृष्टि
षु ।
मनागपि न संश्लेषः सर्वगस्यापि देहिनः
14
Keep
देहेन देहगस्यापि कमलस्येव
वारि
णा ।
मनागपि न संश्लेषो ब्रह्मणो देहसत्तया
15
Keep
तद्गतस्याप्यतद्वृत्तेरम्बरस्येव
वायु
तः ।
जरा मरणमापच्च सुखदुःखे भवाभवौ
16
Keep
मनागपि न सन्तीह तस्मात्त्वं निर्वृतो
भ
व ।
स्थितो देहतयाप्युच्चैः पातोत्पातमयो भ्रमः
17
Keep
दृश्यते केवलं ब्रह्मण्यप्सु वीचिचयो
य
था ।
आत्मसत्तोपजीवित्वादात्मानुभवतीह हि
18
Keep
देहयन्त्रं पयःसत्तामात्रादूर्मिमिव
स्थित
म् ।
आधारस्पन्दनेनाङ्ग यथा क्षोभो न वा भवः
19
Keep
सूर्यादेः प्रतिबिम्बस्य तथा देहेन
देहि
नः ।
सम्यग्दृष्टे यथाभूते वस्तुन्येवाभिजायते
20
Keep
स्थितिर्देहमयो ज्ञानविभ्रमो लयमेति
च ।
देहदेहवतोर्ज्ञानाद्यथाभूतार्थयोः स्थितिः
21
Keep
सत्तासत्तात्मिकोदेति
दीपाद्दीपपदार्थ
योः ।
असम्यग्दर्शिनो देहस्यावर्तपरिवर्तनैः
22
Keep
अन्तःशून्याः स्फुरन्तीह ते
मोहार्जुनपाद
पाः ।
अपर्यालोचितात्मार्था अपरामृष्टसंविदः
23
Keep
स्पन्दन्ते
चेतितोन्मुक्तास्तृणवन्मूढबुद्ध
यः ।
अनास्थादितचित्तत्वाज्जडाः सर्वे खवायुभिः
24
Keep
यत्र तत्रोदिताक्रान्ता रटन्ति प्रस्फुरन्ति
च ।
तृणकाष्ठादिकं सर्वमाहरन्ति त्यजन्ति च
25
Keep
सशब्दस्पर्शरूपाढ्यास्तरङ्गतरलाङ्ग
काः ।
जडाः सन्तः स्फुरद्रूपा भृशं स्फाररसासवाः
26
Keep
सविहारागमापाया महौघा इव
दुर्धि
यः ।
सर्वेषामेव चैतेषां स्थितैवैषा चिदव्यया
27
Keep
किंत्वबोधवशादस्याः परां कृपणतां
ग
ता ।
श्वाससंततयो ह्यज्ञाल्लोहकारदृतेर्यथा
28
Keep
स्पन्दमात्रार्थमेवाशु दृश्यन्ते
नार्थकारि
णः ।
तर्जनं गर्जनं मूढाद्धनुर्दण्डगुणादिव
29
Keep
श्रूयते मरणायैव
चिद्बोधपरिवर्जित
म् ।
फलभोगोऽपि यो मूढात्तदरण्यतरोरिव
30
Keep
तस्मिन्विश्रमणं यत्तच्छिलाफलहके
य
था ।
तेन यत्संगमः स स्यात्स्थाणुना भुवि जङ्गले
31
Keep
तदर्थं यत्कृतं किंचित्तद्व्योम
लकुटैर्हत
म् ।
तस्मिन्यदधमे दत्तं तत्त्यक्तं किं न कर्दमे
32
Keep
तेन सार्धं कथा
यत्तत्कौलेयाह्वानमम्ब
रे ।
अज्ञानमापदां निष्ठा का हि नापदजानतः
33
Keep
इयं
संसारसरणिर्वहत्यज्ञप्रमाद
तः ।
अज्ञस्योग्राणि दुःखानि सुखान्यपि दृढानि च
34
Keep
पुनःपुनर्निवर्तन्ते युगं प्रत्यचला
इ
व ।
शरीरधनदारादावास्थां समनुबध्नतः
35
Keep
इदं दुर्दुःखमज्ञस्य न कदाचन
शाम्य
ति ।
अनात्मनि शठे देहे आत्मभावमुपेयुषि
36
Keep
असद्बोधमयी माया कथं नामापि
नश्य
ति ।
दुर्भावस्वञ्चितधियो वस्तुन्यन्धस्य दुर्मतेः
37
Keep
अवस्तुनि सनेत्रस्य लुठतश्च पदे
प
दे ।
विषमुत्पद्यते चन्द्रादामोदः कुसुमादिव
38
Keep
कण्टकश्चैति पयसो दूर्वाङ्कुर इव
स्थला
त् ।
देहशाल्मलिभोगिन्यो मनोमातङ्गश्रृंखलाः
39
Keep
अज्ञस्याशाः प्रसूयन्ते सुकृष्टादिव
शाल
यः ।
नरकश्रीरिहाज्ञानं दुष्कृतव्यालवेष्टितम्
40
Keep
परिपालयति प्रीता मयूरी वारिदं
य
था ।
नेत्रलोलालिनीलोला स्फुरिताधरपल्लवा
41
Keep
मूर्खार्थमेव विकसत्यङ्गना
विषवल्ल
री ।
अज्ञस्य हृदि सद्भूमावेव पेलवपल्लवा
42
Keep
विद्यते पतगच्छायो
रागविद्रुमदुर्द्रु
मः ।
तरुच्छदलसद्धूमः शस्त्रजालरदोल्मुकः
43
Keep
ज्वलति द्वेषदावाग्निर्हृन्मरौ
कायताप
दः ।
अज्ञमात्सर्यमनसि परापवदनच्छदा
44
Keep
ईर्ष्याकमलिनी चिन्ताषट्पदा
विलसत्यल
म् ।
प्रतिजन्मप्रमृष्टोग्रदुःखकल्लोलविभ्रमम्
45
Keep
जडमेव समभ्येति
पुनर्मरणवाड
वः ।
जन्म बाल्यं व्रजत्येतद्यौवनं युवता जराम्
46
Keep
जरा मरणमभ्येति मूढस्यैव
पुनःपु
नः ।
जगज्जीर्णारघट्टेऽस्मिन्रज्ज्वा संसृतिरूपया
47
Keep
मज्जनोन्मज्जनैरज्ञो यन्त्रे कलशतां
ग
तः ।
यदेव गोष्पदापूरं ज्ञधियः पेलवं जगत्
48
Keep
तदेवापारपर्यन्तमगाधममहात्म
नः ।
धियोऽदृश इवाज्ञस्य दीर्घं जठरकोटरात्
49
Keep
न प्रयान्त्यपरं पारं विहङ्ग्यः
पञ्जरादि
व ।
भावमात्रपरावृत्तवासनाभारनाभयः
50
Keep
स्पष्टीकर्तुं न शक्यन्ते जन्मचक्रस्य
नेम
यः ।
अज्ञेनेन्द्रियगृध्रार्थं रागान्मृगयुणा तनुः
51
Keep
संसारारण्य आस्तीर्णा
दूरादामिषपिण्डव
त् ।
भूतशैलमयी दृष्टिर्मृन्मांसलवमात्रिका
52
Keep
मोहात्संलक्ष्यते
चित्रपदार्थानन्तरञ्ज
नः ।
जयत्यनल्पसंकल्पकल्पनाकल्पपादपः
53
Keep
अज्ञानात्प्रसृता
यस्माज्जगत्पर्णपरम्प
राः ।
यस्मिंस्तिष्ठन्ति राजन्ते विशन्ति विलसन्ति च
54
Keep
विचित्ररचनोपेता
भूरिभोगिविहङ्ग
माः ।
यत्र जन्मानि पर्णानि कर्मजालं च कोरकम्
55
Keep
फलानि पुण्यपापानि मञ्जर्यो
विभवश्रि
यः ।
अज्ञानेन्दूदये नैता योषिदोषधयः स्फुटम्
56
Keep
संसारवनखण्डेऽस्मिन्परां
शोभामुपाग
ताः ।
जन्मजालकलापूर्णस्तमःकालकृतोदयः
57
Keep
शून्योदितात्मा दोषेशो
जयत्यज्ञानचन्द्र
माः ।
अज्ञानेन्दोः प्रसादेन वासनामृतशालिना
58
Keep
तर्पिताशाचकोरेण
चित्तरत्नरसैषि
णा ।
राजहंसविलासिन्यः प्रालेयशिशिराङ्गिकाः
59
Keep
भान्ति कान्ताकुमुद्वत्यो
लोललोचनषट्प
दाः ।
धम्मिल्लतिमिरोल्लासा लसत्पाण्डुपयोधराः
60
Keep
रामारजन्यो राजन्ते तन्मौर्ख्येण विजृम्भितम्
61
Keep
आपातमात्रमधुरत्वमनर्थसत्त्व-
माद्यन्तवत्त्वमखिलस्थितिभङ्गुरत्व
म् ।
अज्ञानशाखिन इति प्रसृतानि राम
नानाकृतीनि विपुलानि फलानि तानि
Previous
←
Sarga 5
Next
Sarga 7
→