Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 117
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
सहचरा ऊचुः ।
पश्याद्रिसानाविव बिम्बितं स्वं पुरःसरो मारपुरःसरो यः ।
कह्लारपद्मोत्पलजालनाल-ललद्विचित्रारवपक्षिवीतम्
2
Keep
विकासितोद्दण्डसहस्रपत्र-कोशस्थलस्थोद्धुरराजहंसम् ।
पीठद्विरेफद्विजलोकजुष्टं भुवीव गेहं कमलासनस्य
3
Keep
आकीर्णसीकरकरालदिगन्तराले फुल्लोत्पलाब्जपटलोदररेणुगौरम् ।
आमोदमत्तमधुपद्विजगीतिगीतं यातं वितानकमिवाम्बरगं वहन्तम्
4
Keep
क्वचित्तरत्तारतरङ्गभङ्गं क्वचिद्विषद्भूरिविराविभृङ्गम् ।
क्वचिद्गभीरामलवारिसुप्तं क्वचित्सरोजोज्ज्वलपुष्पगुप्तम्
5
Keep
कणाणुमुक्ताजलतापटालं तीरेषु सिंहे सुलतासुटालम् ।
तरङ्गनिर्धूतशिलोग्रकच्छं महीतलाकाशमनन्तकच्छम्
6
Keep
तडित्प्रकाशोदरमस्यमेघ-नुन्नालजातोत्थरजःप्रभाभिः ।
पृषद्भरध्वान्तमयैकदेशं संध्याम्बराभोगमिवाप्रकाशम्
7
Keep
वातावकीर्णशरदम्बुदखण्डखण्डं व्योमेव केवलसमीरणमावृताङ्गम् ।
हसैर्लसद्विसलताकवलालसांसैः कालेन संचयकृतैरिव चन्द्रबिम्बैः
8
Keep
आमोदमन्दमकरन्दकरालवात-व्याधूतपङ्कपुटपाटनपाटवेन ।
उद्यन्महापटपटा वयतीव लेखा क्षुभ्यत्खगाश्रितलतोज्झितपुष्पवर्षम्
9
Keep
वेल्लन्महाकमलपल्लवतालवृन्त-संवीजितं वलितचामरचारुफेनम् ।
राजायमानमलिकोकिलगीतगीतं सहृत्तपङ्कजलताललिताङ्गनौघम्
10
Keep
भृङ्गाग्रभाजनमनोहरहारिगीतं राजीवरेणुरणकीर्णपिशङ्गतोयम् ।
डिण्डीरपिण्डपरिपाण्डुरपुण्डरीक-खण्डोपमण्डिततटोपवनावतंसम्
11
Keep
विविक्तहृदयाम्भोजं हृदयाह्लादनं परम् ।
रसवत्स्वादु भातीदं सरः सत्संगमोपमम्
12
Keep
बिम्बितेन मरुव्योम्ना भातीदं सौम्य निर्मलम् ।
शास्त्रार्थपरिणामेन महतामिव मानसम्
13
Keep
किंचिल्लक्ष्यमपश्यामं पृषत्परुषमारुतम् ।
हिमाभ्रमिव भातीदं सरः सरससारसम्
14
Keep
यथेदं ब्रह्मणो दृश्यमविकारादि नेतरत् ।
यथाम्भसि तरङ्गादि राजन्पृथगिव स्थितम्
15
Keep
आत्मनैवोह्यमानानां चक्रावर्तविधायिनाम् ।
जडाशयानां विषमा हा कल्लोलपरम्परा
16
Keep
कूपवापीसरोब्धीनां दृश्यते यादृगन्तरम् ।
नारीपुरुषतोयानां विज्ञेयं तादृगन्तरम्
17
Keep
जन्तोरिवास्य मनसो जलजातिबन्ध-
जीर्णस्य जर्जरदशालहरीभ्रमेण ।
आवर्तवृत्तिवलितान्यतिसंततानि
को नाम संकलयितुं कमलानि शक्तः
18
Keep
चित्रं विजृम्भितमहो जडसंगमस्य
पद्मोपि यन्निजगुणानगुणानिवैषः ।
अन्तः प्रगोपयति कण्ठतले निवेश्य
सर्वस्य दर्शयति दुर्भगकण्टकौघम्
19
Keep
सच्छिद्रैरदृढैः सूक्ष्मैर्गोपितैर्जाड्यसंयुतैः ।
अनल्पैरपि निःसारैः पद्मस्येव गुणैरलम्
20
Keep
महतां कुलपद्मानां गुणसौन्दर्यशालिनाम् ।
प्रभावं नास्ति संख्यातुं वासुकेरपि शक्तता
21
Keep
हरिवक्षोगता लक्ष्मीरपि शोभार्थमेव यत् ।
बिभर्ति कमलं हस्ते कान्याशंसाधिका भवेत्
22
Keep
सितासिताभ्यां रूपाभ्यां कमलोत्पलखण्डयोः ।
वैसादृश्यं भवेत्किंतु समा जडजडैतयोः
23
Keep
साम्यं न फुल्लविपिनेन सरःसु याति
व्योम्ना न तारकयुतेन न चेन्दुवृन्दैः ।
नृत्यद्वधूविहसिताननशोभयैति
फुल्लस्य पङ्कजवनस्य नवोदिता श्रीः
24
Keep
येषां पुष्पलतास्वादैरनन्यमनसां गतम् ।
भृङ्गाणामायुरायामि त एव सुभगोत्तमाः
25
Keep
चूतचारुचमत्कारं चञ्चरीकाश्चरन्ति ये ।
त एव सचमत्कारा इतरे जातिपूरणम्
26
Keep
मत्ता मधुमदामोदैः पुष्करेषु रणन्ति ये ।
तुष्टानामितरस्वादैर्भ्रमराणां हसन्ति ते
27
Keep
येनोषितं विरुतमुल्लसितं प्रसुप्तं
पद्मोदरेषु शशिकोटरकोमलेषु ।
भृङ्गः स एष शिशिरे विरसेषु भावं
कष्टं करिष्यति कथं तरुपुष्पकेषु
28
Keep
अफुल्लमल्लिकोद्दाममुकुलोपरि षट्पदः ।
दृश्यते कालरुद्रेण शूले प्रोत इवान्धकः
29
Keep
आस्वादयन्विविधपुष्पमधूनि भृङ्ग
नित्यं भ्रमन्सकलशैललतागृहेषु ।
नाद्यापि तुष्यसि किमङ्ग दुराशयोऽसि
मन्ये न सारमुपगच्छसि वा वनेभ्यः
30
Keep
कमलकुलकवलकोविद गच्छ सरो मधुप मा रूढम् ।
बदरदरीषु विदीर्णं देहं कुरु कण्टकक्रकचैः
31
Keep
अतसीकुसुमे कुवलय-दलवलये विकसिते च तापिच्छे ।
परभागमेहि मधुना तासु विसदृशीव पण्डितः पुरुषः
32
Keep
पश्यैषा नाभिनलिनीकेसरैः पालिता श्रिया ।
हंसमालामलावल्ली सामगायनकूजिता
33
Keep
दोलाकमलनीडस्थां दृष्ट्वा खे प्रतिबिम्बिताम् ।
हंसो हंसीमनुसरन्मण्डले नेह चेतति
34
Keep
मा भूत्कस्यचिदेवैषा राजन्व्यसनिता भृशम् ।
पश्यैतां बिम्बितां हंसो हंसीमनुसरन्मृतः
35
Keep
हेलया राजहंसेन यत्कृतं कलकूजितम् ।
न तद्वर्षशतेनापि जानात्याशिक्षितुं बकः
36
Keep
समानेष्वाकराकारजातिचेष्टाशनादिषु ।
हंसस्य राजहंसस्य दूरमत्यन्तमन्तरम्
37
Keep
शुक्लपक्षस्थितो व्योम्नि कुमुदाकरभासकः ।
आह्लादयति चेतांसि हंसश्चन्द्र इवोत्थितः
38
Keep
उन्नालनलिनीनालकदलीस्तम्भसंकुले ।
वने विहरतां लक्ष्मीं हंसानामेति कः खगः
39
Keep
तरङ्गवलया लोलसीकरोत्करहारिणी ।
कुमुदोत्पलकह्लारपुष्पसंभारसुन्दरी
40
Keep
भृङ्गलोलालकलता रणत्सारसनूपुरा ।
वर्तुलावर्तनाभीका चलद्वीचिविलोचना
41
Keep
प्रतीक्षमाणा दयितं रसपूरकरं धरम् ।
नारीव सरसी चारुहंसकाभ्यां विराजते
42
Keep
हे हंस मद्गुबककाकशरारुसारे
मा त्वं सरस्यविरतं कुरु वासमेकः ।
आपद्यपीह समशीलवयोवचोभिः
श्रेयःफला भवति संगतिरात्मवर्गैः
43
Keep
पादाक्रान्तमहेभमस्तकतटः पद्माकरैकालयः
कह्लारोत्पलकुन्दचम्पकलतासंभोगसौभाग्यवान् ।
भृङ्गोऽप्येष विधेर्वशेन शिशिरे लोष्टं तृणं स्वादयन्
शीते शुष्कबकत्यहो नु विपदा दैन्ये मनो दीयते
44
Keep
पुत्रस्येह दलोदरे द्युति तरत्तारं चिरं संस्मृतं
हंसस्यांसविनुन्ननालगहने संचारिणा भो मया ।
शुक्लासारमिवाब्जिनी विकिरति स्वं वारिबिन्दूत्करं
मध्याह्ने शिशिरं विकासि सहसा मूर्ध्नि स्फुटं दृश्यताम्
Previous
←
Sarga 116
Next
Sarga 118
→