Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 188
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
आदिमत्त्वमिदं प्रोक्तमेतस्य कलनस्य यत् ।
परस्मादद्वितीयं तत्त्वद्बोधाय न वास्तवम्
2
Keep
एवंविधं तत्कलनमात्मनोऽङ्गमकृत्रिमम् ।
चेत्योन्मुखचिदाभासं जीवशब्देन कथ्यते
3
Keep
कलनस्यास्य नामानि बहूनि रघुनन्दन ।
श्रृणु तानि विचित्राणि चेत्योन्मुखचिदात्मनः
4
Keep
जीवनाच्चेतनाज्जीवो जीव इत्येव कथ्यते ।
चेत्योन्मुखतया चित्तं चिदित्येव निगद्यते
5
Keep
इदमित्थमिति स्पष्टबोधाद्बुद्धिरिहोच्यते ।
कल्पनान्मननज्ञत्वान्मन इत्यभिधीयते
6
Keep
अस्मीति प्रत्ययादन्तरहंकारश्च कथ्यते ।
चेतनाढ्यमृतं चित्तमिति शास्त्रविचारिभिः
7
Keep
प्रौढसंकल्पजालात्स पुर्यष्टकमिति स्मृतम् ।
संसृतेः प्रकृतत्वेन प्राथम्यात्प्रकृतिः स्मृता
8
Keep
बोधादविद्यमानत्वादविद्येत्युच्यते बुधैः ।
इत्यादिकलनस्यास्य नामानि कथितानि ते
9
Keep
एतत्कलनमाद्यन्तमनाकारमनामयम् ।
आतिवाहिकदेहोक्त्या समुदाह्रियते बुधैः
10
Keep
इत्येवं स्वप्नसंकल्पपुरवत्त्रिजगद्भ्रमः ।
भात्यर्थकार्यप्यवपुः शून्यमप्रतिघात्मकम्
11
Keep
इत्यातिवाहिकः प्रोक्तो देहो देहभृतां वर ।
चिन्नभश्चित्तदेहोऽसौ शून्य आकाशतोपि च
12
Keep
नास्तमेति न चोदेति जगत्यामोक्षसंविदः ।
चतुर्दशविधस्यैका भूतसर्गस्य चित्तभूः
13
Keep
अत्र संसारलक्षाणि भविष्यन्ति भवन्ति च ।
भूतानि च फलानीव यथा कालव्यवस्थया
14
Keep
एष चित्तमयो देहो जगन्त्यन्तर्बहिस्त्वपि ।
प्रतिबिम्बमिवादर्शः शून्य एव नभो यथा
15
Keep
महाकल्पस्य पर्यन्ते सर्वनाशे स्थिरे स्थिते ।
महाशून्यपदे प्रौढे ब्रह्मात्मनि निरामये
16
Keep
स्वतश्चितिघनोऽचित्त्वाच्चिद्भानमिदमात्मनः ।
आतिवाहिकदेहाभं क्रमेणानेन चेतति
17
Keep
स आतिवाहिको देहस्तदालोकप्रवर्तितः ।
कैश्चिद्ब्रह्मेति कथितः स्मृतः कैश्चिद्विराडिति
18
Keep
कश्चित्सनातनाभिख्यः कश्चिन्नारायणाभिधः ।
कश्चिदीश इति ख्यातः कश्चिदुक्तः प्रजापतिः
19
Keep
काकतालीयवद्भाताः पञ्च स्वेन्द्रियसंविदः ।
यत्र यत्र यथा तेषां स्थितास्तत्र तथा स्थिताः
20
Keep
एवमत्यन्तवितते संपन्ने दृश्यविभ्रमे ।
न किंचिदपि संपन्नं सर्वशून्यं ततं यतः
21
Keep
अनादिमत्परं ब्रह्म न सद्यन्नासदुच्यते ।
तदेवेदमनाद्यन्तं तथास्थितमवेदनम्
22
Keep
आतिवाहिकदेहस्य तस्यानुभवतः स्वयम् ।
याति व्यसनिनः स्वप्नः कान्तेव परिपुष्टताम्
23
Keep
शून्योऽप्यनाकृतिरपि घटाकारोऽनुभूयते ।
स्वप्नसंकल्पयोः स्वस्य देहस्य जगतो यथा
24
Keep
भवत्यर्थकरोऽत्युच्चैस्तच्चित्खस्वप्नवस्तुवत् ।
आकाशात्मक एवोग्रः पदार्थ इव भासते
25
Keep
आतिवाहिकदेहोऽसौ स्वतोऽनुभवति क्रमात् ।
अनाकारोपि शून्योपि स्वप्नाभोऽसन्नपि स्थितः
26
Keep
चेतत्यस्थिगणः स्थूलं कराद्यवयवावलिम् ।
त्रिकलोमशिरास्नायुसंनिवेशतया स्थितम्
27
Keep
जन्मकर्मेहितस्थानं परिणामवयःस्थितम् ।
देशकालक्रमाभोगभावार्थायोद्भवभ्रमम्
28
Keep
जरामरणमाधानदशदिङ्मण्डलक्रमम् ।
ज्ञानज्ञेयज्ञातृभावमादिमध्यान्तवेदनम्
29
Keep
क्षितिजलगगनदिवाकर-
जनताव्यवहारनगरशिखरात्मा ।
स्वाधाराधेयमयं
पश्यति वपुषः पुरातनः पुरुषः
Previous
←
Sarga 187
Next
Sarga 189
→