Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 180
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
श्रीराम उवाच । ।
इमं मे संशयं छिन्धि भगवन्भास्करं तमः ।
भुवनस्येव भावानां सम्यग्रूपानुभूतये
2
Keep
कदाचिदहमेकाग्रो विद्यागेहे विपश्चिताम् ।
संसदि स्थितवान्यावत्तापसः कश्चिदागतः
3
Keep
विद्वान्द्विजवरः श्रीमान्विदेहजनमण्डलात् ।
महातपाः कान्तियुतो दुर्वासा इव दुःसहः
4
Keep
स प्रविश्याभिवाद्याशु सभामाभास्वरद्युतिम् ।
उपविश्यासने तिष्ठन्नस्माभिरभिवादितः
5
Keep
वेदान्तसांख्यसिद्धान्तवादान्संहृत्य सत्तमम् ।
सुखोपविष्टं विश्रान्तं तमहं पृष्टवानिदम्
6
Keep
दीर्घाध्वना परिश्रान्तः सयत्न इव लक्ष्यसे ।
वदाद्य वदतां श्रेष्ठ कुत आगमनं कृतम्
7
Keep
एवमेतन्महाभाग सुमहायत्नवानहम् ।
यदर्थमागतोऽस्मीह तस्याकर्णय निर्णयम्
8
Keep
वैदेहो नाम देशोऽस्ति सर्वसौभाग्यसंयुतः ।
स्वर्गस्याम्बरसंस्थस्य प्रतिबिम्वमिवावनौ
9
Keep
तत्राहं ब्राह्मणो जातः प्राप्तविद्यश्च संस्थितः ।
कुन्दावदातदन्तत्वात्कुन्ददन्त इति श्रुतः
10
Keep
अथाहं जातवैराग्यः प्रविहर्तुं प्रवृत्तवान् ।
देवद्विजमुनीन्द्राणां संभ्रमाच्छ्रमशान्तये
11
Keep
श्रीपर्वतमखण्डेहं कदाचित्प्राप्तवानहम् ।
तत्रावसं चिरं कालं मृदु दीर्घं तपश्चरन्
12
Keep
तत्रास्त्यरण्यं विदितं मुक्तं तृणवनादिभिः ।
त्यक्ततेजस्तमोभ्रादिभूमाविव नभस्तलम्
13
Keep
तत्रास्ति मध्ये विटपी लघुः पेलवपल्लवः ।
स्थित एषोऽम्बरे शून्ये मन्दरश्मिरिवांशुमान्
14
Keep
लम्बते तस्य शाखायां पुरुषः पावनाकृतिः ।
भानुर्भानाविव रश्मिगृहीतो ग्रथिताकृतिः
15
Keep
मौञ्जदामनिबद्धोर्ध्वपादो नित्यमवाक्शिराः ।
अष्ठीलत्वं दधदिव महाष्ठीलस्य शाल्मलेः
16
Keep
दृष्टः प्राप्तेन तं देशं स कदाचिन्मया पुमान् ।
विचारितो निकटतो वक्षःस्थाञ्जलिसंपुटः
17
Keep
यावज्जीवत्यसौ विप्रो निःश्वसित्यहताकृतिः ।
शीतवातातपस्पर्शान्सर्वान्वेत्ति च कालजान्
18
Keep
अनन्तरमसावेको नोपचर्य मया बहून् ।
दिवसातपखेदेन विश्रम्भे पातितः शनैः
19
Keep
पृष्टश्च कोऽसि भगवन्किमर्थं दारुणं तपः ।
करोषीदं विशालाक्ष लक्ष्यालक्ष्यात्मजीवितः
20
Keep
अथ तेनोक्तमर्थस्ते क इवानेन तापस ।
अर्थे नातिविचित्रा हि भवन्तीच्छाः शरीरिणाम्
21
Keep
इत्युक्तवान्प्रयत्नेन सोऽनुबन्धेन वै मया ।
यदा पृष्टस्तदा तेन ममोक्तमिदमुत्तरम्
22
Keep
मथुरायामहं जातो वृद्धिं यातः पितुगृहे ।
बाल्ययौवनयोर्मध्ये स्थितः पदपदार्थवित्
23
Keep
समग्रसुखसंभारकोशो भवति भूमिपः ।
इत्यहं श्रुतवांस्तत्र भोगार्थी नवयौवनः
24
Keep
अथ सप्तमहाद्वीपविस्तीर्णाया भुवः पतिः ।
स्यामित्यहमुदारात्मा परिबिम्बितवांश्चिरम्
25
Keep
इत्यर्थेन समागत्य देशमित्थमहं स्थितः ।
अत्र द्वादश वर्षाणि समतीतानि मानद
26
Keep
तदकारणमित्र त्वं गच्छेष्टं देशमाशुगः ।
अहं चाभिमतप्राप्तेरित्थमेव दृढस्थितिः
27
Keep
इति तेनाऽहमुक्तः संस्तमित्थं प्रोक्तवाञ्छृणु ।
आश्चर्यश्रवणे चेतः खेदमेति न धीमतः
28
Keep
साधो यावत्त्वया प्राप्तो न नामाभिमतो वरः ।
त्वद्रक्षापरिचर्यार्थमिह तावदहं स्थितः
29
Keep
मयेत्युक्ते स पाषाणमौनवानभवच्छमी ।
निमीलितेक्षणः क्षीणरूपस्त्वकलनो बहिः
30
Keep
तथाहं पुरतस्तस्य काष्ठमौनवतोऽवसम् ।
षण्मासान्विगतोद्वेगं वेगान्कालकृतान्सहन्
31
Keep
अर्कबिम्बाद्विनिष्कम्य तत्प्रदेशान्तरे स्थितम् ।
एकदा दृष्टवानस्मि पुरुषं भानुभास्वरम्
32
Keep
स तेन पूज्यते यावन्मनसा कर्मणा मया ।
उवाच तावद्वचनममृतस्यन्दसुन्दरम्
33
Keep
शाखाप्रलम्बनपर हे ब्रह्मन्दीर्घतापस ।
तपः संहर संहारि गृहाणाभिमतं वरम्
34
Keep
सप्ताब्धिद्वीपवलया पालयिष्यसि मेदिनीम् ।
सप्तवर्षसहस्राणि देहेनानेन धर्मतः
35
Keep
एवं समीहितं दत्त्वा स द्वितीयो दिवाकरः ।
गन्तुमस्तमथार्काब्धिमविशत्प्रोदितो यतः
36
Keep
तस्मिन्याते मया प्रोक्तं तस्य शाखातपस्विनः ।
श्रुतदृष्टानुभूताग्र्यवरदस्य विवेकिनः
37
Keep
संप्राप्ताभिमतं ब्रह्मंस्तरुशाखावलम्बनम् ।
तपस्त्यक्त्वा यथाप्राप्तं व्यवहारं समाचर
38
Keep
एवमङ्गीकृतवतः पादौ तस्य मया ततः ।
मुक्तौ विटपिनस्तस्मादालानात्कालभाविव
39
Keep
स्नातः पवित्रहस्तोऽसौ चक्रे जप्त्वाघमर्षणम् ।
फलेन पुण्यलब्धेन विटपाद्व्रतपारणम्
40
Keep
तत्पुण्यवशतः प्राप्तैः स्वादुभिस्तैस्तरोः फलैः ।
समाश्वस्तावसंक्षुब्धावावां तत्र दिनत्रयम्
Previous
←
Sarga 179
Next
Sarga 181
→