Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 8
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
संसारवनखण्डेऽस्मिंश्चित्पर्वततटे
स्थि
ता ।
कीदृशी सृष्ट्यविद्याख्या लता विकसिता कदा
2
Keep
बृहत्पर्वतपर्वाढ्या
ब्रह्माण्डत्वक्समावृ
ता ।
देहयष्टिरियं यस्यास्त्रिलोकी लोककासिनी
3
Keep
सुखं दुःखं भवो भावो ज्ञानमज्ञानमेव
च ।
अत्रैतान्युरुवृत्तानि मूलानि च फलानि च
4
Keep
सुखादविद्योदेत्युच्चैस्तदेवान्ते
प्रयच्छ
ति ।
दुःखादविद्योदेत्युच्चैस्तदेवैषा फलत्यलम्
5
Keep
भवादविद्योदेत्येषा तमेव फलति
स्फुट
म् ।
भावात्सत्तामवाप्नोति तमेव फलति क्षणम्
6
Keep
अज्ञानाद्वृद्धिमायाति तदेव स्यात्फलं
स्फुट
म् ।
ज्ञानेनायाति संवित्तिस्तामेवान्ते प्रयच्छति
7
Keep
नानाविधोल्लासवती वासना
मोदशालि
नी ।
घनप्रवालतरला तनुरस्या विजृम्भते
8
Keep
दिवसव्यूहकुसुमा
यामिनीलोलषट्प
दा । ।
अजस्रं स्पन्दमानैषा प्रपतद्भूतपल्लवा
9
Keep
आगत्यागत्य पतति विवेककरिणीं
क्वचि
त् ।
विधूयते धूतरजाः प्रसक्तिं पुनरेति च
10
Keep
जायमानप्रवालाढ्या
संजाताङ्कुरदन्तु
रा ।
सर्वर्तुकुसुमोपेता समग्ररसशालिनी
11
Keep
जन्मपर्वाहिनीरन्ध्रा
विनाशच्छिद्रचञ्चु
रा ।
भोगाभोगरसापूर्णा विचारैकघुणक्षता
12
Keep
विकसन्त्यः प्रतिदिनं
चन्द्रार्कावलयोऽभि
तः ।
व्योम्नि वातविलोलानि पुष्पाण्यस्याः किल ग्रहाः
13
Keep
अस्याः प्रस्फुरिताकाराः
कोरकत्वमुपाग
ताः ।
पूरिताकाशकोशायास्तारका रघुनन्दन
14
Keep
चन्द्रार्कदहनालोका यस्यास्तत्कौसुमं
र
जः ।
अनेनेयं हि गौराङ्गी स्त्रीव चेतांसि कर्षति
15
Keep
मनोमातङ्गविधुता
संकल्पकलकोकि
ला ।
इन्द्रियव्यालसंबाधा तृष्णात्वगुपरञ्जिता
16
Keep
नीलाकाशतमालाङ्गसंश्रयेणोन्नतिं
ग
ता ।
रोदसीजानुसुस्तम्भा भुवनोद्यानभूषिता
17
Keep
अधोब्रह्माण्डखण्डेषु स्वालवालेन
जालि
ता ।
विधृताशेषजलधिजलक्षीरादिसेचना
18
Keep
त्रयीविलोलभ्रमरा
रमणीपुष्पपुञ्जि
का ।
चित्स्पन्दवातचलिता क्रियाविपुलपुत्तिका
19
Keep
कुकर्माजगरव्याप्ता
स्वर्गश्रीपुष्पमण्ड
पा ।
जीवजीवननीरन्ध्रा नानामोदमदप्रदा
20
Keep
नानोपशमवैचित्र्यनानाकुसुमभासि
नी ।
नानाफलावलीव्याप्ता नानावर्षविकासिनी
21
Keep
नानालवालवलया
नानाविहगधारि
णी ।
नानापरागपरुषा नानाभूधरजालिका
22
Keep
नानाकलाकुड्मलिनी
नानावनगणोत्थि
ता ।
नानागिरितटारूढा नानादलनिरन्तरा
23
Keep
जाता च जायमाना च म्रियमाणा तथा
मृ
ता ।
अर्धच्छिन्ना तथाऽच्छिन्ना नित्यमच्छेदिनी तथा
24
Keep
अतीता वर्तमाना च
सत्येवासत्यवत्स
दा ।
नित्यमत्यन्ततरुणी नित्यं शोषमुपेयुषी
25
Keep
महाविषलतैषा हि
संसारविषमूर्च्छना
म् ।
ददाति रभसाश्लिष्टा परामृष्टा विनश्यति
26
Keep
स्फीतेऽन्तर्गलिता तस्य अज्ञेऽन्तः
संस्थितान्वि
ता ।
इतो जलमितः शैला इतो नागाः सुरा इतः
27
Keep
इतः पृथ्वीत्वमायाता तथेतो द्युतया
स्थि
ता ।
इतश्चन्द्रार्कतां प्राप्ता तथेतस्तारकाकृतिः
28
Keep
इतस्तम इतस्तेज इतः खमित
उर्व
रा ।
इतः शास्त्रमितो वेदा इतो द्वयविवर्जिता
29
Keep
क्वचित्खगतयोड्डीना
क्वचिद्देवतयोत्थि
ता ।
क्वचित्स्थाणुतया रूढा क्वचित्पवनतां गता
30
Keep
क्वचिन्नरकसंलीना
क्वचित्स्वर्गविलासि
नी ।
क्वचित्सुरपदं प्राप्ता क्वचित्कृमितया स्थिता
31
Keep
क्वचिद्विष्णुः क्वचिद्ब्रह्मा क्वचिद्रुद्रः
क्वचिद्र
विः ।
क्वचिदग्निः क्वचिद्वायुः क्वचिच्चन्द्रः क्वचिद्यमः
32
Keep
यत्किंचनाङ्ग भुवनेषु महामहिम्ना-
व्याप्तं जरत्तृणलवत्वमुपागतं
वा ।
दृश्यं स्फुरन्ननु हराद्यपि तामविद्यां
विद्धि क्षयाय तदतीततयात्मलाभः
Previous
←
Sarga 7
Next
Sarga 9
→