Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 102
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
परिज्ञाते परे वस्तुन्यनादिनिधनात्मनि ।
संपद्यते वद ब्रह्मन्कीदृशः पुरुषोत्तमः
2
Keep
श्रृणु संपद्यते कीदृग्ज्ञातज्ञेयो नरोत्तमः ।
यावज्जीवं कथं चैष किमाचारोऽवतिष्ठते
3
Keep
उपला अपि मित्राणि बन्धवो वनपादपाः ।
वनमध्ये स्थितस्यापि स्वजना मृगपोतकाः
4
Keep
आकीर्णं शून्यमेवास्य विपदश्चातिसंपदः ।
स्थितस्यापि महाराज्ये व्यसनान्येव सूत्सवाः
5
Keep
असमाधिः समाधानं दुःखमेव महत्सुखम् ।
व्यवहारोऽपि सन्मौनं कर्माण्येवात्यकर्मता
6
Keep
जाग्रदेव सुषुप्तस्थो जीवन्नेव मृतोपमः ।
करोति सर्वमाचारं न करोति च किंचन
7
Keep
रसिकोऽत्यन्तविरसो निर्घृणो बन्धुवत्सलः ।
निर्दयोऽत्यन्तकरुणो वितृष्णस्तृष्णयान्वितः
8
Keep
सर्वाभिनन्दिताचारः सर्वाचारबहिष्कृतः ।
वीतशोकभयायासः सशोक इव लक्ष्यते
9
Keep
तस्मान्नोद्विजते लोको लोकान्नोद्विजते तु सः ।
परमुद्वेगमापन्नः संसृतौ रसिकोऽपि सन्
10
Keep
नाभिनन्दति संप्राप्तं नाप्राप्तमभिवाञ्छति ।
आस्तेऽनुभूयमानेऽर्थे न च हर्षविषादयोः
11
Keep
दुःखिते दुःखितकथः सुखिते सुखसंकथः ।
आस्ते सर्वास्ववस्थासु हृदयेनापराजितः
12
Keep
कर्मणः सुकृतादन्यदस्मै किंचिन्न रोचते ।
स्वभाव एव महतां ननु यन्न विचेष्टितम्
13
Keep
नालम्बते रसिकतां न च नीरसतां क्वचित् ।
नार्थेषु विचरत्यर्थी वीतरागः सरागवत्
14
Keep
यथा शास्त्रव्यवहृतेः सुखदुःखैः क्रमागतैः ।
अनागतोऽपि चायाति न हर्षं न विषादिताम्
15
Keep
संप्रहृष्टाश्च लक्ष्यन्ते लक्ष्यन्ते दुःखितास्तथा ।
न स्वभावं त्यजन्त्यन्तः संसारारभटीनटाः
16
Keep
आत्मीयेष्वर्थजातेषु मिथ्यात्मसु सुतादिषु ।
बुद्बुदेष्विव तोयानां न स्नेहस्तत्त्वदर्शिनाम्
17
Keep
अस्नेह एव सुघनस्नेहार्द्रहृदयो यथा ।
वत्सलां दर्शयन्वृत्तिं ज्ञस्तिष्ठति यथाक्रमम्
18
Keep
वायूनिव प्रवाहस्थाः स्पृशन्ति विषयान्मुधा ।
देहसत्ताविषान्मूढा लीयन्ते विषयोदरे
19
Keep
बहिः सर्वसमाचारमन्तः सर्वार्थशीतलम् ।
नित्यमन्तरनाविष्ट आविष्ट इव तिष्ठति
20
Keep
स्वरूपमीदृशं तस्य को वेत्ति मुनिनायक ।
वद सत्यमसत्यं वा भवत्यज्ञो ह्यपीदृशः
21
Keep
अश्ववद्ब्रह्मचर्येण चरन्तोऽचारुचेतसः ।
मिथ्यातपस्विदार्ढ्याय भवन्त्येवंविधा मुने
22
Keep
असत्यं वास्तु सत्यं वा स्वरूपं वरमीदृशम् ।
विद्धि वेदविदां त्वेष स्वभावानुभवस्थितः
23
Keep
अनाविष्टा विचेष्टन्ते वीतरागाः सरागवत् ।
गतहासा हसन्त्यज्ञान्सहसा करुणाकुलाः
24
Keep
चित्तादर्शगतं दृश्यं सर्वं कपटकुट्टिमम् ।
पश्यन्त्यसत्परिज्ञातं स्वप्ने हेमेव हस्तगम्
25
Keep
अन्तःशीतलतामेषां तां न जानन्ति केचन ।
दूराच्चन्दनदारूणामामोदमिव जन्तवः
26
Keep
ये तु विज्ञातविज्ञेयास्तादृशाः पावनाशयाः ।
जानन्ति तांस्तथैवान्तरहेः पादानिवाहयः
27
Keep
भावं निगूहयन्त्येते तमुत्तममनुत्तमाः ।
ग्राम्यैर्धनैः किलानर्घ्य कश्चिन्तामणिरापणे
28
Keep
तस्मिन्निगूहने भावो यतस्तेषां न दर्शने ।
निर्वासना गतद्वैता गतमानाः किलाङ्ग ते
29
Keep
एकान्तामानदौर्गत्यजनावज्ञप्तयस्तु तान् ।
सुखयन्ति यथा राम न तथैव महर्द्धयः
30
Keep
स्वसंवेदनसंवेद्यसारा विदितवेद्यता ।
नैषा दर्शयितुं शक्या दृश्यते न च तद्विदा
31
Keep
गुणं ममेमं जानातु जनः पूजां करोतु मे ।
इत्यहंकारिणामीहा न तु तन्मुक्तचेतसाम्
32
Keep
क्रियाफलानि चिद्व्योमगमनादीनि राघव ।
अज्ञानामपि सिध्यन्ति मन्त्रौषधिवशादिह
33
Keep
यो यादृक् क्लेशमाधातुं समर्थस्तादृगेव सः ।
अवश्यं फलमाप्नोति प्रबुद्धोऽस्त्वज्ञ एव वा
34
Keep
आमोदश्चन्दनस्येव स्पन्दनस्य फलं हृदि ।
सर्वस्यैवास्ति तन्नूनं तद्वता समवाप्यते
35
Keep
अहंतावासनाद्वैतं वस्तुता दृश्यवस्तुषु ।
यस्यास्त्यसौ साधयति खगमादिक्रियाफलम्
36
Keep
इदं न किंचिद्भ्रान्तिर्वा खं चेति ज्ञस्तु वेत्ति यः ।
सोऽवासनः कर्मवात्याः कथं साधयति क्रियाः
37
Keep
नैव तस्य कृतेनार्थो नाऽकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः
38
Keep
न तदस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् ।
यदुदारमनोवृत्तेर्लोभाय विदितात्मनः
39
Keep
जगदेव तृणं यस्य न किंचिद्रज एव वा ।
किं नाम तस्य भवतु अन्यदादेयतां गतम्
40
Keep
निर्वाहितजगद्यात्रः परिपूर्णमना मुनिः ।
यथास्थितमसावास्ते संप्रयाति यथागतम्
41
Keep
नित्यान्तःशीतलो मौनी सत्त्वीभूतमनोवनिः ।
परिपूर्णार्णवाकारो गम्भीरप्रकटाशयः
42
Keep
रसायनपरापूर्णहृदवत् ह्लादमात्मनि ।
धत्ते करोति वान्यस्य सकलेन्दुरिवामलः
43
Keep
मन्दारमञ्जरीकुञ्जपिञ्जरा देवभूमयः ।
न तथा ह्लादयन्त्येता यथा पण्डितबुद्धयः
44
Keep
चन्द्रबिम्बैर्वसन्तैश्च महतामहताशयैः ।
सारं सौभाग्यसौगन्ध्यसौरभालोकभोगिषु
45
Keep
भ्रान्तिमात्रमिदं विश्वमिन्द्रजालमसन्मयम् ।
त्यजतीति विनिश्चित्य दिनानुदिनमेषणाः
46
Keep
शीतातपादिदुःखानि निजदेहगतान्यपि ।
अन्यदेहगतानीव ज्ञः पश्यत्यवहेलया
47
Keep
करुणोदारया वृत्त्या वृत्त्या व्रततिधीरया ।
नीरसो नीरसारां तु सारतां सरति स्थितिम्
48
Keep
व्यवहारं यथाप्राप्तं लोकसामान्यमाचरन् ।
चराचराणां भूतानामुपर्येवावतिष्ठते
49
Keep
प्रज्ञाप्रासादमारूढस्त्वशोच्यः शोचते जनान् ।
भूमिष्ठानिव शैलस्थः सर्वान्प्रज्ञोऽनुपश्यति
50
Keep
चिरं कल्लोलवलितः सुमना जलधौ भ्रमे ।
परं पारमुपागत्य परां विश्रान्तिमेति सः
51
Keep
हसन्स शान्तया वृत्त्या प्राक्तनीर्जागतीर्गतीः ।
स्मयमान इवास्तेऽन्तर्जनताश्च घनभ्रमाः
52
Keep
एताः कान्तारनिर्मग्नमिताः संसारदृष्टयः ।
असत्यो हृतवत्यो मामित्यन्तर्याति विस्मयम्
53
Keep
दृष्ट्याष्टगुणमैश्वर्यमनिष्टं मे तृणायते ।
इत्युपैत्युपशान्तत्वात्स्मयमानोऽपि न स्मयम्
54
Keep
कश्चिद्गिरिगुहागेहः कश्चित्पुण्याश्रमाश्रयः ।
कश्चिद्गृहस्थाश्रमवान्कश्चिद्वहुरटन्स्थितः
55
Keep
कश्चिद्भिक्षाचराचारः कश्चिदेकान्ततापसः ।
कश्चिन्मौनव्रतधरः कश्चिद्ध्यानपरायणः
56
Keep
कश्चिद्विपश्चिद्विख्यातः कश्चिच्छ्रोता श्रुतेः स्मृतेः ।
कश्चिद्राजा द्विजः कश्चित्कश्चिदज्ञ इव स्थितः
57
Keep
गुटिकाञ्जनखङ्गादिसिद्धः कश्चिन्नभोगतः ।
कश्चिच्छिल्पकलाजीवी कश्चित्पामररूपभृत्
58
Keep
कश्चित्त्यक्तसमाचारः कश्चिच्छ्रोत्रियनायकः ।
कश्चिदुन्मत्तचरितः प्रव्रज्यां कश्चिदाश्रितः
59
Keep
पुरुषो न शरीरादि न च चित्तादि किंचन ।
पुरुषश्चेतनं नाम न स नश्यति कर्हिचित्
60
Keep
अच्छेद्योऽसावदाह्योऽसावक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽसौ सनातनः
61
Keep
इति सम्यक्प्रबुद्धो यः स यथा यत्र तिष्ठति ।
तथा तिष्ठतु तत्रात्र स्थानास्थानियमेन किम्
62
Keep
पातालमाविशतु यातु नभो विलङ्घ्य
दिङ्मण्डलं भ्रमतु पेषणमेव येन ।
चिन्मात्रमेतदजरं न तु यातु नाश-
माकाशकोश इवशान्तमजं शिवं तत्
Previous
←
Sarga 101
Next
Sarga 103
→