Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 114
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
अथ तेषां तदा तत्र ततस्तांस्तानदर्शयन् ।
पार्श्वगा वनवृक्षाब्धिशैलमेघवनेचरान्
2
Keep
देव पश्यास्य शैलस्य येयमभ्रंकषाग्रभूः ।
समरुन्मध्यदेशादेरश्मदेशमुपेयुषः
3
Keep
इमा बकुलपुन्नागनालिकेरकुलाकुलाः ।
विपिनावलयो वान्तविविधामोदमारुताः
4
Keep
लुनात्युपत्यकां वार्धिः शैलशालिशिलावलीः ।
वनालीर्लहरीदात्रैरापादफलपल्लवाः
5
Keep
अधित्यकासु मेघालीर्नृत्यतां स्वाम्बुभूभृताम् ।
धुनोति जलधिर्बालो गृहधूमावलीमिव
6
Keep
राकाब्धिपूरसंप्रोतशङ्खशाखास्तटद्रुमाः ।
चन्द्रबिम्बफलाः कल्पवृक्षा इव विभान्त्यमी
7
Keep
रत्नपुष्पभरापूर्णरक्तपल्लवपाणयः ।
भवन्तं पूजयन्तीव लतादारान्विता द्रुमाः
8
Keep
प्रोतोर्मिमकरग्रासैर्दृषद्दन्तैरागुहामुखैः ।
ऋक्षवानृक्षवद्भूभृद्धत्ते घुरघुरारवम्
9
Keep
महेन्द्रो मन्द्रगर्जाभिरभिक्षिपति गर्जतः ।
पर्जन्यानूर्जितो जन्यः प्रतिजन्यान्यथा जडैः
10
Keep
चन्दनारूषितः श्रीमाञ्जेतुं जलधिवेल्लनाः ।
समुद्यत इवोच्चोऽसौ मल्लो मलयपर्वतः
11
Keep
सर्वतः कचितोऽजस्रं रत्नवीचिभिरम्बुधिः ।
भूरत्नवलयभ्रान्त्या प्रेक्ष्यते सूर्यमार्गगैः
12
Keep
सरन्ति रत्नमूर्धानश्चलकानिलपायिनः ।
वानपूराः पर्वतकाः सर्पा इव नतोन्नतैः
13
Keep
भ्रमन्तो वीचिश्रृङ्गेषु मकरेभाः करोत्कटैः ।
हरन्ति सीकराम्भोदा मेघानुद्राविता इव
14
Keep
आवर्तवलिताकारः सीकरोत्करकीर्णदिक् ।
पूर्णत्वात्तु शिरोऽशक्तो म्रियतेऽत्युत्करः करी
15
Keep
विविधप्राणिसंपूर्णाः सजलाद्रिनतोन्नताः ।
यथैवाम्भोधयः सर्वास्तथैव द्वीपभूमयः
16
Keep
आवर्तानात्मनोऽनन्यानप्यन्यानिव भास्वरान् ।
गृह्यमाणानसद्रूपान्दृश्यमानानपि स्फुटान्
17
Keep
तरङ्गतरलानन्तर्जडानप्यम्बुधिश्चलान् ।
धत्ते ब्रह्मजगन्तीव सान्तानप्यन्तवर्जितान्
18
Keep
यानन्तरिन्द्रवद्भानुमणीन्धत्तेऽम्बुधिर्बहून् ।
मन्थापहृतसर्वस्वो देवेभ्यः परिरक्षितान्
19
Keep
दृश्यमानान्महातेजस्तथा पातालतोऽप्यलम् ।
प्रतिबिम्बविभंग्यान्तरसत्यानिव गोपितान्
20
Keep
तेषां मध्यादेकमेकं प्रत्यहं पश्चिमार्णवे ।
निक्षेपाय क्षिपति यं तेन मन्ये दिनं भवेत्
21
Keep
नानादिग्देशपयसामब्धौ साधुसमागमः ।
यात्रायामिव लोकानां मिथः कलकलान्वितः
22
Keep
जलेचरावरा नूनं सागरार्णवसंगमे ।
अन्योन्यवेल्लनाद्युद्धं न कदाचन शाम्यति
23
Keep
ताम्यत्तिमितरङ्गाग्रनर्तनावर्तविभ्रमम् ।
वलयन्वायुरायाति वान्तसीकरमौक्तिकैः
24
Keep
सरिन्मुक्तालतामध्यमध्यस्थाब्दमणीश्वराः ।
दीर्घाः खणखणायन्ते चञ्चलाः सर्वतोऽम्बुधेः
25
Keep
महेन्द्राद्रेर्गुहागेहपरावृत्तार्णवाध्वनाम् ।
भांकारिण्यो भुवः सिद्धसाध्यानां सुसुखावहः
26
Keep
मन्दरः कन्दरोद्गीर्णैः प्रसरैर्मातरिश्वनः ।
कम्पाकुलवनाभोगः पुष्पमेघांस्तनोति खे
27
Keep
चूतनीपकदम्बाढ्यगन्धमादनकन्दरान् ।
विशन्ति मेघहरिणास्तडित्तरललोचनाः
28
Keep
हिमवत्कन्दरोद्गीर्णा वल्लीवलयताण्डवम् ।
तन्वाना वायवो यान्ति विभिन्नाब्दाब्धिवीचयः
29
Keep
तात चूतकदम्बाग्रपरामर्शसुगन्धयः ।
वलयन्त्यब्धिकल्लोलान्गन्धमादनवायवः
30
Keep
जलदान्वलयन्वायुरलकालकतां गतान् ।
इत आयाति पुष्पाभ्रं रचयन्वनवीथिषु
31
Keep
कुन्दमन्दारसंदोहमधुरामोदमन्थरान् ।
तुषारसीकरोन्मिश्रानिवात्र कलयानिलान्
32
Keep
नालिकेरलतालास्यलब्धतिक्तसुगन्धयः ।
पतन्ति पवनाः पश्य पारसीकपुरीः पुरा
33
Keep
धुन्वानाः पुष्पितेशानवनकर्पूरवारिदान् ।
चालयन्तोऽनिला वान्ति कैलासकमलाकरान्
34
Keep
करीन्द्रकुम्भनिष्क्रान्तमदमन्थरमूर्तयः ।
इमे शुकशुकायन्ते विन्ध्यकन्दरवायवः
35
Keep
शबरीणां शरीरेषु शीर्णपर्णोत्करे गिरौ ।
नाराचैः पर्णशबरैर्वनाली नगरायते
36
Keep
अब्ध्यद्रिसरिदम्भोदवनलेखाङ्गिका दिशः ।
त्वत्प्रतापबलैरेता हसन्तीवार्करश्मिभिः
37
Keep
अत्रोपशैलवनवीथिषु पुष्पशय्या
विद्याधरीविरचिताः परिवर्णयन्ति ।
पार्श्वद्वयस्थपरिवृत्तपदात्समुद्रा-
द्व्यावृत्तमुग्धवनितापुरुषायितानि
Previous
←
Sarga 113
Next
Sarga 115
→