Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 9
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
आकारजातमुदितं शुद्धं
हरिहराद्य
पि ।
अविद्यैवेत्यहं श्रुत्वा ब्रह्मन्भ्रममिवागतः
2
Keep
संवेद्येनापरामृष्टं शान्तं सर्वात्मकं च
य
त् ।
तत्सच्चिदाभासमयमस्तीह कलनोज्झितम्
3
Keep
समुदेति स्वतस्तस्मात्कला
कलनरूपि
णी ।
जलादावर्तलेखेव स्फुरज्जलतयोदिता
4
Keep
सूक्ष्मा मध्या तथा स्थूला चेति सा कल्प्यते
त्रि
धा ।
पश्चान्मनस्तया तेन ज्ञातैव वपुषा पुनः
5
Keep
तिष्ठत्येतास्ववस्थासु भेदतः कल्प्यते
त्रि
धा ।
सत्त्वं रजस्तम इति एषैव प्रकृतिः स्मृता
6
Keep
अविद्यां प्रकृतिं विद्धि
गुणत्रितयधर्मिणी
म् ।
एषैव संसृतिर्जन्तोरस्याः पारं परं पदम्
7
Keep
अत्र ते ये त्रयः प्रोक्ता गुणास्तेऽपि त्रिधा
स्मृ
ताः ।
सत्त्वं रजस्तम इति प्रत्येकं भिद्यते गुणः
8
Keep
नवधैवं विभक्तेयमविद्या
गुणभेद
तः ।
यावत्किंचिदिदं दृश्यमनयैव तदाश्रितम्
9
Keep
ऋषयो मुनयः सिद्धा नागा विद्याधराः
सु
राः ।
इति भागमविद्यायाः सात्त्विकं विद्धि राघव
10
Keep
सात्त्विकस्यास्य भागस्य
नागविद्याधरास्त
मः ।
रजस्तु मुनयः सिद्धाः सत्त्वं देवा हरादयः
11
Keep
सत्त्वजातौ देवयोनावविद्या
प्राकृतैर्गु
णैः ।
निर्मलं पदमायाताः सत्त्वं हरिहरादयः
12
Keep
सात्त्विकः प्राकृतो भागो राम तज्ज्ञो हि यो
भवे
त् ।
न समुत्पद्यते भूयस्तेनासौ मुक्त
उच्य
ते ।
13
Keep
तेन रुद्रादयो ह्येते सत्त्वभागा
महाम
ते ।
तिष्ठन्ति मुक्ताः पुरुषा यावद्देहं जगत्स्थितौ
14
Keep
यावद्देहं महात्मानो जीवन्मुक्ता
व्यवस्थि
ताः ।
विदेहमुक्ता देहान्ते स्थास्यन्ति परमेश्वरे
15
Keep
भाग एष त्वविद्याया एवं
विद्यात्वमाग
तः ।
बीजं फलत्वमायाति फलमायाति बीजताम्
16
Keep
उदेत्यविद्या विद्यायाः सलिलादिव
बुद्बु
दः ।
विद्यायां लीयतेऽविद्या पयसीव हि बुद्बुदः
17
Keep
पयस्तरङ्गयोर्द्वित्वभावनादेव
भिन्न
ता ।
विद्याविद्यादृशोर्भेदभावनादेव भिन्नता
18
Keep
पयस्तरङ्गयोरैक्यं यथैव
परमार्थ
तः ।
नाविद्यात्वं न विद्यात्वमिह किंचन विद्यते
19
Keep
विद्याविद्यादृशौ त्यक्त्वा यदस्तीह तदस्ति
हि ।
प्रतियोगिव्यवच्छेदवशादेतद्रघूद्वह
20
Keep
विद्याविद्यादृशौ न स्तः शेषे बद्धपदो
भ
व ।
नाविद्यास्ति न विद्यास्ति कृतं कल्पनयानया
21
Keep
किंचिदस्ति नकिंचिद्यच्चित्संविदिति
तत्स्थित
म् ।
तदेवाविदिताभासं सदविद्येत्युदाहृतम्
22
Keep
विदितं
सत्तदेवेदमविद्याक्षयसंज्ञित
म् ।
विद्याभावादविद्याख्यामिथ्यैवोदेति कल्पना
23
Keep
मिथः स्वान्ते
तयोरन्तश्छायातपनयोरि
व ।
अविद्यायां विलीनायां क्षीणे द्वे एव कल्पने
24
Keep
एते राघव लीयेते अवाप्यं
परिशिष्य
ते ।
अविद्यासंक्षयात्क्षीणो विद्यापक्षोऽपि राघव
25
Keep
यच्छिष्टं तन्न किंचिद्वा
किंचिद्वापीदमातत
म् ।
तत्रैवं दृश्यते सर्वं न किंचन च दृश्यते
26
Keep
वटश्च वटधानायामिव
पुष्पफलादिमा
न् ।
सर्वशक्तिर्हि किंचित्त्वं सर्वशक्तिसमुद्गकम्
27
Keep
नभसोऽप्यधिकं शून्यं नच शून्यं
चिदात्मक
म् ।
सूर्यकान्ते यथा वह्निर्यथा क्षीरे घृतं तथा
28
Keep
तत्रेदं संस्थितं सर्वं
देशकालक्रमोद
ये ।
यथा स्फुलिङ्गा अनलाद्यथा भासो दिवाकरात्
29
Keep
तस्मात्तथेमा निर्यान्ति स्फुरन्त्याः
संविदश्चि
तः ।
यथाम्भोधिस्तरङ्गाणां यथामलमणिस्त्विषाम्
30
Keep
कोशो नित्यमनन्तानां तथा तत्संविदां
त्विषा
म् ।
सबाह्याभ्यन्तरे सर्वं वस्तुन्यस्त्येव वस्तुसत्
31
Keep
सर्वदैवाविनाशात्म कुम्भानां गगनं
य
था ।
यथा मणेरयःस्पन्दे अयस्कान्तस्य कर्तृता
32
Keep
अकर्तुरेव हि तथा कर्तृता तस्य
कथ्य
ते ।
मणिसंनिधिमात्रेण यथायः स्पन्दते
जड
म ।
तत्सत्तया तथैवायं देहश्चेतत्यचिद्वपुः
33
Keep
तत्र स्थितं जगदिदं जगदेकबीजे
चिन्नाम्नि
संविदितकल्पितकल्पने
न ।
लोलोर्मिजालमिव वारिणि चित्ररूपं
खादप्यरूपवति यत्र न किंचिदस्ति
Previous
←
Sarga 8
Next
Sarga 10
→