Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 132
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
मन्दरे मृदुमन्दारमन्दिरे मन्दराभिधाम् ।
आलिंग्याऽप्सरसं सुप्तं सरित्तृणमिवानयत्
2
Keep
मामथासौ मया पृष्टा समाश्वास्य जलाकुला ।
बाले किमिदमित्युक्तं तया चपलनेत्रया
3
Keep
इह चन्द्रोदयेष्वेताश्चन्द्रकान्तकटप्रजाः ।
नद्यो माद्यन्ति वनिताः सेष्टा इव निशागमे
4
Keep
त्वत्संगमरसावेशवशात्तन्ननु विस्मृतम् ।
इत्युक्त्वा मामुपादाय सोड्डीना विहगीव खम्
5
Keep
भृङ्गं श्रृङ्गवतः श्रृङ्गे गङ्गाकनकपङ्कजे ।
अहमासं समाः सप्त तत्क्लिन्नोऽकर्दमाप्लुते
6
Keep
अन्यन्मया जगद्दृष्टमृक्षचक्रविवर्जितम् ।
गर्भगर्भस्थैकजातिस्वप्रकाशजनावृतम्
7
Keep
न दिग्विभागो न दिनानि यत्र
न चैव शास्त्राणि न वेदवादाः ।
न चैव दैत्यादिसुरादिभेदो
जगन्मया तादृगथात्मदीप्तम्
8
Keep
विद्याधरामरविहारविमानभूमा-
वभ्रंलिहाचलनितम्बकदम्बकच्छे ।
आसं समाः समरसोऽमरसोमनामा
सप्तान्यसप्त ससमुद्रतटे तपस्वी
9
Keep
पवनवहनसंनिवेशनाना-
सुहयपयोधरदेहकैरनेकैः ।
गजहरिणमृगेन्द्रवृक्षवल्ली-
मृगनगपन्नगपक्षिभिः परीतम्
10
Keep
गगनमवनितः समेत्य वह्ने -
र्वरविभवेन जगत्यनन्तकोशम् ।
क्वचिदहमभितो दिदृक्षुरग्रे
सृत उरगाशनवद्वलादविद्याम्
11
Keep
क्वचिदहं जगतः परिनिर्गतः
पतित एकमहार्णवविस्तृते ।
नभसि तत्र निवासिनिभे सितः
समयमन्वभवं पतनं तथा
12
Keep
आकाशकोशपतनानुभवैकवृत्तेः
श्रान्तस्य मे पदमकार्यथ निद्रयान्तः ।
तादृक्सुषुप्तवपुषाथ मयोपलब्धं
स्वप्नात्मजाग्रति तदात्मनि तत्र विश्वम्
13
Keep
भूयो दिगन्तभुवनामरमन्दराद्रि-
संसारचञ्चलतया लतयेव पक्षी ।
अक्षीणवातबलया परिचाल्यमान-
स्तन्मासु तासु पतितो हि जगद्गुहासु
14
Keep
विषयाशा दृशो यावत्तावद्यातः क्षणादहम् ।
पुनस्तथैव पश्यंस्तु दृश्यं यातः पुनःपुनः
15
Keep
इति दृश्यमदृश्यं च गम्यं चागम्यमेव च ।
वेगाल्लङ्घयतो देशं मम वर्षगणा गताः
16
Keep
दृश्याख्याया अविद्याया न त्वन्तं प्राप्तवानहम् ।
मिथ्यैव हृदि रूढायाः पिशाच्या इव बालकः
17
Keep
नेदं नेदं सदित्येव विचारानुभवे स्थितम् ।
तथापीदमिदं चेति दुर्दृष्टिर्न निवर्तते
18
Keep
प्रतिक्षणं सुखैर्दुःखैर्देशकालैः समागमैः ।
सरिद्वारिवदालोला नवमायान्ति यान्ति च
19
Keep
तालीतमालबकुलातुलतुङ्गश्रृङ्ग-
मुन्नादवातजवमेकमहं स्मरामि ।
सूर्यादिभिर्विरहितं प्रकटं स्वकान्त्या
सस्थावराद्रितटजङ्गममेव विश्वम्
20
Keep
यदेतदेकान्तविहारहारि
स्वच्छन्दमेकामितमस्तशङ्कम् ।
क्वचिन्मया चारुजगत्सु दृष्टं
तुल्या न तस्यामरराजलक्ष्मीः
Previous
←
Sarga 131
Next
Sarga 133
→