Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 17
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अनहंवेदनादेवं शुभाशुभफलप्रदा ।
संसारफलिनी नूनमिच्छान्तरुपशाम्यति
2
Keep
अनहंवेदनाभ्यासात्समलोष्टाश्मकाञ्चनः ।
भूत्वा शान्तभवापीडो न नरः परिताम्यति
3
Keep
अहंतापुटकोड्डीनपरबोधबलेरितः ।
अहमित्यर्थपाषाणो न जाने क्वाशु गच्छति
4
Keep
अहंतापुटकोड्डीनो ब्रह्मवीरबलेरितः ।
अहमित्यर्थपाषाणो न जाने क्वाशु गच्छति
5
Keep
अहंतापुटकोड्डीनो ब्रह्मवीरबलेरितः ।
शरीरयन्त्रपाषाणो न जाने क्वाशु गच्छति
6
Keep
अहमर्थहिमं त्वन्तरनहंता चिदर्चिषा ।
उड्डीयेव विलीनं सन्न जाने क्वाशु गच्छति
7
Keep
अहंरसो विलीनोन्तरनहंताचिदर्चिषा ।
शरीरपर्णादुद्वर्णान्न जाने क्वाशु गच्छति
8
Keep
शरीरपर्णान्निष्पीतस्त्वहंभावरसासवः ।
अनहंतार्कमार्गेण परतामधिगच्छति
9
Keep
शयने कर्दमे शैले गृहे व्योम्नि स्थले जले ।
स्थूला सूक्ष्मा निराकारा रूपान्तरगतापि च
10
Keep
यत्र तत्र स्थिता सुप्ता प्रबुद्धा भस्मतां गता । ।
धृता नीता निमग्ना च दूरस्था निकटा सती
11
Keep
शरीरवटधानान्तःस्थिताहंत्वनवांकुरा ।
शास्त्राजालं तनोत्याशु संसाराख्यमिदं क्षणात्
12
Keep
अहंत्ववटधानान्तःस्थितदेहबृहद्द्रुमः ।
संसारशाखानिवहं यत्र तत्र तनोत्यलम्
13
Keep
शाखाशतेद्धदलपुष्पफलद्रुमोऽस्ति
बीजोदरे ननु दृशा परिदृश्यतेऽसौ ।
देहोऽस्त्यहंत्वकणिकान्तरशेषदृश्य-
संवित्परीत इति बुद्धिदृशैव दृष्टम्
14
Keep
देहादहंत्वमनवाप्तवतो विचारै-
श्चिद्व्योममात्रवपुषो वपुषोऽथ वोच्चैः ।
नाहंत्वबीजजठरादसतोऽभ्युदेति
संसारवृक्ष इह बोधमहाग्निदग्धात्
Previous
←
Sarga 16
Next
Sarga 18
→