Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 172
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
एवं पृथ्व्यादिरहितः खमेवाद्यः प्रजापतिः ।
मनोमात्रमहं मन्ये संकल्पविटपी यथा
2
Keep
मन इत्यभिधानेन पश्चादास्था प्रकल्पिता ।
वार्यावर्तविवर्तेन प्रोत्थायावर्तता यथा
3
Keep
सत्तामात्रात्मनस्तस्य कुतो बुद्ध्यादयः किल ।
अविद्यमाने पृथ्व्यादौ खस्यानन्तस्य किं रजः
4
Keep
न तस्य देहचित्तादि नेन्द्रियाणि न वासनाः ।
सदप्येतत्सदा तस्य न किंचिदपि विद्यते ।
5
Keep
प्राक्तनस्य प्रजेशस्य मुक्तत्वात्कथमेव च ।
भूयः संभवति प्राज्ञ न स्मृतिर्न च संभवः
6
Keep
न भवत्येव मुक्तानां स्मृतिर्देहोदयः पुनः ।
न देशकालावर्तत्वमावर्तानां सतामिव
7
Keep
यदि वापि भवेत्किंचित्स्मृत्या देहादि तस्य तत् ।
तदपृथ्व्यादिभिः शान्तं संकल्पनगरं तनु
8
Keep
यथा संकल्पशैलस्य दृश्यमानमपि स्फुटम् ।
पृथ्व्यादिरहितं रूपं तद्विराड्वपुषस्तथा
9
Keep
स्मृतिश्च संभवत्येव न कदाचन काचन ।
एषा लौकिकबुद्ध्या या सा सद्बुद्ध्या न विद्यते
10
Keep
कथं न संभवत्येषां स्मृतिः स्मृतिमतां वर ।
स्मृतेश्चासंभवे कस्माद्गुणो गुणगणाकर
11
Keep
दृश्ये हि संभवत्येषा कार्यकारणतात्मनि ।
तद्भावाभावसंपन्ना न तु संभवति स्मृतिः
12
Keep
आब्रह्मस्तम्बपर्यन्तं दृश्यं किंचिन्न विद्यते ।
यत्र तत्र कथं कीदृक् कुतः स्यात्संभवः स्मृतेः
13
Keep
भूत्वा भावे हि दृश्यस्य स्मरणं स्मृतिरुच्यते ।
दृश्यमेव न यत्रास्ति तत्रैताः कलनाः कुतः
14
Keep
अत्यन्ताभाव एवास्य दृश्यस्य किल सर्वदा ।
सर्वं ब्रह्मेति सत्यार्थास्तत्स्मृतेः कलनाः कुतः
15
Keep
स्मृतिर्न संभवत्येव तस्मादाद्या प्रजापतेः ।
आकारवत्त्वमेवास्य शुद्धज्ञानात्मनः कुतः
16
Keep
स्मर्तव्यं भाववशतः स्मृतिर्नास्त्येव लौकिकी ।
स्मृत्यर्थस्त्वन्यदीयोऽस्ति सत्यात्मा त्वमिमं श्रृणु
17
Keep
भूतस्यान्तः पदार्थस्य स्मरणं स्मृतिरुच्यते ।
पदार्थस्तु न चैवास्ति न भूतो न भविष्यति
18
Keep
एवं हि खल्विदं ब्रह्म परमेवाचलं यतः ।
अनादिमध्यपर्यन्तं कुतः स्मृत्यादयस्ततः
19
Keep
सर्वात्मत्वमपदार्थात्म चिद्व्योमकचनं तु यत् ।
व्यवहारेऽप्यलं शान्तं स्मृत्या तच्छब्दितं मया
20
Keep
तदेतत्स्मरणं नाम स्वभावकचनं हि तत् ।
तेनाभ्यस्तोऽथ बाह्यार्थः सादृश्यादवभासते
21
Keep
यद्यत्संवेद्यते किंचित्तत्स्वभावं स्वभावयत् ।
तेनावभासते योऽर्थस्तस्य स्मृत्यभिधा कृता
22
Keep
अविद्यमानं भातीव यथा दृश्यं तथा स्थितिः ।
भातैवाविद्यमानैव मृगतृष्णा यथोद्यता
24
Keep
सर्वात्मनि स्थिताः सत्ये याः कचन्ति सुसंविदः ।
ता एवाभ्यासरूढार्थाः सादृश्यात्स्मृतयः स्मृताः । ।
काकतालीयवद्भान्ति सर्वात्मनि सुसंविदः ।
स्वाङ्गभूताः स्वतः स्वस्थास्ता एव स्मृतयः कृताः
25
Keep
यद्यत्कचति सद्रूपं स्वाङ्गं सर्वात्मनः स्वतः ।
तदभ्यस्तार्थसादृश्यात्स्मृतिरित्युच्यते बुधैः
26
Keep
हेतौ लब्धेऽप्यलब्धे वा पवनस्पन्दवद्विदः ।
ता एवाभ्यासरूढार्थाः सादृश्यात्स्मृतयः कृताः
27
Keep
काकतालीयवद्भान्ति यास्ताः स्मृत्यभिधाः कृताः ।
यथा तवैतेऽवयवाः कचन्ति न कचन्ति च
28
Keep
स्थिता एवात्मनि तथा सर्वाः सर्वात्मिका विदः ।
मिथ्याज्ञानमया यद्वदर्था घटपटादयः
29
Keep
तद्वत्स्मृतिपदार्थस्य किं भ्रमस्य विचार्यते ।
दृश्यस्यासंभवाज्ज्ञस्य स्मृतिर्नास्त्वेव तत्त्वतः
30
Keep
स तथैकघनत्वाच्च चिद्व्योमत्वाज्जगत्स्थितेः ।
यथास्थितमिदं दृश्यमस्त्येवाज्ञस्य संप्रति
31
Keep
न मोक्षोपायकथनं न च जानामि तत्स्थितिम् ।
संदेहादिव जिज्ञासुस्तावन्मोक्षकथोच्यते
32
Keep
यावद्दृश्यं स्मृतिश्चैव संस्मृतिश्चास्य शाम्यति ।
अविद्यायास्तु मौर्ख्यस्य विमोहस्यात्यसंभवात्
33
Keep
अज्ञस्थो निश्चयोऽस्माकं न कदाचन गोचरः ।
यच्च यद्विषये नास्ति तन्नैवानुभवत्यसौ
34
Keep
रजन्यनुभवो भानोर्भवत्यङ्ग कथं वद ।
भातं वस्तुस्वरूपात्म चिन्मात्रे किंचिदेव यत्
35
Keep
तदभ्यस्तार्थसादृश्यात्तत्संस्कार इति स्मृतम् ।
आत्मस्वभावभूतानामपि चिद्व्योमरूपिणाम्
36
Keep
सर्वेषां परिकल्प्यानामाभासेऽप्यनवस्थितेः ।
एवं न संभवत्येव जगत्किंचित्कदाचन
37
Keep
दृष्टं मृगतृषेवाम्बु न तु तत्परमार्थतः ।
यदा त्वयं तदा स्वप्ने सर्गादौ चावभासते
38
Keep
चिद्व्योमैव परं सर्गपर्यायं स्वात्मनि स्थितम् ।
चिद्व्योमैवेत्थमाभातं न च्युतं सत्स्वरूपतः
39
Keep
आत्मनात्मनि रूपं वा सद्रूपमिव संस्थितम् ।
सर्गादावेव कचिते मिथ्या कचदपि स्थितम्
40
Keep
अतः कुतः क्वचिन्नाम हेयादेयादिभासनम् ।
नेदमाकारवत्किंचिन्नापि स्मृत्यात्मकं क्वचित्
41
Keep
कारणाभावतो भाति स्वरूपं परमात्मनः ।
आकारवत्त्वे यद्दुःखं भवेत्स्मृत्यां तदेव च
42
Keep
द्वयमेतदसत्तस्माद्वन्धो नाम न विद्यते ।
चिद्व्योम्नि भूतव्योमाभे शून्य एव यथास्थितम्
43
Keep
स्थितं स्वरूपमजहद्भुवनार्काचलादिकम् ।
यथास्थितोग्रदिक्कालं जगत्त्वं रूपमत्यजत्
44
Keep
स्वमेवात्यजतो रूपं चिद्व्योम्न उदरे स्थितम् ।
स्वानुभूत्येकमात्रात्म प्रमातृस्वाप्नपत्तनम्
45
Keep
अपृथ्व्यादि कुतस्तत्र किल पृथ्व्यादयो वद ।
तद्भाति केवलं शान्तं चिदाकाशं तथात्मनि
46
Keep
सर्वादौ स्वप्नकाले च पृथ्व्यादेः संभवः कुतः ।
उद्भूयेव जगद्रूपाद्ब्रह्मसत्तात्मनात्मनि
47
Keep
करोति पृथ्व्याद्यभिधाः पश्चात्सत्यार्थदा इव ।
न स्मृत्यात्म न साकारं पृथ्व्यादीनामसंभवात् ।
न भ्रान्तिर्न विवर्तादि जगद्ब्रह्मात्म केवलम्
48
Keep
ब्रह्मेदमाकचति चारुजगत्स्वरूपं
तच्चैकमेव कचनाकचनात्मनिष्ठम् ।
दृश्याभमप्यमलमेव नभः प्रशान्तं
नित्योदितं प्रलयसर्गमयोदयात्म
Previous
←
Sarga 171
Next
Sarga 173
→