Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 147
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
मुनिरुवाच ।
अनन्तरं महाबाहो सुषुप्तान्निर्गतस्य मे ।
स्वप्ने जगद्दृश्यमिदं सागरादिव निर्गतम्
2
Keep
आकाशाङ्गादिवोत्कीर्णमुत्कीर्णमवनेरिव ।
उत्कीर्णमिव वा चित्तादुत्कीर्णमिव वा दृशः
3
Keep
प्रफुल्लमिव वृक्षेभ्यः सर्गः पूर्वमिवोत्थितः ।
तरङ्गजालं रोधोऽब्धेरिव वा कचनं दृशाम्
4
Keep
नभस्तलादिवायातं ककुब्भ्य इव चागतम् ।
पर्वतेभ्य इवोत्कीर्णं भूमेरिव समुत्थितम्
5
Keep
हृदयादिव निष्क्रान्तं संप्रविष्टमिवाम्बुदैः ।
प्रसूतमिव वृक्षेभ्यो जातं वा सस्यवद्भुवः
6
Keep
अङ्गेभ्य इव निर्यातं समुत्कीर्णमिवेन्द्रियैः ।
पटादिव प्रकटितं मन्दिरादिव निर्गतम्
7
Keep
कुतोऽप्यागत्य पतितमुड्डीय गगनादिव ।
उपायनं परे लोके गृहीतमिव वा भुवः
8
Keep
प्रसूनं ब्रह्मवृक्षस्य तरङ्गमिव वाम्बुधेः ।
अनुत्कीर्णप्रकटनाच्चित्स्तम्भे चारुपुत्रिका
9
Keep
आकाशमृन्मयानन्तकुड्यमाकाशपत्तनम् ।
मनो मत्तो गजमयो मिथ्या जीवस्य जीवितम्
10
Keep
अभित्तिकमरङ्गं च विचित्रं चित्रमम्बरे ।
शम्बरेशस्य सर्वस्वमविद्याख्यस्य कस्यचित्
11
Keep
महारम्भं स्थिरमपि देशकालविवर्जितम् ।
नानाढ्यमपि चाद्वैतं नानात्मापि न किंचन
12
Keep
गन्धर्वपुरदृष्टान्तस्याप्यवस्तुतया समम् ।
जागरायां हि किल तद्भ्रान्तमप्युपलभ्यते
13
Keep
चिद्भामात्रमनारब्धमप्यारब्धमिव स्थितम् ।
देशकालक्रियाद्रव्यसर्गसंहारसंयुतम्
14
Keep
सुरासुरनराधारगर्भगर्भमनोहरम् ।
पृथक्कोष्ठस्थबीजौघसंपूर्णमिव दाडिमम्
15
Keep
नदीशैलवनादिस्थव्योमताराभ्रसंकुलम् ।
गीताब्धिरणपाठाढ्यपवनारावघर्घरम्
16
Keep
ततो विलोकितं तत्र तन्मया दृश्यमण्डलम् ।
यावत्तमेव पश्यामि ग्रामं प्राक्तनमास्पदम्
17
Keep
तानेव सकलान्बन्धूंस्तथासंस्थानसंस्थितान् ।
तान्पुत्रांस्तां महेलां च तदेव च तदा गृहम्
18
Keep
तां दृष्ट्वा प्राक्तनीं ग्राम्यामाहरद्वासनां बलात् ।
तटस्थं मुह्यमानाङ्गमिव वीचिर्महार्णवे
19
Keep
अथाहमभवं तत्र तदालिङ्गननिर्वृतः ।
गृहीतवासनो नूनं विस्मृतप्राक्तनस्मृतिः
20
Keep
बिम्बं तत्तदुपादत्ते यद्यदग्रेऽवतिष्ठति ।
यथादर्शश्चिदादर्शस्तथैवायं स्वभावतः
21
Keep
यस्तु चिन्मात्रगगनं सर्वमित्येव बोधवान् ।
द्वैतेन बोध्यते नेह सोऽङ्ग तिष्ठति केवलः
22
Keep
न नश्यति स्मृतिर्यस्य विमला बोधशालिनी ।
अयं द्वैतपिशाचस्तं मनागपि न बाधते
23
Keep
येषामभ्यासयोगेन साधुसच्छास्त्रसंगमैः ।
उदेति बोधधीर्भूयो या विस्मरति नोदयम्
24
Keep
अप्रौढा मे तदा सासीद्बोधधीर्या तया हता ।
अद्य शक्नोति मे बुद्धिं हन्तुं क इव दुर्ग्रहः
25
Keep
तवापि व्याध विद्धीदं बुद्धिः सत्सङ्गवर्जिता ।
द्वैतबोधेन कष्टेन कृच्छ्राच्छान्तिमुपैष्यति
26
Keep
एवमेतन्मुने सत्यं पावनैस्त्वद्विबोधनैः ।
ईदृशैरपि मे बुद्धिर्न विश्राम्यति सत्पदे
27
Keep
स्यादीदृशमथो न स्यादिति संदेहजालिका ।
नैतस्मिन्स्वानुभूतेऽपि वस्तुन्यद्यापि शाम्यति
28
Keep
अहो बत दुरन्तेयमभ्याससुदृढीकृता ।
अविद्या विद्यमानैव या शान्तैव न शाम्यति
29
Keep
सत्सङ्गतैः पदपदार्थविबुद्धबुद्धेः
सच्छास्त्रसत्क्रमविचारमनोहराङ्गैः ।
अभ्यासतः प्रशममेति जगद्भ्रमोऽयं
नान्येन केनचिदपीति विनिश्चितिर्मे
Previous
←
Sarga 146
Next
Sarga 148
→