Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 15
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
यत्राहंत्वं जगत्तत्र पूर्वमागत्य तिष्ठति ।
पराण्वन्तरपीन्द्रस्य त्रसरेणूदरे यथा
2
Keep
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अहंभावोऽभिमन्तात्मा मूलमाद्यमुदाहृतम्
3
Keep
वासनारससंसिक्तादहंबीजकणादयम् ।
ब्रह्माद्रौ व्योमविपिने जायते त्रिजगद्द्रुमः
4
Keep
तारकापुष्पनिकरो विलीनाचलपल्लवः ।
सरित्सारशिरापूरो वासनासारतत्फलः
5
Keep
अहंत्वसलिलस्येदं जगत्स्पन्द उदाहृतः ।
चिञ्चमत्करणस्वादुर्वासनाविसरद्रवः
6
Keep
तारकासीकरासारो नभोनन्तनिखातवान् ।
भावाभावमहावर्तो नानागिरितरङ्गकः
7
Keep
त्रिलोकीविलिखल्लेखो विलोलालोकफेनिलः ।
ब्रह्माण्डबुद्बुदोद्भेदः कवाटापीडपीवरः
8
Keep
भूपीठदृढडिण्डीरपिण्डश्चिद्धनमद्गुमान् ।
चित्राजवं जवीभावमज्जनोन्मज्जनात्मकः
9
Keep
जरामरणमोहादिवीचीचयचमत्कृतिः ।
उत्पन्नध्वंसिदेहादिबिन्दुवृन्दैकबन्धुरः
10
Keep
अहंत्वपवनस्पन्दो जगदित्यवगम्यताम् ।
अहंत्वपद्मसौगन्ध्यं जगदित्यवबुध्यताम्
11
Keep
नाहंत्वजगती भिन्ने पवनस्पन्दवत्सदा ।
पयो द्रवत्वमिव च वह्निरौष्ण्यमिवापि च
12
Keep
जगदस्त्यहमर्थेऽन्तरहमस्ति जगद्धृदि ।
अन्योन्यभाविनी त्वेते आधाराधेयवत्स्थिते
13
Keep
जगद्बीजमहंत्वं यो मार्ष्टि वोधादवेदनात् ।
अलं चित्रं जलेनेव तेन धौतं जगन्मलम्
14
Keep
अर्हत्वं नाम तत्किंचिद्विद्याधर न विद्यते ।
अकारणमवस्तुत्वाच्छशशृङ्गमिवोदितम्
15
Keep
ब्रह्मण्यतिततेऽनन्ते संकल्पोल्लेखवर्जिते ।
अहंत्वकारणाभावान्न कदाचन सन्मयम्
16
Keep
अवस्तुन्येति सर्गादौ न संभवति कारणम् ।
अतोऽहंत्वादि नास्त्वेववन्ध्यासुत इव क्वचित्
17
Keep
तदभावाज्जगन्नास्ति चित्त्वं जगदभावतः ।
शिष्टं निर्वाणमेवातः शान्तमास्स्व यथासुखम्
18
Keep
अभावादुपपत्तिस्थादेवं जगदहंत्वयोः ।
रूपालोकमनस्काराः शान्तास्तव न चेतरत्
19
Keep
यन्नास्ति तत्तु नास्त्येव शेषं शान्तमसि धुवम् ।
संप्रबुद्धोऽसि मा भूयो निर्मलां भ्रान्तिमाहर
6-2
Keep
व्यपगतकलनाकलङ्कशुद्धः
शिवमसि शान्तमसीश्वरोऽसि नित्यः ।
स्वमपि भवति पर्वतोपमानं
जगदपि वा परमाणुरूपमेव
Previous
←
Sarga 14
Next
Sarga 16
→