Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 185
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
जरन्मुनिरपीत्युक्त्वा ध्यानमीलितलोचनः ।
आसीदस्पन्दितप्राणमनाश्चित्र इवार्पितः
2
Keep
आवाभ्यां प्रणयोदारैः प्रार्थितोऽपि पुनःपुनः ।
वाक्यैः संसारमविदन्न वचो दत्तवान्पुनः
3
Keep
आवां प्रदेशतस्तस्माच्चलित्वा मन्दमुत्सुकौ ।
दिनैः कतिपयैः प्राप्तौ गृहं मुदितबान्धवम्
4
Keep
अथ तत्रोत्सवं कृत्वा कथाः प्रोच्य चिरंतनीः ।
स्थितास्तावद्वयं यावत्सप्तापि भ्रातरोऽथ ते
5
Keep
क्रमेण विलयं प्राप्ताः प्रलयेष्वर्णवा इव ।
मुक्तोऽसौ मे सखैवैक एकार्णव इवाष्टकः
6
Keep
ततः कालेन सोऽप्यस्तं दिनान्तेऽर्क इवागतः ।
अहं दुःखपरीतात्मा परं वैधुर्यमागतः
7
Keep
ततोऽहं दुःखितो भूयः कदम्बतरुतापसम् ।
गतो दुःखोपघाताय तज्ज्ञानं प्रष्टुमादृतः
8
Keep
तत्र मासत्रयेणासौ समाधिविरतोऽभवत् ।
प्रणतेन मया पृष्टः सन्निदं प्रोक्तवानथ
9
Keep
अहं समाधिविरतः स्थातुं शक्नोमि न क्षणम् ।
समाधिमेव प्रविशाम्यहमाशु कृतत्वरः
10
Keep
परमार्थोपदेशस्ते नाभ्यासेन विनानघ ।
लगत्यत्र परां युक्तिमिमां शृणु ततः कुरु
11
Keep
अयोध्यानाम पूरस्ति तत्रास्ति वसुधाधिपः ।
नाम्ना दशरथस्तस्य पुत्रो राम इति श्रुतः
12
Keep
सकाशं तत्र गच्छ त्वं तस्मै कुलगुरुः किल ।
वसिष्ठाख्यो मुनिश्रेष्ठः कथयिष्यति संसदि
13
Keep
मोक्षोपायकथां दिव्यां तां श्रुत्वा सुचिरं द्विज ।
विश्रान्तिमेष्यसि परे पदेऽहमिव पावने
14
Keep
इत्युक्त्वा स समाधानरसायनमहार्णवम् ।
विवेशाहमिमं देशं त्वत्सकाशमुपागतः
15
Keep
एषोऽहमेतद्वृत्तं मे सर्वं कथितवानहम् ।
यथावृत्तं यथादृष्टं यथाश्रुतमखण्डितम्
16
Keep
स कुन्ददन्त इत्यादिकथाकथनकोविदः ।
स्थितस्ततःप्रभृत्येव मत्समीपगतः सदा
17
Keep
स एष कुन्ददन्ताख्यो द्विजः पार्श्वे समास्थितः ।
श्रुतवान्सहितामेतां मोक्षोपायाभिधामिह
18
Keep
स एष कुन्ददन्ताख्यो मम पार्श्वगतो द्विज ।
अद्य निःसंशयो जातो न वेति परिपृच्छ्यताम्
19
Keep
श्रीवाल्मीकिरुवाच ।
इत्युक्ते राघवेणाथ प्रोवाच वदतांवरः ।
स वसिष्ठो मुनिश्रेष्ठः कुन्ददन्तं विलोकयन्
20
Keep
कुन्ददन्त द्विजवर कथ्यतां किं त्वयानघ ।
बुद्धं श्रुतवता ज्ञेयं मदुक्तं मोक्षदं परम्
21
Keep
सर्वसंशयविच्छेदि चेत एव जयाय मे ।
सर्वसंशयविच्छेदो ज्ञातं ज्ञेयमखण्डितम्
22
Keep
ज्ञातं ज्ञातव्यममलं दृष्टं द्रष्टव्यमक्षतम् ।
प्राप्तं प्राप्तव्यमखिलं विश्रान्तोऽस्मि परे पदे
23
Keep
बुद्धेयं त्वदिदं सर्वं परमार्थधनं घनम् ।
अनन्येनात्मनो व्योम्नि जगद्रूपेण जृम्भितम्
24
Keep
सर्वात्मकतया सर्वरूपिणः सर्वगात्मनः ।
सर्वं सर्वेण सर्वत्र सर्वदा संभवत्यलम्
25
Keep
संभवन्ति जगन्त्यन्तः सिद्धार्थकणकोटरे ।
न संभवन्ति च यथा ज्ञातमेतदशेषतः
26
Keep
गृहेऽन्तः संभवत्येव सप्तद्वीपा वसुंधरा ।
गेहं च शून्यमेवास्ते सत्यमेतदसंशयम्
27
Keep
यद्यद्यदा वस्तु यथोदितात्म भातीह भूतैरनुभूयते च ।
तत्तत्तदा सर्वघनस्तथास्ते ब्रह्मेत्थमाद्यन्तविमुक्तमस्ति
Previous
←
Sarga 184
Next
Sarga 186
→