Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 104
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
आकाशः शब्दतन्मात्रं स्पर्शतन्मात्रकोऽनिलः ।
तत्सङ्गोत्कर्षजं तेजस्तच्छान्तिश्चेत्यपां स्थितिः
2
Keep
भूरेषां सङ्घः स्वप्नाभे जगद्भाने क्रमस्त्विति ।
कथं नाम किलामूर्ताद्व्योम्नो मूर्तिः प्रवर्तते
3
Keep
गत्वा सुदूरमप्येतज्ज्ञप्तेश्चेत्परिकल्प्यते ।
तदादावेव सत्यर्थे दोषोऽस्मिन्क इवामले
4
Keep
ज्ञप्तिरेवातिविमला स्वरूपात्मनि भाति यत् ।
तदेव जगदित्युक्तं सत्यमित्येव सत्यतः
5
Keep
न क्वचित्सन्ति भूतानि पञ्च कुट्यादयो न वा ।
असन्त्यप्यनुभूतानि ननु स्वप्नदशास्विव
6
Keep
स्वभाव एव विमलो यथा स्वप्ने पुरादिवत् ।
कचत्येवं जाग्रतीदं जगद्वद्वस्तुतस्तु खम्
7
Keep
चेतनाकाश एवाहं तदेवेदं जगत्स्थितम् ।
इत्यहं जगदित्येकं खमेवैकं शिलाघनम्
8
Keep
यदादिसर्गजननं यत्कल्पान्तविवर्तनम् ।
यद्वा भुवनसंस्थानं तद्धि व्योम निराकृति
9
Keep
सति वाऽसति वा देहे
निर्दुःखसुखत्वमक्षयं मोक्षः ।
बुद्धेऽमले स्वभावे
निर्भरविश्रान्तिरस्तु सर्वेह
Previous
←
Sarga 103
Next
Sarga 105
→