Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 107
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
अचेत्यचिन्मयं विश्वं विष्वगाभाति चिन्नभः ।
अत्र चिच्चेतनं चेदं चेत्यमप्येवमात्मकम्
2
Keep
अतो जीवन्नपि मृत इव सर्वोऽवतिष्ठते ।
असावहं च त्वं चेति जीवन्तोऽपि मृता इव
3
Keep
काष्ठमौनमृता एव व्यवहारगता अपि ।
खगमा एव वा सर्वे भावाः स्थावरजङ्गमाः
4
Keep
आकाशकाचकच्यात्म यदिदं किंचिदाततम् ।
न किंचिदेव तद्विद्धि किंचिद्व्योम्नि कुतो भवेत्
5
Keep
केशोण्ड्रकनदीवाहधूमालीमौक्तिकादिवत् ।
यत्नं कचति तत्रास्ति नानुभूतेऽपि वस्तुता
6
Keep
तथैवास्मिञ्जगन्नाम्नि चिद्व्योम्नि कचने चिते ।
अनुभूतेऽपि निःशून्ये कास्थास्थाभावकश्च कः
7
Keep
चिद्वालकल्पनाजाले शून्यात्मनि निरर्थके ।
अवस्तुभूते पृथ्व्यादौ भ्रान्तिमात्राम्बरोदये
8
Keep
किमास्था बालका ब्रूत ममेदमहमित्यलम् ।
आ ज्ञातं रमते बालसंकल्पे बाल एव च
9
Keep
पृथ्व्याद्यसद्विचारैर्वा व्यर्थं यास्यति जीवितम् ।
किंचिच्च न ज्ञास्यति भोराकाशक्षालनोद्यतः
10
Keep
सहकार्यादिपूर्वाणां कारणानामभावतः ।
यदादावेव नोत्पन्नं तन्नामाद्य भवेत्कुतः
11
Keep
अजातेनासतार्थेन खेन व्यवहरन्ति ये ।
मूढा मृतमजातं वा तनयं पालयन्ति ते
12
Keep
कुतः पृथ्व्यादयः केन के नाम कथमुत्थिताः ।
चिद्व्योमेत्थमिदं शान्तं प्रकचत्यात्मनात्मनि
13
Keep
कार्यकारणकालादिकल्पनाकुलचेतसाम् ।
एवं पृथ्व्यादयः सन्ति तैर्बालैरलमस्तु नः
18
Keep
अपृथ्व्यादि जगन्नाम सपृथ्व्यादि च खात्मकम् ।
कचतीत्थं नभोरूपं स्वप्नादिष्विव चिन्मणिः
15
Keep
अङ्गं यदेतस्य चिदम्बरस्य
निराकृति स्वानुभवानुमानम् ।
तदेतदाभाति महीतलादि-
रूपेण वेद्येतिकृताभिधानम्
Previous
←
Sarga 106
Next
Sarga 108
→