Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 73
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
इति राजमुखाच्छ्रुत्वा वेतालः शान्तिमाययौ ।
भावितात्मतया तत्र विचारोचितया धिया
2
Keep
उपशान्तमना भूत्वा मत्वैकान्तमनिन्दितम् ।
बभूवाविचलध्यानी विस्मृत्य विषमां क्षुधाम्
3
Keep
एतद्राम मयोक्तं ते वेतालप्रश्नजालकम् ।
एवंक्रमेण चिदणौ तेनेदं संस्थितं जगत्
4
Keep
चिदणोः कोशगं विश्वं विचारेण विलीयते ।
कायो वेतालकस्येव शिष्यते यत्पदं तु तत्
5
Keep
संहृत्य सर्वतश्चित्तं स्तिमितेनान्तरात्मना ।
स्वभावापतितं कुर्वन्निरिच्छं तिष्ठ शान्तधीः
6
Keep
आकाशविशदं कृत्वा मनसैव मनो मुने ।
तिष्ठैकशमशान्तात्मा सर्वत्र समदर्शनः
7
Keep
स्थिरबुद्धिरसंमूढो यथाप्राप्तानुवर्तिनः ।
राज्ञो भगीरथस्येव दुःसाध्यमपि सिद्ध्यति
8
Keep
संपूर्णशान्तमनसः परितृप्तवृत्ते-
र्नित्यं समे सुखमयात्मनि तिष्ठतोऽन्तः ।
सिद्ध्यन्ति दुर्लभतरा अपि वाञ्छितार्था
गङ्गावतार इव सागरखातवस्तु
Previous
←
Sarga 72
Next
Sarga 74
→