Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 2
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अद्वैतैक्यं विमननं शान्तमात्मन्यवस्थितम् ।
यथा पङ्कमयं सैन्यं तथा शिवमयं जगत्
2
Keep
मनोहंकारबुद्ध्यादिचित्तमेव च तन्मयम् ।
कालाकारक्रियाशब्दशक्तिसंदर्भसंयुतम्
3
Keep
शिवपङ्कमया एव रूपालोकमनःक्रमाः ।
तन्मयत्वादनन्तत्वादतः किं केन चेत्यते
4
Keep
मातृमेयप्रमाणादिदेशकालौ दिगादि च ।
भावाभावविवर्तादिशिवपङ्कमयात्मकम्
5
Keep
अहंममेत्यतः सारान्नेतरत्परमेश्वरात् ।
असंसक्तमतिस्तिष्ठ हा शिलोदरमौनवत्
6
Keep
अहंममेत्यसद्रूपं ज्ञस्याभावयतः प्रभो ।
अशुभं कर्मणां त्यागादनुष्ठानाच्च किं शुभम्
7
Keep
पृच्छामि यदहं तत्त्वं कथयाशु ममानघ ।
यदि जानासि तत्त्वेन कर्म तावत्किमुच्यते
8
Keep
विस्तारः कर्मणः कीदृङ् मूलं तस्य च किं भवेत् ।
नाशनीयं च निपुणं कथं कथय नाश्यते
9
Keep
यन्नाशनीयं निपुणं तन्नूनं च विनाश्यते ।
मूलकाषेण भगवन्न शाखादिविकर्तनैः
10
Keep
शुभाशुभं नाशनीयं स्वकर्म खलु धीमता ।
मूलकाषविनाशेन तच्च नष्टं भवत्यलम्
11
Keep
कर्मवृक्षस्य वक्ष्यामि ब्रह्मन्मूलानि मे श्रृणु ।
यन्निकाषेण निर्मूलो न स भूयः प्ररोहति
12
Keep
देहस्तावदयं ब्रह्मन्कर्मवृक्षः समुत्थितः ।
रूढः संसारविपिने विचित्राङ्गलताञ्चितः
13
Keep
कर्मबीजं तरोरस्य सुखदुःखफलावलेः ।
क्षणतारुण्यकान्तस्य जराकुसुमहासिनः
14
Keep
मुहूर्तं प्रति कालोग्रमर्कटध्वंसिताकृतेः ।
निद्राहेमन्तजठरलीनस्वप्नदलोद्गतेः
15
Keep
स्ववार्धकशरच्छान्तशीर्णेहापर्णसंततेः ।
जगज्जंगलजातस्य कलत्रोपतृणावलेः
16
Keep
पल्लवावयवा हस्तपादपृष्ठादयोऽरुणाः ।
पत्राणि तनुवृत्तानि सुरेखाणि चलानि च
17
Keep
अरुणाः पवनालोला मृद्व्यो मसृणमूर्तयः ।
स्नाय्वस्थिदिग्धसरसा अङ्गुल्यो बालपल्लवाः
18
Keep
मृद्व्यो मसृणतीक्ष्णाग्रा वृत्ता रूढाः पुनःपुनः ।
द्वितीयेन्दुकलाकाराः कलिका नखपङ्क्तयः
19
Keep
कर्मणः परिफुल्लस्य देहरूपतयेति हि ।
कर्मेन्द्रियाणि मूलानि दुष्टानि ग्रन्थिमन्ति च
20
Keep
स्थिरास्थिग्रन्थिनद्धानि पङ्कमग्नात्मकानि च ।
वासनारसपीतानि निजरक्तरसानि च
21
Keep
गुल्फवन्ति दृढाङ्गानि सुत्वञ्चि मसृणानि च ।
तेषामपि च मूलानि विद्धि बुद्धीन्द्रियाणि हि
22
Keep
सुदूरमपि जातानि पञ्चस्तम्बानि तानि तु ।
वासनापङ्कमग्नानि रसवन्ति महान्ति च
23
Keep
तेषां मूलं बृहत्स्तम्भं मनो व्याप्तजगत्त्रयम् ।
पञ्चस्रोतःशिराकृष्टमुक्तानन्तरसद्रवम्
24
Keep
तस्य मूलं विदुर्जीवं चेत्योन्मुखचिदात्मकम् ।
चेत्यस्य चेतनं मूलं सर्वमूलैककारणम्
25
Keep
चितेस्तु ब्रह्म मूलं यत्तस्य मूलं न विद्यते ।
अनाख्यत्वादनन्तत्वाच्छुद्धत्वात्सत्यरूपिणः
26
Keep
सर्वेषां कर्मणामेवं वेदनं बीजमुत्तमम् ।
स्वरूपं चेतयित्वान्तस्ततः स्पन्दः प्रवर्तते
27
Keep
मुने चेतनमेवाद्यं कर्मणां बीजमुच्यते ।
तस्मिन्सति महाशाखो जायते देहशाल्मलिः
28
Keep
एतच्चेतनशब्दार्थभावनावलितं यदि ।
तत्कर्म बीजतामेति नो चेत्सत्परमं पदम्
29
Keep
चितिश्चेतनशब्दार्थभावनावलिता यदि ।
तत्कर्म बीजतामेति नो चेदाद्यं परं पदम्
30
Keep
तस्माद्वेदनमेवेह कर्म कारणमाकृतेः ।
यदेतत्कर्मणां प्रोक्तं त्वयैवोक्तं मुनीश्वर
31
Keep
अस्य राघव सूक्ष्मस्य कर्मणो वेदनात्मनः ।
कस्त्यागः किमनुष्ठानं यावद्देहमिति स्थितम्
32
Keep
यच्चेत्यते नु तेनाशु बहिरन्तश्च भूयते ।
सत्याकारमसत्यं वा भवत्वाहितविभ्रमम्
33
Keep
न चेत्यते चेत्तदलं भ्रमादस्माद्विमुच्यते ।
भ्रमः सत्योऽस्त्वसत्यो वा किं विचारणयानया
34
Keep
एतच्चेतनमेवान्तर्विकसत्युद्भवभ्रमैः ।
वासनेच्छामनःकर्मसंकल्पाद्यभिधात्मभिः
35
Keep
प्रबुद्धस्याप्रबुद्धस्य देहिनो देहगेहके ।
आदेहं विद्यते चित्तं त्यागस्तस्य न विद्यते
36
Keep
जीवतां तस्य संत्यागः कथं नामोपपद्यते ।
केवलं कर्मशब्दार्थभावनाभावने सति
37
Keep
कर्माकर्मत्वमुत्सृज्य स्वयमेव भवत्यजम् ।
असंभवति संत्यागे कर्मणो यः करोति हि
38
Keep
इदं कर्तव्यतात्यागं न किंचित्तेन तत्कृतम् ।
बोधादिदंतासंवित्तेः स्वयं विलयनात्तु यत्
39
Keep
जगतस्तं विदुस्त्यागमसङ्गं मोक्षमेव च ।
वेदनं सति संवेद्ये सर्गादावेव वेद्यदृक्
40
Keep
नोत्पन्ना विद्यते नैव तस्मात्किं क्वेव वेदनम् ।
वेद्योन्मुखत्वं संत्यज्य रूपं यद्वेदनस्य वै
41
Keep
न वेदनं तन्नो कर्म तच्छान्तं ब्रह्म कथ्यते ।
चेतनं प्रोच्यते कर्म संसृत्याभ्रविकासितम्
42
Keep
अचेतनं विदुर्मोक्षं ज्ञं प्रत्येवोपदेशगीः ।
त्यागो हि कर्मणां तस्मादादेहं नोपपद्यते
43
Keep
यैस्तु संपूज्यते कर्म तन्मूलं तैर्न मुच्यते ।
मूलं स्वकर्मणः संविन्मनसो वासनात्मनः
44
Keep
सा चादेहं समुच्छेत्तुमृते बोधान्न शक्यते ।
राम केवलमेषान्तः कर्ममूलकरा परा
45
Keep
सूक्ष्मसंविदसंवित्त्या स्वयत्नेन निकृन्त्यते ।
येन संविदसंवित्त्या स्वयत्नेन विचार्यते
46
Keep
तेन संसृतिवृक्षस्य मूलकाषो वितन्यते
47
Keep
अचेतनाकाशमनन्यदेकं
तदेवमस्ति त्विदमर्थहीनम् ।
तद्व्योमरूपं यत एतदेवं
निरामयं चेतनसारमाहुः
Previous
←
Sarga 1
Next
Sarga 3
→