Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 91
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
चूडालोवाच ।
इदानीं राजशार्दूल वस्तुसंप्रतिपत्तये ।
शृणु विन्ध्येभवृत्तान्तविवृतिं स्मयकारिणीम्
2
Keep
योऽसौ विन्ध्यवने हस्ती सोऽस्मिन्भूमितले भवान् ।
यौ वैराग्यविवेकौ तौ द्वौ तस्य दशनौ सितौ
3
Keep
यश्चासौ वारणाक्रान्तितत्परो हस्तिपः स्थितः ।
तदज्ञानं तवाक्रान्तितत्परं तव दुःखदम्
4
Keep
अतिशक्तोऽप्यशक्तेन दुःखाद्दुःखं भयाद्भयम् ।
हस्ती हस्तिपकेनेव राजन्मौर्ख्येण नीयसे
5
Keep
यल्लोहवज्रसारेण वारणः परियन्त्रितः ।
तदाशापाशजालेन भवानापदमावृतः
6
Keep
आशा हि लोहरज्जुभ्यो विषमा विपुला दृढा ।
कालेन क्षीयते लोहं तृष्णा तु परिवर्धते
7
Keep
यद्द्वन्द्वं प्रेक्षते वैरी गजमारादलक्षितः ।
प्रेक्षते त्वां तदज्ञानं क्रीडार्थं बद्धमेककम्
8
Keep
यद्बभञ्ज गजः शत्रोः शृङ्खलाजालबन्धनम् ।
तत्तत्याज भवान्भोगभूमिं राज्यमकण्टकम्
9
Keep
कदाचित्सुकरं शस्त्रशृङ्खलाबन्धभेदनम् ।
न त्वस्य मनसः साधो भोगाशाविनिवारणम्
10
Keep
यदिभे पाटयत्युच्चैर्बन्धं हस्तिपकोऽपतत् ।
त्वयि त्यजति तद्राज्यमज्ञानं पतितं कृतम्
11
Keep
यदा विरक्तः पुरुषो भोगाशां त्यक्तुमिच्छति ।
तदा प्रकम्पतेऽज्ञानं छेद्ये वृक्षे पिशाचवत्
12
Keep
यदा विवेकी पुरुषो भोगान्संत्यज्य तिष्ठति ।
तदा पलायतेऽज्ञानं छिन्ने वृक्षे पिशाचवत्
13
Keep
भोगौघे नूनमुन्मुक्ते पतत्यज्ञानसंस्थितिः ।
पादपे क्रकचच्छिन्ने कुलायस्तद्गतो यथा
14
Keep
यदा वनं प्रयातस्त्वं तदाऽज्ञानं क्षतं त्वया ।
पतितं सन्न निहतं मनस्त्यागमहासिना
15
Keep
तेन भूयः समुत्थाय स्मृत्वा परिभवं कृतम् ।
तपःप्रपञ्चखातेऽस्मिन्गहने त्वं नियोजितः
16
Keep
तदैवाघातयिष्यस्त्वं यद्यज्ञानं तथागतम् ।
राज्यत्यागविधौ तत्त्वां नाहनिष्यत्क्षयं गतम्
17
Keep
यत्खातवलयस्तेन वैरिणा हस्तिनः कृतः ।
तत्तपोदुःखमखिलमज्ञानेन तवार्पितम्
18
Keep
या तस्य राजराजश्रीर्गजारेर्नृपसत्तम ।
सा त्ववज्ञाननृपतेश्चिन्ताभ्यन्तरचारिणी
19
Keep
त्वं गजेन्द्रस्त्वयं साधो दीर्घे वनेऽगजोऽपि सन् ।
अज्ञानवैरिणा तेन निक्षिप्तस्तरसामितः
20
Keep
यत्खातवलयो बाललताभिरवगुण्ठितः ।
आवृतं तत्तपोदुःखमीषत्सज्जनवृत्तिमिः
21
Keep
इत्यद्यापि तपःखाते दुःखे ह्यस्मिन्सुदारुणे ।
स्थितोऽसि पातालतले नृप बद्धो यथा बलिः
22
Keep
गजस्त्वमाशा निगडानि वैरी
मोहो निखातः पुनरुग्रबन्धः ।
महीतलं विन्ध्य उदन्त इत्थं
त्वदीय उक्तः कुरु यत्करोषि
Previous
←
Sarga 90
Next
Sarga 92
→