Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 193
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ।
यत्पदं तदिदं भाति क्व जगत्क्व च दृश्यता
2
Keep
द्वैताद्वैतसमुद्भेदवाक्यसंदेहविभ्रमैः ।
अलमस्माकमाशान्तमाद्यं रूपमनामयम्
3
Keep
व्योमनि व्योमभावानां प्रशान्तं यादृगासितम् ।
तादृक्चिद्व्योमनि स्फारत्रिजगद्व्योमभासनम्
4
Keep
यथा व्योमनि व्योमत्वं दृषत्त्वं दृषदि स्थितम् ।
जलत्वं च जलस्यान्तर्जगत्त्वं चिद्धने तथा
5
Keep
साहंतादिजगद्दृश्यमाशाकाशविसार्यपि ।
महाचिदुदरं विद्धि खं शान्तं शून्यतोदितम्
6
Keep
जीवस्यास्मिन्विमूढस्य परेऽपरिमितोदये ।
प्रस्फुरंश्चापि संसारपिशाच उपशाम्यति
7
Keep
भेदोपलब्धिर्गलति व्यवहारवतोऽप्यलम् ।
जडस्येवाजडस्यैव वीचेरिव जलोदरे
8
Keep
क्वाप्यज्ञानरवौ याते प्रतापाद्याकरे भृशम् ।
संसारसत्तादिवसो यात्यस्तं स निशागमः
9
Keep
भावाभावेषु कार्येषु जरामरणजन्मसु ।
ज्ञ आजवं जवीभावे तिष्ठन्नपि न तिष्ठति
10
Keep
नाविद्यास्ति ह न भ्रान्तिर्न दुःखं न सुखोदयः ।
विद्याऽविद्या सुखं दुःखमिति ब्रह्मैव निर्मलम्
11
Keep
परिज्ञातं सदेतत्तु यावद्ब्रह्मैव निर्मलम् ।
अपरिज्ञातमस्माकमब्रह्मात्म न विद्यते
12
Keep
प्रबुद्धोऽस्मि प्रशान्ता मे सर्वा एव कुदृष्टयः ।
शान्तं समं सोहमिदं खं पश्यामि जगत्त्रयम्
13
Keep
सम्यग्ज्ञातं यावदिदं जगद्ब्रह्मैव केवलम् ।
अज्ञातात्माभवद्ब्रह्म ज्ञातात्मन्यधुना स्थितम्
14
Keep
ज्ञाताज्ञातमनिर्भासं ब्रह्मैकमजरं तथा ।
शून्यत्वैकत्वनीलत्वरूपमेकं नभो यथा
15
Keep
निर्वाणमासे गतशङ्कमासे
निरीहमासे सुसुखेऽहमासे ।
यथास्थितं नित्यमनन्तमासे
तदेवमासे न कथं समासे
16
Keep
सर्वं सदैवाहमनन्तमेकं
न किंचिदेवाप्यथवातिशान्तः ।
सर्वं न किंचिच्च सदेकमस्मि
न चास्मि चेतीयमहो नु शान्तिः
17
Keep
अधिगतमधिगम्यं प्राप्तमप्राप्तमन्यै-
गतमिदमलमस्तं वस्तुजातं समस्तम् ।
उदितमुदितबोधं तादृशं यत्र भूयो-
ऽस्तमयसमुदयानां नाम नामापि नास्ति
Previous
←
Sarga 192
Next
Sarga 194
→