Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 89
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
चूडालोवाच ।
अथेममपरं रम्यं वृत्तान्तं शृणु भूमिप ।
परं प्रबोधनं बुद्धेः साधो सदृशमात्मनः
2
Keep
अस्ति विन्ध्यवने हस्ती महायूथपयूथपः ।
आगस्त्या शुद्धया बुद्ध्या विन्ध्येनेवोदितः स्वतः
3
Keep
वज्रार्चिर्विषमौ दीर्घौ तस्यास्तां दशनौ सितौ ।
कल्पानलशिखातुल्यौ सुमेरून्मूलनक्षमौ
4
Keep
स बद्धो लोहजालेन हस्तिपेन किलाभितः ।
मुनीन्द्रेणेव विन्ध्याद्रिरुपेन्द्रेणेव वा बलिः
5
Keep
निबद्धो यन्त्रणामाप शस्त्रकुम्भर्दितो गजः ।
तां जगाम व्यथां धीरो नवाग्नौ पुरमेति याम्
6
Keep
रिपौ हस्तिपके दूरादपश्यति स वारणः ।
अयःसमुद्गके यस्मिन्निनाय दिवसत्रयम्
7
Keep
खेदान्निगडनिर्भेदे यत्नवान्स मतंगजः ।
चकार किकिणीक्वाणं मुखोद्धातैरथान्यदा
8
Keep
दन्ताभ्यां यत्नतस्ताभ्यां मुहूर्तद्वितयेन सः ।
बभञ्ज शृङ्खलाजालं स्वर्गार्गलमिवासुरः
9
Keep
तं तस्य निगडच्छेदमपश्यद्दूरतो रिपुः ।
बलेः स्वर्गावदलनं हरिर्मेरुतलादिव
10
Keep
तस्य विच्छिन्नपाशस्य मूर्ध्नि तालतरो रिपुः ।
पपात क्रमतः स्वर्गं हरिर्मेरोर्बलेरिव
11
Keep
स पतन्पादपद्माभ्यामप्राप्य करिणः शिरः ।
पपातोर्व्यां फलं पक्वं वाताहतमिवाकुलः
12
Keep
तं पुरः पतितं दृष्ट्वा महेभः करुणां ययौ ।
स्फुरत्स्फारगुणाः सन्तः सन्ति तिर्यग्गतावपि
13
Keep
पतितं दलयामीति किं नाम मम पौरुषम् ।
वारणोऽपीति कलयन्न जघान स तं रिपुम्
14
Keep
केवलं निगडव्यूहं विदार्याभिजगाम ह ।
विततं सेतुमुत्सार्य विपुलौघ इवाम्भसः
15
Keep
दयामाश्रित्य मातङ्गो भङ्क्त्वा जालं जगाम ह ।
विदार्य मेघसंघातं नभसीव दिवाकरः
16
Keep
गते गजे समुत्तस्थौ हस्तिपः स्वस्थदेहधीः ।
गजेनैव समं तस्य व्यथा दूरतरं गता
17
Keep
प्रोच्चलत्तालशिखरात्स तथा पतितोऽपि सन् ।
न भेदमाप दुर्भेदा मन्ये देहा दुरात्मनाम्
18
Keep
वर्धते प्रावृषीवाभ्रं कुकार्येष्वसतां बलम् ।
आसीदधिकमुत्साही स च चंक्रमणे तदा
19
Keep
वारणारिरसिद्धाङ्गो गतेभो दुःखमाययौ ।
आगत्योपगतेऽन्तर्धिं निधान इव वर्धनः
20
Keep
सोऽन्वियेष गजं यत्नाद्गुल्मकान्तरितं वने ।
पयोदपिण्डितं भोक्तुं राहुरिन्दुमिवाम्बरे
21
Keep
चिरेणालभतेभेन्द्रं कस्मिंश्चित्कानने स्थितम् ।
विश्रान्तं तं तरुतले समरादिव निर्गतम्
22
Keep
अथ यत्र स्थितो नागस्तत्र तद्बन्धनक्षमम् ।
परया राजसामग्र्या गजलम्पटभूमया
23
Keep
स खातवलयं चक्रे हस्तिपः काननेऽभितः ।
सर्वदिक्कं विधिर्भूमौ समुद्रवलयं यथा
24
Keep
उपर्यस्थगयद्वाललतौघेन स तं शठः ।
शून्यतातन्तुजालेन शरत्काल इवाम्बरम्
25
Keep
दिनैः कतिपयैरेव वारणो विहरन्वने ।
तस्मिन्निपतितः खाते शुष्काब्धाविव पर्वतः
26
Keep
व्रजन्पर्याकृतौ कूपे पातालतलभीषणे ।
खातशुष्काब्ध्यधोभागे गजरत्नसमुद्गके
27
Keep
इति भूयो दृढं बद्धस्तेन हस्तिपकेन सः ।
तिष्ठत्यद्यापि दुःखेन भूसद्मनि यथा बलिः
28
Keep
अहनिष्यत्पुरैवासौ यद्यग्रे पतितं रिपुम् ।
तन्नालप्स्यत्ततो दुःख गजः खातनिबन्धनम्
29
Keep
मौर्ख्यादागामिन कालं वर्तमानक्रियाक्रमैः ।
अशोधयन्नरो दुःखं याति विन्ध्यगजो यथा
30
Keep
मुक्तोऽस्मि शस्त्रनिगडादिति तुष्टो हि वारणः ।
दूरस्थोऽपि पुनर्बद्धो मौर्ख्यं क्व च न बाधते
31
Keep
मौर्ख्यं हि बन्धनमवेहि परं महात्म-
न्बद्धो न बद्ध इति चेतसि तद्विमुक्त्यै ।
आत्मोदयं त्रिजगदात्ममयं समस्तं
मौर्ख्ये स्थितस्य सहसा ननु सर्वभूमिः
Previous
←
Sarga 88
Next
Sarga 90
→