Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 12
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
ख एव व्योम संपन्नमिति संकल्पनं यथा ।
भ्रान्तिमात्रमसद्रूपं तथाहंभावभावनम्
2
Keep
खे खं जातमिति भ्रान्तेरहं कल्पयिता यथा ।
तथा निर्व्यपदेश्यात्म सदस्त्यसदिवाततम्
3
Keep
खे खात्मैवास्ति चिद्रूपं तत्स्वकं बुध्यते वपुः ।
भासते यदिदन्त्वेन नाहमस्मि न चानहम्
4
Keep
ततश्चिद्रूपमस्तीदृग्यत्र स्थूलं खमप्यलम् ।
अणाविव महामेरुस्तत्संवित्तिर्हि खादिता
5
Keep
घनस्ततोऽचिदाभासः खादप्यतितरामणुः ।
जानाति यत्स्वभावं तदेतत्सर्गतया स्थितम्
6
Keep
अहन्ताखादिताद्यात्मविदः प्रसरणं जगत् ।
अम्भोद्रवप्रसरणं यथावर्तादिवेष्टनम्
7
Keep
अचित्प्रसरणं शान्तमस्पन्दीव जलद्रवः ।
निःस्पन्दपवनाकारमाकाशहृदयोपमम्
8
Keep
न देशकालादिजगत्प्रसरेषु च युज्यते ।
घनाच्छून्यान्निराभासाच्चिन्मात्रविसरादृते
9
Keep
चिन्मात्रे प्रसृते काले व्योम्नि नावि जले स्थले ।
निद्रायां जाग्रति स्वप्ने भवेज्जगदिवोदितम्
10
Keep
प्रसरणाप्रसरणे न च संभवतो विदः ।
खादप्यत्यन्तस्वच्छत्वादक्षोभादेः सदैव हि
11
Keep
ज्ञश्चेतति न भोगादि न चैवात्मन्यसावहम् ।
द्रवत्वमम्भसीवान्तरद्वितीयः परे स्थितः
12
Keep
धीर्ह्रीः श्रीर्भीः स्मृतिः कीर्तिः कान्तिरित्यादिकंगणं ।
न पश्यति विसंकल्पस्तमसीव पदान्यहेः
13
Keep
ब्रह्मेन्दुबिम्बस्फुरितचिज्ज्योत्स्नांशामृतद्रवः ।
दिक्कालासंभवात्सर्गो नेश्वरादतिरिच्यते
14
Keep
आधिमान्यः स्फुरत्येवं परे स्फुरति भासुरम् ।
जगदाद्यात्मकं चित्तं चक्रौघत्वमिवाम्भसि
15
Keep
मज्जनोन्मज्जनारावैर्विवर्तावर्तवेष्टनैः ।
अच्छिन्नानुपदं क्षीणा भाति सर्गसरिच्चिरम्
16
Keep
यथावर्तैः पयो भाति धूमो भाति यथा घनः ।
तथा जडात्मकतया तृतीयः सर्ग एतयोः
17
Keep
दारुणि क्रकचच्छेदे यथावर्तादिकं तथा ।
अदिगादौ परे सर्गस्तदतद्रूपवानयम्
18
Keep
संसारकदलीस्तम्भाद्विना संकल्पपल्लवम् ।
मृदुनोऽपि दृषत्क्रूरान्न किंचिल्लभतेऽन्तरम्
19
Keep
सहस्रखुरमूर्धाक्षिकरवक्त्रहितोहितम् ।
नानाद्रितनुदिग्देशसरित्प्रादेशमात्रकम्
20
Keep
अन्तःशून्यमसारात्म बहुरागोपरञ्जितम् ।
स्फुरद्विरागविहितमार्जनामात्रतर्जनम्
21
Keep
ससुरासुरगन्धर्वविद्याधरमहोरगम् ।
जडात्मपवनस्पन्दि परचेतनचेतितम्
22
Keep
पटे चित्रमहाराज्यमिव भासुरसुन्दरम् ।
परामर्शासहं चारु विकल्पस्फूर्जितं जगत्
23
Keep
स्पन्दात्मनि विकल्पांशे पतिताऽसत्यरूपिणि ।
संवित्प्रसरति भ्रान्तौ तैलबिन्दुरिवाम्भसि
24
Keep
हृल्लेखाजालविसरैः सर्वावर्तविवर्तनैः ।
विसरत्स्नेहसंमिश्रजडानुदयचर्वणैः
25
Keep
अहमित्यादिचिद्रूपे विकल्पेनोन्मुखी सती ।
न पराद्व्यतिरिक्तैषा जलत्वादिव तोयता
26
Keep
चिदादित्यः स्व आत्मैव सर्ग इत्यभिधीयते ।
भूत्वाहमिति तेनान्यो न सर्गोऽस्ति न सर्जकः
27
Keep
स्पन्दात्मिकायां सत्तायां यथा स्पन्दो जलद्रवः ।
तथा चिदात्मा व्योमत्वेनव्योमत्वादि वेत्ति हि
28
Keep
देशकालादिनिर्माणपूर्वकं वेदनं विदः ।
सर्गात्मकत्वात्तेनाम्बुद्रवसाम्यं न दूरगम्
29
Keep
मनोहंभावबुद्ध्यादि यत्किंचिन्नाम वेदनम् ।
अविद्यां विद्धि यत्नेन पौरुषेणाशु नश्यति
30
Keep
अर्धं मिथःसंकथया भागः शास्त्रविचारणैः ।
आत्मप्रत्ययतः शिष्टमविद्याया निवर्तते
31
Keep
चतुर्भागात्मनि कृते इत्यविद्याक्षये क्रमात् ।
समकालाच्च यच्छिष्टं तदनामार्थसन्मयम्
32
Keep
अर्धं मिथःसंकथया भागः शास्त्रविचारणैः ।
आत्मप्रत्ययतो भागः कथं तस्या निवर्तते
33
Keep
समकाले क्रमाच्चेति मुनिनाथ किमुच्यते ।
तदनामार्थसच्चेति सच्चासच्चेति किं वद
34
Keep
सुजनेन विरक्तेन संसारोत्तरणार्थिना ।
सह चाप्यात्मविदुषां संसृतिं प्रविचारयेत्
35
Keep
यतः कुतश्चिदन्विष्य सविरागममत्सरम् ।
जनं सज्जनमात्मज्ञं यत्नेनाराधयेद्बुधः
36
Keep
संपन्ने संगमे साधोरविद्यार्धं क्षयं गतम् ।
विद्धि वेद्यविदां श्रेष्ठ ज्येष्ठश्रेष्ठदशोदयात्
37
Keep
अर्धं सज्जनसंपर्कादविद्याया विनश्यति ।
चतुर्भागस्तु शास्त्रार्थैश्चतुर्भागं स्वयत्नतः
38
Keep
एकोऽभिलाष उत्पन्नो भोगेभ्यश्च निवार्यते ।
तत्क्षये यात्यविद्यायाश्चतुर्थांशः स्वयत्नतः
39
Keep
साधुसङ्गमशास्त्रार्थस्वयत्नैः क्षीयते मलम् ।
एकैकेनाथ सर्वैश्च तुल्यकालं क्रमादपि
40
Keep
यदविद्याक्षयैकात्म न किंचित्किंचिदेव च ।
शिष्यते तत्परं प्राहुरनामार्थमसच्च सत्
41
Keep
ब्रह्मेदं घनमजराद्यनन्तमेकं
संकल्पस्फुरणमविद्यमानमेव ।
बुद्ध्वैवं व्यपगतमानमेयमोहो
निर्वाणं परिविहरन्विशोकमास्स्व
Previous
←
Sarga 11
Next
Sarga 13
→