Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 170
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
ब्रह्मन्कोऽस्य सुहृद्ब्रूहि येनासौ रमते सह ।
रमणं किंस्वभावं स्यादुत रत्यात्म वास्य तत्
2
Keep
स्वप्रवाहेहितं नाम स्वप्रायेहितनाम च ।
स्वकर्म नाम चास्यास्ते मित्रमेकमकृत्रिमम्
3
Keep
पितृवद्विहिताश्वासं दारा इव नियन्त्रणम् ।
संकटेषु दुरन्तेषु नित्यमव्यभिचारि च
4
Keep
अशङ्कितोपचरणं सुसंपादितनिर्वृति ।
कोपेष्वकोपनतया वितीर्णावर्जनामृतम्
5
Keep
दुर्गदुर्गमदुर्वारदोषोद्धरणतत्परम् ।
सर्वविश्वासरत्नानां कोश आशैशवोषितम्
6
Keep
सहपांसुकृताक्रीडमाबाल्यादेव संगतम् ।
विनिवारितदुश्चेष्टं पितृवद्रक्षणोन्मुखम्
7
Keep
वह्नेरिवौष्ण्यं सौगन्ध्यं कुसुमस्येव सर्वदा ।
अविनाभावि विमलं रवेरिव च वासरम्
8
Keep
लालनैकरतं नित्ये पालनैकपरायणम् ।
सर्वसंकटसंघट्टरक्षणैकसमुद्यतम्
9
Keep
हेम्नोऽग्निरिव देहस्य सर्वावस्थस्य शुद्धिदम् ।
इदं हेयमुपादेयमिति दर्शनतत्परम्
10
Keep
आह्लादकमनिन्द्याभिः कथाभिरिव नागरम् ।
सच्चेष्टामणिमाणिक्यभाण्डसंभारमन्दिरम्
11
Keep
सूर्यस्तम इवाजस्रमप्रदर्शयदप्रियम् ।
अनुरक्ता महेलेव प्रियमेवाप्रदर्शयत्
12
Keep
जनं प्रियंवदं कुर्वत्प्रियमेव समाचरत् ।
पेशलं मधुरं स्निग्धमक्षुब्धमुदिताशयम्
13
Keep
लोकोपचारकं पूज्यं स्मितपूर्वाभिभाषणम् ।
कामोपशान्तं सद्रूपं परमार्थैककारणम्
14
Keep
रणेऽज्ञानसमुद्भूते पूर्वं प्रहरणोद्यतम् ।
अपूर्वनर्मनिर्माणलीलाललनलालकम्
15
Keep
पालकं शीलसाराणां दाराणां च कुलस्य च ।
आधिव्याधिपरीतस्य चेतसोऽमृतमौषधम्
16
Keep
विशेषविद्यावैदग्ध्यवादवन्द्यविनोदनम् ।
समानकुलशीलत्वाद्द्विधाभाव इव स्थितम्
17
Keep
अनुरक्तान्नृपान्साधून्वदान्यान्कारयत्सदा ।
यज्ञदानतपस्तीर्थन्यायार्थप्रेरणोन्मुखम्
18
Keep
पुत्रदारद्विजातिस्त्रीभृत्यबन्धुजनैः सह ।
शुभभोजनपानार्हमुत्तमश्लाघ्यसंगति
19
Keep
भोगादिबद्धतृष्णत्वं दुःखदं विनिवारयत् ।
सुस्निग्धसंकथोदारं समाश्वासोत्तमास्पदम्
20
Keep
ईदृशेनात्ममित्रेण स कलत्रेण संयुतः ।
स्वकर्मनाम्ना रमते स्वभावेनैव नेरितः
21
Keep
कलत्रमस्य मित्रस्य तदीयस्य मुनीश्वर ।
किं तत्किंरूपमेव स्यात्समासेनेव मे वद
22
Keep
स्नानदानतपोध्याननामानोऽस्य महामते ।
सन्ति पुत्रा महात्मानः स्वनुरक्ताखिलप्रजाः
23
Keep
चन्द्रलेखेव लोकस्य दृष्ट्यैवाह्लाददायिनी ।
अविनाभाविनी भार्या मुदितास्यानुरागिणी
24
Keep
करुणाकारणाकीर्णधना हृदयहारिणी ।
आनन्दजननी चास्य वयस्याऽव्यभिचारिणी
25
Keep
समतास्य मता नित्यमास्ते हृदयवल्लभा ।
प्रतीहारी पुरः प्रह्वा संमुखं सुखदायिनी
26
Keep
धैर्ये धर्मे च धीः साधो नित्यमाधीयते च या ।
सास्य धीरस्य धुर्यस्य पुरो धन्यस्य धावति
27
Keep
अस्य सन्ना समं स्कन्धे सर्वदैव महौजसः ।
विषयारिजये राज्ञो मैत्री मन्त्रप्रदायिनी
28
Keep
कार्याणामार्यमर्यादाचार्या चातुर्यशालिनी ।
सर्वेषामस्य मान्यस्य सत्यता स्वार्थदायिनी
29
Keep
इत्येवंपरिवारेण मित्रेण सह मन्त्रिणा ।
स्वकर्मणा व्यवहरन्न हृष्यति न कुप्यति
30
Keep
स यथास्थितमेवास्ते विनिर्वाणमना मुनिः ।
चित्रार्पित इवाजस्रं लोके व्यवहरन्नपि
31
Keep
वस्तुशून्येषु वादेषु मूकः शैलमयो यथा ।
निष्प्रयोजनशब्देषु परं बाधिर्यमागतः
32
Keep
लोकाचारविरुद्धेषु शवं सकलकर्मसु ।
आर्याचारविचारेषु वासुकिर्वा बृहस्पतिः
33
Keep
प्रवृत्तवाक्पुण्यकथो जिह्मानां प्रतिभानवान् ।
निमेषेणैव निर्णेता वक्ताशु बहु वस्तुनः
34
Keep
समदृष्टिरुदारात्मा वदान्यः संविभागवान् ।
पेशलस्निग्धमधुरः सुन्दरः पुण्यकीर्तनः
35
Keep
स्वभाव एषैव भवेत्प्रबुद्ध-
धियां प्रयत्नेन तु नेदृशास्ते ।
भवन्ति नेन्द्वर्कहुताशनाद्याः
क्वचित्परप्रेरणया प्रकाशाः
Previous
←
Sarga 169
Next
Sarga 171
→