Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 100
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
युक्तिः स्यात्कीदृशी ब्रह्मन्संसारे दुःखशान्तये ।
तेषां येषामयं पक्षः श्रूयतामुच्यतां ततः
2
Keep
यावज्जीवं सुखं जीवेन्नास्ति मृत्युरगोचरः ।
भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः
3
Keep
यं यं निश्चयमादत्ते संविदन्तरखण्डितम् ।
तत्तथैवानुभवति प्रत्यक्षमिति सर्वगम्
4
Keep
यथा खं सर्वगं शान्तं तथा चिद्व्योम सर्वगम् ।
तदेवैक्यमथ द्वैतमन्यार्थस्यात्यसंभवात्
5
Keep
सर्गादौ तदृतेऽन्योऽर्थो महाप्रलयरूपिणि ।
अकाणरत्वान्नास्त्येव ब्रह्मैवेदमतस्ततम्
6
Keep
समस्तवेदशास्त्रार्थं ये महाप्रलयादि च ।
नेच्छन्ति ते महामूढा निःशास्त्रा नो मृता इव
7
Keep
सर्वशास्त्राविरुद्धेन सर्वं ब्रह्मेदमित्यलम् ।
स्थितं सानुभवं योक्तृ येषां तैर्न कथाक्रमः
8
Keep
नित्या निरन्तरोदेति यादृशी संविदाशये ।
भूयते तन्मयेनैव पुंसा देहोऽस्तु माथवा
9
Keep
बोधाच्चेत्संविदो जातः स दुःखी पुरुषो भवेत् ।
विरुद्धं वेदनं यावत्तावज्जीवोऽङ्ग तन्मयः
10
Keep
जगच्चिद्व्योमकचनमात्रमेवेति भाविते ।
तत्कथं वेदनं व्योम्ना बोधः कस्य कुतो भवेत्
11
Keep
न कानिचित्प्रधावन्ति एकनिश्चयसंविदाम् ।
पुंसां सुखानि दुःखानि रजांसि नभसामिव
12
Keep
संवित्सत्यास्त्वसत्या वा निश्चयस्तावदीदृशः ।
आबालमेतत्संसिद्धं केनापह्नूयते कथम्
13
Keep
न देहः पुरुषो वापि जीवोऽन्य उपलभ्यते ।
संवित्सर्वमिदं सा तु यथा वेत्ति तथा जगत्
14
Keep
सा सत्याप्यथवासत्या तया देहोऽनुभूयते ।
स्वातन्त्र्येण यथा स्वप्ने पाताले खे जले दिवि
15
Keep
संवित्सत्यास्त्वसत्या वा तावन्मात्रः स्मृतः पुमान् ।
स यथानिश्चयो नूनं तत्सत्यमिति निश्चयः
16
Keep
प्रामाण्यं सर्वशास्त्राणामेतेनैव प्रसिद्ध्यति ।
सर्वसिद्धान्तसिद्धान्त एष एवेति मे मतिः
17
Keep
तस्मादबोधता यास्ते यथा संवित्तथैव सा ।
भवत्यकलुषाकारा तथैव फलभागिनी
18
Keep
देशकालक्रियाद्रव्यवेदशास्त्रैषणाभ्रमैः ।
अबोधता तु या संवित्कदाचित्सा न नश्यति
19
Keep
आविर्भवति सा भूयः क्षीणाशङ्का क्षणेन चेत् ।
तत्केन संविदो दुःखं कदा नामोपशाम्यति
20
Keep
संविदेव नृणां जीवः स यथा दृढभावनः ।
तथा सुखी वा दुःखी वा भवेदित्येष निश्चयः
21
Keep
संविच्चेदस्ति तज्ज्ञानां शरणं भवभेदने ।
नास्ति चेत्तच्छिलामूकमान्ध्यमेवावशिष्यते
22
Keep
यत्तयैव च संवित्त्या वेदनेनैव लभ्यते ।
अयं स्वभावज्ञप्त्यान्तर्जाड्यं पुंसेव निद्रया
23
Keep
दिक्ष्वधस्ताच्च नान्तोऽस्या भावी नापि जगत्क्षयः ।
अस्तीति भावितं येन संत्यक्ताऽभावबुद्धिना
24
Keep
विज्ञानघनमेवेदमिति नूनमपश्यता ।
पश्यता च यथादृष्टं सर्वक्षयमपश्यता
25
Keep
तस्य स्यात्कीदृशी ब्रह्मत्युक्तिराधिविनाशने ।
इति मे संशयं छिन्धि भूयो बोधाभिवृद्धये
26
Keep
अत्रैकं तावदुचितं पूर्वमेव तथोत्तरम् ।
द्वितीयमुत्तरं न्याय्यं वक्ष्यमाणमिदं श्रृणु
27
Keep
ईदृग्भावस्त्वया प्रोक्तो यः पुमान्पुरुषोत्तम ।
स तावच्चेतनामात्रं भवतीत्यनुभूयते
28
Keep
स चाकारविनाशेन युज्यते नात्र संशयः ।
अथाविनाशो देहश्चेत्तदुःखस्यात्र कः क्रमः
29
Keep
भवेद्भागविभागात्मविनाशस्त्वविचारितः ।
अवश्यं तस्य भवति किलेति ननु निश्चयः
30
Keep
मृतः स संविदात्मत्वाद्भूयो नो वेत्ति संसृतिम् ।
ज्ञानधौता न या संविन्न सा तिष्ठत्यसंसृतिः
31
Keep
अथवा नास्ति संवित्तिरिति निश्चयवान्यदि ।
ततस्तादृग्वेदनतो भवत्येव दृषज्जडः
32
Keep
यथावेदनमर्थेषु चित्त्वे देहक्षयात्क्षते ।
मृतिरेव परं श्रेयो दृष्टं नानुभवादिति
33
Keep
असंभवाच्छुद्धविदो निःशरीरा भवन्ति ये ।
जडभावा जडीभूय दुर्भेदान्ध्या भवन्ति ते
34
Keep
ये चापि स्वप्नपुरवत्सर्वं पश्यन्ति चिन्मयाः ।
तेषामिदमिवाशेषं जगज्जालं प्रवर्तते
35
Keep
स्थैर्यास्थैर्येण भूतानां किमपूर्वमतौ भवेत् ।
भूतस्थैर्ये तथास्थैर्ये सुखं चैवासुखं समम्
36
Keep
स्थिरमस्त्वस्थिरं वापि मह्यादिमहतामपि ।
चिद्भामात्रमिदं भाति यावदज्ञानमाततम्
37
Keep
संविदा संविदोऽसत्तामिहाव्याप्य विनष्टया ।
निर्णीयाङ्गीकृतं यैर्वा जाड्यं तद्वालकैरलम्
38
Keep
येषां विद्भ्यः शरीराणि ते वन्द्याः पुरुषोत्तमाः ।
शरीरेभ्यो विदो येषां तैरलं पुरुषाधमैः
39
Keep
चिद्रूपो जीवबीजौघ आकाशकृमिजालवत्
ऊर्ध्वं तिर्यगधो याति पूर्यमाण इव स्वयम्
40
Keep
चेत्यते येन कर्तान्यो बीजौघेन स तत्परः ।
तथैवानुभवत्यन्तः स्वयमेव विवल्गति
41
Keep
यद्यथा चेत्यते येन तज्जीवेनाशु तेन तत् ।
चिद्रूपेणाप्यते सिद्धमेतदाबालमक्षतम्
42
Keep
यथा धूमस्य नभसि यथाम्भोधौ महाम्भसः ।
आवर्तवृत्तयश्चित्रास्तथा चिद्व्योम्नि संसृतेः
43
Keep
पुरी भवति चिद्व्योम यथा स्वप्ने नरं प्रति ।
तथादिसर्गात्प्रभृति तदेवेदं जगत्स्थितम्
44
Keep
सहकारिनिमित्तानि यथा स्वप्ने न सन्ति वै ।
पृथिव्यादीनि भूतानि तथैवादौ जगत्स्थितेः
45
Keep
अङ्गानां स्वप्ननगरे वसुधा विविधाः कृताः ।
यास्ता एव जगत्स्वप्ननगरे पुष्टतां गताः
46
Keep
चिन्मात्राकाशमेवेमाः प्रजा द्वैतैक्यवर्जिताः ।
के वात्र रञ्जनान्या खे यद्वाभाति खमेव तत्
47
Keep
चिच्चन्द्रिका चतुर्दिक्कं शीतलाह्लादकारिणी ।
तनोति चेतनालोकं तस्येदं कचनं जगत्
48
Keep
अद्यैवाद्यन्तयोर्व्योम्नि चिन्मये सर्गदर्शनम् ।
चिदुन्मेषनिमेषाभ्यां खात्मोदेत्यस्तमेति च
49
Keep
यद्यथा वेत्ति यत्तत्सत्तथैवानुभवत्यलम् ।
यस्मात्समस्तं चिन्मात्रं किमिवात्र न विद्यते
50
Keep
शरदाकाशविशदं संविदः सौम्यमानसाः ।
असन्त एव तिष्ठन्ति सन्तोऽधिगततत्पदाः
51
Keep
निर्मानमोहा जितसङ्गदोषाः
प्रवाहसंप्राप्तनिजार्थभाजः ।
तिष्ठन्ति कार्यव्यवहारदृष्टौ
निरामया यन्त्रमया इवैते
Previous
←
Sarga 99
Next
Sarga 101
→