Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 99
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्महामुने ।
स्थितोऽस्मि गतसंदेहो विश्रान्तमतिरात्मवान्
2
Keep
ज्ञातज्ञेयो महामौनी तीर्णमायामहार्णवः ।
शान्तोऽहमनहंरूपो ज्ञः स्थितोऽस्मि निरामयः
3
Keep
अहो नु सुचिरं कालं प्रभ्रान्तोऽहं भवाम्बुधौ ।
स्थानमक्षयमक्षुब्धमधुना प्राप्तवानहम्
5
Keep
एवं स्थिते मुने नास्ति साहंतादिजगत्त्रयम् ।
मूर्खबुद्धमिदं भाति यत्तद्ब्रह्मेति वेद्म्यहम् । ।
जगदेव न यत्रास्ते तत्राहंत्वंविभासनम् ।
इत्थमम्बरसंसारः क्व कुतः कीदृशः कथम्
6
Keep
यथास्थितव्यवहृतिर्मौनी शान्तमना मुनिः ।
सौम्यार्णवोदरावर्तपरिस्पन्दवदास्व भो
7
Keep
ब्रह्मरूपमिदं शान्तमित्थमस्ति यथास्थितम् ।
अहं जगदिदं चेति शब्दार्थात्म नभोमयम्
8
Keep
इदमाद्यन्तरहितं सर्वं संसारनामकम् ।
चिच्चमत्कृतिनामात्म नभः कचकचायते
9
Keep
संनिवेशदृशः शान्तौ तदस्ति कनकं यथा ।
जगदाद्यर्थसंशान्तौ ब्रह्मेदं विद्यते तथा
10
Keep
यथा स्वयंभूः संकल्पः स्वयं नाम तथैव हि ।
एतौ स्ववेदनायत्तौ बन्धमोक्षौ व्यवस्थितौ
11
Keep
अहमित्येव संकल्पो बन्धायातिविनाशिने ।
नाहमित्येव संकल्पो मोक्षाय विमलात्मने
12
Keep
यद्बन्धमोक्षसंकल्पशब्दार्थानां सदा सताम् ।
स्वरूपवेदनं तत्सत्केवलत्वं च कथ्यते
13
Keep
अनहंवेदनं सिद्धिरहंवेदनमापदः ।
सोऽहमेवानहमिति शुद्धबोधो भवात्मवान्
14
Keep
असंकल्पनमात्रेण सम्यग्ज्ञानोदयात्मना ।
संकल्पः क्षीयते सिद्ध्यै स्वयमेवासदात्मकः
15
Keep
अप्रतर्क्ये स्वरूपे हि नास्ति कारणता शिवे ।
कारणाभावतः कार्यपदार्थोऽपि न विद्यते
16
Keep
पदार्थाभावसंसिद्धौ वेदनं नोपपद्यते ।
कारणाभावतो नित्यमहंभावस्य नोदयः
17
Keep
अहंभावानुदयतः संसारः कस्य कीदृशः ।
संसाराभावतः सर्वं परमेवावशिष्यते
18
Keep
यदिदं भासते तत्सत्परमेवात्मनि स्थितम् ।
परं परे परापूर्णं सममेव विजृम्भते
19
Keep
तेन निस्तिमितं सर्वं शिलाकीर्णमिवाचलम् ।
विद्धि रश्मिमयाकारमिव ब्रह्म जगत्स्थितम्
20
Keep
पुरः संकल्पके नष्टे संकल्पनगरस्य यत् ।
रूपं तद्विद्धि जगतः खादच्छं सदसन्मयम्
21
Keep
छायापुरुषवत्स्पन्दि शान्तं निर्मननं जगत् ।
जगच्छब्दार्थरहितं यः पश्यति स पश्यति
22
Keep
रूपालोकमनस्कारा नीरसागमभावना ।
सम्यग्ज्ञानावबोधस्य निर्वाणं वै विदुर्बुधाः
23
Keep
यथास्ति वातो निःस्पन्दो यथास्ति खगतोपि वा ।
यथा हेमासंनिवेशमस्ति ब्रह्म जगत्तथा
24
Keep
नीरसा असदाभासा जगत्प्रत्ययकारिणः ।
रूपालोकमनस्काराः सन्तीमे ब्रह्मरूपिणः
25
Keep
ऊर्मिशब्दार्थरहितं यादृगम्बु बहून्यपि ।
सर्गशब्दार्थरहितं तादृग्ब्रह्म निसर्गवत्
26
Keep
सर्ग एव परं ब्रह्म परं ब्रह्मैव सर्गदृक् ।
सर्गशब्दार्थरहितो वाक्यार्थस्त्वेष शाश्वतः
27
Keep
ब्रह्मशब्दार्थसंपत्तौ सर्गशब्दार्थधीः कृता ।
सर्गशब्दार्थसंसिद्धौ ब्रह्मशब्दार्थधीः कृता
28
Keep
समस्तशब्दशब्दार्थभावनाभावनोदयम् ।
शुद्धं तिष्ठति चिद्व्योम ब्रह्मशब्देन कथ्यते
29
Keep
सम्यग्दर्शनसंसिद्धावुभयोरप्यवेदने ।
यच्छिष्टमजरं शान्तं ततो वाग्विनिवर्तते
30
Keep
संशान्तसर्वात्मकवेदनौघ-
मस्तीदमेकात्मकस्वस्वरूपम् ।
यथास्थितं सर्वजगत्स्वरूपं
पाषाणरूपं च परं ज्ञरूपम्
Previous
←
Sarga 98
Next
Sarga 100
→