Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 123
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
इत्येते दृश्यरूपाया अविद्याया विचारणे ।
प्रवृत्ताः पादचारेण समुद्रद्वीपगामिनः
2
Keep
अब्धेर्द्वीपं पुनर्द्वीपादब्धिं द्वीपं गिरिं वनम् ।
लाघवाल्लङ्घयामासुश्छेदभेदविवर्जिताः
3
Keep
पीतो विपश्चित्पाश्चात्यो मीनेनामरमानिना ।
विष्णुमीनकुलोत्थेन वितस्तावाहनौजसा
4
Keep
क्षीरोदं प्राप्य मत्स्येन तेनोद्गीर्णः सुदुर्जरः ।
तेन क्षीरोदमुल्लङ्घ्य गतो दूरं दिगन्तरम्
5
Keep
दक्षिणो यक्षनगरे संप्रेक्ष्येक्षुरसार्णवे ।
शिक्षादक्षिणयाक्षिप्य यक्षिण्या कामुकीकृतः
6
Keep
पूर्वो मकरमाक्रम्य यदा गङ्गां निकृत्तवान् ।
गङ्गया स तदानीय कान्यकुब्जे समुज्झितः
7
Keep
उत्तरस्तूत्तरकुरूनाराध्य प्राप्तवाञ्श्रियम् ।
तं तयैनं न बाधन्ते दिगन्ते मृतभीतयः
8
Keep
तया मकरमातङ्गनिगीर्णोद्गीर्णमूर्तिमान् ।
अतिचक्राम सुबहून्द्वीपान्तरकुलाचलान्
9
Keep
पश्चिमः पृष्ठमारोप्य हेमचूडेन पक्षिणा ।
कुशद्वीपे कुशाङ्गश्रीस्तरसा तारतोऽर्णवान्
10
Keep
क्रौञ्चद्वीपाचले पूर्वो निगीर्णो रक्षसा वने ।
तद्रक्षः पाटितं तेन हृदयेऽन्त्रविकर्तनैः
11
Keep
दक्षिणो दक्षशापेन यक्षतामागतः क्षणात् ।
शाकद्वीपे शतेनासौ वर्षाणां मोक्षमागतः
12
Keep
उत्तरस्तरसोत्तीर्णतारावरतरङ्गिणः ।
महार्णवसुवर्णोर्व्यां सिद्धशापाच्छिलां गतः
13
Keep
ततो वर्षशतेनासौ प्रसादाज्जातवेदसः ।
तेनैवोन्मोचितस्तत्र सिद्धेन रतिमाप्तवान्
14
Keep
वर्षाण्यष्टावभूद्राजा नालिकेरनिवासिनाम् ।
पूर्वः परमधर्मिष्ठः प्राप्तवान्प्राक्स्मृतिं ततः
15
Keep
कल्पवृक्षवने मेरोरुत्तरेऽप्सरसा सह ।
उवास दशवर्षाणि नालिकेरफलाशनः
16
Keep
विहगाश्वासतत्त्वज्ञः शाल्मलिद्वीपशाल्मलौ ।
पश्चिमः पक्षिणीनीडे क्रीडया न्यवसत्समाः
17
Keep
मन्दराद्रौ मृदुतले मन्दारतरुमन्दिरे ।
किन्नरी मन्दरीनाम्नी दिनमेकमसेवत
18
Keep
क्षीरोदवेलावनकल्पवृक्ष-
वनावलीनन्दनदेवताभिः ।
सार्धं समाः सप्ततिमप्सरोभि-
र्निनाय कामाकुलितोऽथ पूर्वः
Previous
←
Sarga 122
Next
Sarga 124
→