Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 75
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अथ तस्य गुरोर्वक्त्रादित्याकर्ण्य भगीरथः ।
मनस्याहितकर्तव्यः स्वव्यापारपरोऽभवत्
2
Keep
ततः कतिपयेष्वेव वासरेषु गतेषु सः ।
अग्निष्टोममखं चक्रे सर्वत्यागेकसिद्धये
3
Keep
गोभूम्यश्वहिरण्यादि ददौ धनमशेषतः ।
द्विजेभ्यो निजबन्धुभ्यो गुण्यगुण्यविचारयन्
4
Keep
दिवसत्रयमात्रेण सर्वमेव परित्यजन् ।
असुमात्रावशेषोऽसावासीद्राजा भगीरथः
5
Keep
अथ सर्वार्थरिक्तं तत्खिन्नप्रकृतिपौरकम् ।
सीमान्तिने तृणमिव राज्यं स्वमरये ददौ
6
Keep
आक्रान्ते द्विषता राज्ये मुनिः सद्मनि मण्डले ।
अधोवासोवशेषोऽसौ निर्जगाम स्वमण्डलात्
7
Keep
यत्र न ज्ञायते नाम्ना यत्र न ज्ञायते मुखात् ।
तत्र ग्रामेष्वरण्येषु दूरेषूवास धैर्यवान्
8
Keep
इत्यल्पेनैव कालेन प्रशान्तसकलैषणः ।
परमेण शमेनासावाप विश्रान्तिमात्मनि
9
Keep
भ्रमन्द्वीपानि भूपीठे कदाचित्कालयोगतः ।
अवशः शत्रुणाक्रान्तं स्वमेव प्राप तत्पुरम्
10
Keep
नानागारांश्च तत्रासौ प्रवाहपतितांश्च तान् ।
पौरांश्च मन्त्रिणश्चैव शमी भिक्षामयाचत
11
Keep
विविदुस्ते नृपं पौरा मन्त्रिणश्च भगीरथम् ।
पूजयामासुरथ तं सविषादाः सपर्यया
12
Keep
प्रभो राज्यं गृहाणेति प्रार्थितोऽप्यरिणा मुनिः ।
नादत्तेऽनादृताशेषस्तृणमप्यशनादृते
13
Keep
कतिचिद्दिवसांस्तत्र नीत्वाऽन्यत्र जगाम सः ।
भगीरथोऽयं हा कष्टमिति लोकेन शोचितः
14
Keep
अथान्यत्रोपशान्तात्मा परिविश्रान्तधीः सुखी ।
आत्मारामं कदाचित्तु स प्राप त्रितलं गुरुम्
15
Keep
स्वमेव स्वागतं कृत्वा तेन सार्धं भगीरथः ।
कंचित्कालमुवासाद्रौ वने ग्रामे पुरे जने
16
Keep
समतामुपयातौ तौ गुरुशिष्यौ समौ स्थितौ ।
कलयामासतुः स्वस्थौ विनोदं देहधारणम्
17
Keep
किमयं धार्यते देहः किं वानेनोज्झितेन नः ।
यथाक्रमं यथाचारं तिष्ठत्वेष यथास्थितम्
18
Keep
इति निश्चित्य तिष्ठन्तौ तौ वनाद्वनगामिनौ ।
अनानन्दं परानन्दं नासुखं न च मध्यमम्
19
Keep
धनानि वाजिविभवाद्यैश्वर्यं चाष्टधोदितम् ।
सिद्धैरप्यर्पितं तुष्टैर्मेनाते जर्जरं तृणम्
20
Keep
स्वकर्मणैव देहोऽयं यावत्सत्त्वमनिच्छया ।
धारणीय इति स्वेन कर्मणैवाथ तस्थतुः
21
Keep
अभिननन्दतुरागतमुत्तमौ
निजसमाचरणक्रमजं मुनी ।
सुखमसौख्यमभीप्सितवर्जितौ
समसमेऽतिसमौ शमिनौ स्वतः
Previous
←
Sarga 74
Next
Sarga 76
→