Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 178
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
पदार्था द्विविधाः सन्ति मूर्तामूर्ता जगत्त्रये ।
यत्र सप्रतिघाः केचित्केचिदप्रतिघा अपि
2
Keep
तानिहाप्रतिघानाहुर्नान्योन्यं वेल्लयन्ति ये ।
तांश्च सप्रतिघानाहुरन्योन्यं वेल्लयन्ति ये
3
Keep
इह सप्रतिघानां तु दृष्टमन्योन्यवेल्लनम् ।
न त्वप्रतिघरूपाणां केषांचिदपि किंचन
4
Keep
तत्र संवेदनं नाम यदिदं चन्द्रमण्डले ।
इतः पतत्यप्रतिघं तत्सर्वेणानुभूयते
5
Keep
अर्धप्रबुद्धसंकल्पविकल्पाद्वैतकल्पितम् ।
वदाम्यभ्युपगम्येदं न तु बोधदशास्थितम्
6
Keep
कः प्राणमारुतः क्षोभं जनयत्याशयस्थितः ।
प्रवेशनिर्गममयं कथं वा वद मे प्रभो
7
Keep
कथमप्रतिघं नाम वेदनं प्रतिघात्मकम् ।
इमं देहं चालयति भारं भारहरो यथा
8
Keep
यदि सप्रतिघं वस्तु वेल्लत्यप्रतिघात्मकम् ।
कथं संवित्तिमात्रेण पुंसः शैलो न वल्गति
9
Keep
विकासमथ संकोचमत्र नाली हृदि स्थिता ।
यदा याति तदा प्राणश्छेदैरायाति याति च
10
Keep
बाह्योपस्करभस्त्रायां यथाकाशास्पदात्मकः ।
वायुर्यात्यपि चायाति तथात्र स्पन्दनं हृदि
11
Keep
बहिर्भस्त्रामयस्कारः संकोचनविकासनैः ।
योजयत्यान्तरं नाडीं कश्चालयति चालकः
12
Keep
शतं कथं भवेदेकं कथमेकं शतं भवेत् ।
कथं स चेतना एते काष्ठलोष्टोपलादयः
13
Keep
कस्मान्न स्थावरं वस्तु प्रस्पन्द्यपि चमत्कृतम् ।
वस्तु जङ्गममेवेह स्पन्दि मात्रेव किं वद
14
Keep
अन्तःसंवेदनं नाम चालयत्यान्त्रवेष्टनम् ।
बहिर्भस्त्रामयस्कार इव लोकेऽनुचेष्टनम्
15
Keep
वाय्वन्त्रादिशरीरस्थं सर्वं सप्रतिघं मुने ।
कथमप्रतिघा संविच्चालयेदिति मे वद
16
Keep
संविदप्रतिघाकारा यदि सप्रतिघात्मकम् ।
चालयेदचलिष्यत्तद्दूरमम्भो यदिच्छया
17
Keep
सप्रतिघाप्रतिघयोर्मिथो यदि पदार्थयोः ।
वेल्लनं स्यात्तदिच्छैव कर्तृकर्मेन्द्रियैः क्व किम्
18
Keep
सप्रतिघाप्रतिघयोः श्लेषो नास्ति बहिर्यथा ।
तथैवान्तरहं मन्ये शेषं कथय मे मुने
19
Keep
अन्तः स्वयं योगिना वा यथैतदनुभूयते ।
अमूर्तस्यैव मूर्तेन वेल्लनं तद्वदाशु मे
20
Keep
सर्वसंदेहवृक्षाणां मूलकाषमिदं वचः ।
सर्वैकतानुभूत्यर्थं श्रृणु श्रवणभूषणम्
21
Keep
नेह किंचिन्न नामास्ति वस्तु सप्रतिघं क्वचित् ।
सर्वदा सर्वमेवेदं शान्तमप्रतिघं ततम्
22
Keep
शुद्धं संविन्मयं सर्वं शान्तमप्रतिघात्मकम् ।
पदार्थजातं पृथ्व्यादि स्वप्नसंकल्पयोरिव
23
Keep
आदावन्ते च नास्तीदं कारणाभावतोऽखिलम् ।
भ्रान्त्यात्मा वर्तमानापि भाति चित्स्वप्नगा यथा
24
Keep
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
महता कारणौघेन बोधमप्रतिघं विदुः
25
Keep
अन्तःकरणभूतादि मृत्काष्ठदृषदादि वा ।
सर्वं शून्यमशून्यं च चेतनं विद्धि नेतरत्
26
Keep
तत्रैवमैन्दवाख्यानं श्रृणु श्रवणभूषणम् ।
मया च पूर्वमुक्तं तत्किंचान्यदभिवर्ण्यते
27
Keep
तथापि वर्तमानोक्तप्रश्नबोधाय तच्छृणु ।
यथेदं सर्वमन्द्यादि चिदित्येव तु भोत्स्यते
28
Keep
कस्मिंश्चित्प्राक्तनेनैव जगज्जालेऽभवद्द्विजः ।
तपोवेदक्रियाधारो ब्रह्मन्निन्दुरिति स्मृतः
29
Keep
दश तस्याभवन्पुत्रा जगतो दिक्तटा इव ।
महाशया महात्मानो महतामास्पदं सताम्
30
Keep
स तेषां कालवशतः पिताऽन्तर्धिमुपाययौ ।
दशानां भगवान् रुद्र एकादश इव क्षये
31
Keep
तस्यानुगमनं चक्रे भार्या वैधव्यभीतिभिः ।
अनुरक्ता दिनस्येव संध्या ताराविलोचना
32
Keep
तयोस्ते तनया दुःखकलिता विपिनं गताः ।
कृतौर्ध्वदेहिकास्त्यक्त्वा व्यवहारं समाधये
33
Keep
धारणानां समस्तानां का स्यादुत्तमसिद्धिदा ।
धारणा यन्मयाः सन्तः स्याम सर्वेश्वरा वयम्
34
Keep
इति ते तत्र संचिन्त्य बद्धपद्मासना दश ।
इदं संचिन्तयामासुर्निर्विघ्ने कन्दरोदरे
35
Keep
पद्मजाधिष्ठिताशेषजगद्धारणया स्थिताः ।
भवामः पद्मजोपेतं जगद्रूपमविघ्नतः
36
Keep
इति संचिन्त्य सब्रह्मजगद्धारणया चिरम् ।
निमीलितदृशस्तस्थुस्ते चित्ररचिता इव
37
Keep
अथैतद्धारणाबद्धचित्तास्ते तावदच्युताः ।
आसन्मासान्दशाष्टौ च यावत्ते तत्र देहकाः
38
Keep
शुष्काः कंकालतां याताः क्रव्यादैश्चर्विताङ्गकाः ।
नाशमभ्याययुस्तत्र च्छायाभागा इवातपैः
39
Keep
अहं ब्रह्मा जगच्चेदं सर्गोऽयं भुवनान्वितः ।
इति संपश्यतां तेषां दीर्घकालोऽभ्यवर्तत
40
Keep
तानि चित्तान्यदेहानि दशैकध्यानतस्ततः ।
संपन्नानि जगन्त्येव दश देहानि वै पृथक्
41
Keep
इति तेषां चिदिच्छा सा संपन्ना सकलं जगत् ।
अत्यन्तस्वच्छरूपैव स्थिता चाकारवर्जिता
42
Keep
संविन्मयत्वाज्जगतां तेषां भूम्यचलादि तत् ।
सर्वं चिदात्मकं विद्धि नौ चेदन्यत्किमुच्यताम्
43
Keep
किल यत्र्त्रिजगज्जालं तेषां किमात्म तत्तथा ।
संविदाकाशशून्यत्वमात्रमेवेतरन्न तत्
44
Keep
विद्यते न यथा किंचित्तरङ्गः सलिलादृते ।
संवित्तत्त्वादृते तद्वद्विद्यते चलनादिकम्
45
Keep
ऐन्दवानि यथैतानि चिन्मयानि जगन्ति खे ।
तथा चिन्मयमेतेषु काष्ठलोष्टोपलाद्यपि
46
Keep
यथैवैन्दवसंकल्पास्ते जगत्त्वमुपागताः ।
तथैवाब्जजसंकल्पो जगत्त्वमयमागतः
47
Keep
तस्मादिहेमे गिरयो वसुधा पादपा घनाः ।
महाभूतानि सर्वं च चिन्मात्रमयमाततम्
48
Keep
चिद्वृक्षाश्चिन्मही चिद्द्यौश्चिदाकाशं चिदद्रयः ।
नाचित्क्वचित्संभवति तेष्वैन्दवजगत्स्विव
49
Keep
चिन्मात्रखकुलालेन स्वदेहचलचक्रके ।
स्वशरीरमृदा सर्गः कुतोयं क्रियतेऽनिशम्
50
Keep
संकल्पनिर्मिते सर्गे दृषदश्चेन्न चेतनाः ।
तदत्र लोष्टशैलादि किमेतदिति कथ्यताम्
51
Keep
कलनस्मृतिसंस्कारा दधत्यर्थं च नोदरे ।
प्राडवृष्टं कल्पनादीनामन्यैवार्थकुलावताम्
52
Keep
तद्धाम संविदो धाम्नि मणिराशौ मणिर्यथा ।
सर्वात्मनि तथा चित्ते कश्चिदर्थ उदेत्यलम्
53
Keep
अकार्यकरणस्यार्थो न भिन्नो ब्रह्मणः क्वचित् ।
स्वभाव इति तेनेदं सर्वं ब्रह्मेति निश्चयः
54
Keep
यथा प्रवृत्तं चिद्वारि वहत्यावर्ततेऽवनौ ।
स्वयत्नेनातितीव्रेण परात्मीयात्मना विना
55
Keep
पद्मलीला जगदिव प्रकचन्ति जगन्ति यत् ।
चिन्मात्राद्ब्रह्मणः स्वस्मादन्यानि न मनागपि
56
Keep
अजातमनिरुद्धं च सन्मात्रं ब्रह्म खात्मकम् ।
शान्तं सदसतोर्मध्यं चिद्भामात्रमिदं जगत्
57
Keep
यत्संविन्मयमद्व्यादि संकल्पजगति स्थितम् ।
तदसंविन्मयमिति वक्ताऽज्ञो ज्ञैर्विहस्यते
58
Keep
जगन्त्यात्मेव संकल्पमयान्येतानि वेत्ति खे ।
खात्मकानि तथेदं च ब्रह्म संकल्पजं जगत्
59
Keep
यावद्यावदियं दृष्टिः शीघ्रं शीघ्रं विलोक्यते ।
तावत्तावदिदं दुःखं शीघ्रं शीघ्रं विलीयते
60
Keep
यावद्यावदियं दृष्टिः प्रेक्ष्यते न चिराच्चिता ।
तावत्तावदिदं दुःखं भवेत्प्रतिघनं घनम्
61
Keep
दीर्घदुष्कृतमूढानामिमां दृष्टिमपश्यताम् ।
संसृतिर्वज्रसारेयं न कदाचित्प्रशाम्यति
62
Keep
नेहाकृतिर्न च भवाभवजन्मनाशाः
सत्ता न चैव न च नाम तथास्त्यसत्ता ।
शान्तं परं कचति केवलमात्मनीत्थं
ब्रह्माथवा कचनमप्यलमत्र नास्ति
63
Keep
आद्यन्तवर्जितमलभ्यलताग्रमूल-
निर्माणमूलपरिवेशमशेषमच्छम् ।
अन्तस्थनिर्गगनसर्गकपुत्रकौघं
नित्ये स्थितं ननु घनं गतजन्मनाशम्
64
Keep
सन्मात्रमन्तरहिताखिलहस्तजातं
पर्यन्तहीनगणनाङ्गममुक्तरूपम् ।
आत्माम्बरात्मकमहं त्विदमेव सर्वं
सुस्तम्भरूपमजमौनमलं विकल्पैः
Previous
←
Sarga 177
Next
Sarga 179
→