Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 97
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
हेम्न्यस्ति देशकालान्ते इत्थं जन्यजनिक्रमः ।
न किंचिज्जायते शान्तान्न किंचित्प्रविलीयते
2
Keep
स्वसत्तायां स्थितं ब्रह्म न बीजं न च कारणम् ।
शुद्धानुभवमात्रं तत्तस्मादन्यन्न विद्यते
3
Keep
किंचिज्जगदहंतादि तदेवानन्तमस्ति हि ।
शिवे जगदहंतादि मुने नास्तीति वेद्म्यहम्
4
Keep
सर्गवेदनमाभाति कथमेतद्वदाशु मे ।
विस्तारं तदनाद्यन्तं तत्संविदिव तिष्ठति
5
Keep
तत्तद्भुवनमत्यच्छं तत्तन्मात्रं जगद्वपुः ।
न विज्ञानमयोऽर्थोऽस्ति न बाह्यो नापि शून्यता
6
Keep
वेदनामात्रसारत्वाद्यथा चित्सार उच्यते ।
द्रवत्वं सलिलस्येव चिदचित्त्वमकारणम्
7
Keep
स्वात्मनीशमनन्तं तद्यथास्थितमवस्थितम् ।
प्रतियोगिव्यवच्छेदाभावतः सत्त्वभावयोः
8
Keep
असत्त्वात्तेन परमे स्वच्छभावव्यवस्थता ।
यदि कारणतापत्तियोग्यं शान्तं पदं भवेत्
9
Keep
अनिङ्गितमनाभासमप्रतर्क्यं कथं भवेत् ।
अतो न कारणं नैव बीजं ब्रह्म कदाचन
10
Keep
कार्यस्य कस्यचिन्नाम तेन सर्गो न विद्यते ।
न चान्यथोपपत्तिर्हि सर्गस्यास्योपपद्यते
11
Keep
चिन्मात्रकादृते तस्माज्जडसर्गो न विद्यते ।
यदिदं दृश्यते किंचित्तच्चिद्धनमिवोत्थितम्
12
Keep
अहंभावजगच्छब्दशब्दार्थरसरञ्जनम् ।
कार्यं न कारणाभावात्पदार्थे तूपपद्यते
13
Keep
द्वित्वैक्याद्यात्मकं व्योमपुष्पवत्स्वानुभूतितः ।
वस्तु नाशैकनिष्ठत्वान्न वा ज्ञमुपपद्यते
14
Keep
उपलम्भकरो नाशो जन्मनस्तस्य वा कुतः ।
अथ चैनं सदा सन्तं नित्यं नष्टं च वेत्सि वा
15
Keep
पदार्थौघं तदेवेत्थमेकरूपेऽपि किं व्यथा ।
उपलम्भस्तु यश्चायमेषा चित्तचमत्कृतिः
16
Keep
चित्तत्त्वमात्रसत्तास्ति द्वित्वमैक्यं च नास्त्यलम् ।
अतः पदार्थसत्ताया अभावे सति भूपते
17
Keep
असंभवाद्भावनस्य नाहंताभावनास्ति ते ।
अहंभावासंभवतश्चित्तमन्यत्किमुच्यते
18
Keep
इति चित्तमहंरूपं नास्त्यतो न च भिन्नता ।
निर्वासनः शान्तमना मौनी परनभोमयः
19
Keep
सदेहो वा विदेहो वा भावस्थोऽप्यचलोपमः ।
संबन्धाच्छुद्धचिद्दृष्टेः पदार्थाभावसिद्धितः
20
Keep
भावनाभावतश्चित्ते नास्त्येवाहमिति स्वयम् ।
एवं ब्रह्मेति वेदार्थभावनादनुभूतितः ।
चेतितार्थैकसत्यत्वाच्चिन्ता नाम क्व विद्यते ।
21
Keep
तेनासि निर्मलमकारणमादिमुक्तं
तद्ब्रह्म शाश्वतमशेषमनेकमेकम् ।
शून्यं निरामयमसत्सदनादिमध्यं
सर्वं जगच्चिदपि ब्रह्म यथास्थितं तत्
Previous
←
Sarga 96
Next
Sarga 98
→