Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 20
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
संकल्पपुरुषस्त्वेष यद्यत्कल्पयति स्वयम् ।
तत्तथा तादृशं पञ्चभूतात्मा भवतीव खम्
2
Keep
सर्वं राम जगज्जातं तत्संकल्पं विदुर्बुधाः ।
तादृग्रूपं पञ्चकात्मविषयोन्मुखमाततम्
3
Keep
जगत्पदार्थसार्थस्य विराट् सर्वस्य कारणम् ।
कारणेन समान्येव कार्याणि च भवन्त्यतः
4
Keep
यथैष स विराडेव विराट् प्रत्येकमात्मनि ।
स्वसंविदि प्रसरति बोधवान्न त्वबोधवान्
5
Keep
आसरीसृपमारुद्रमेवमभ्युदितो भ्रमः ।
अणावप्यद्रिविस्तारो बीजकोश इव द्रुमः
6
Keep
आसरीसृपमारुद्रं विराट् प्रत्येकमात्मनि ।
पराणावप्यनन्तात्मबोधतो न त्वबोधतः
7
Keep
यादृगेव विराडात्मन्येष विस्तार आगतः ।
तादृगेवेह सर्वस्मिन्नणुमात्रेऽपि भूतके
8
Keep
परमार्थेन न स्थूलं न सूक्ष्मं किंचन क्वचित् ।
यद्यथा विततं यत्र तत्तथाश्वनुभूयते
9
Keep
मनश्चन्द्रमसो जातं मनसश्चन्द्र उत्थितः ।
जीवाज्जीवोऽथवैकैषा सत्ता द्रवजलाङ्गवत्
10
Keep
शुक्रसारं विदुर्जीवं प्रालेयकणसंनिभम् ।
आनन्दोऽचलसंदोहस्तत एव प्रवर्तते
11
Keep
तं चेतति तदाभासं पूर्णमात्मस्थमात्मना ।
तत्र तन्मयतां धत्ते तेन तन्मयरूपिणी
12
Keep
जीवसंविदथैषान्तर्यदुपायाति पञ्चताम् ।
न तत्र कारणं किंचिद्विद्यते न च कार्यता
13
Keep
प्रतियोगिव्यवच्छित्तेरभावात्स्वस्वभावयोः ।
स्वभावोक्तिर्न चैवात्र भवत्यर्थानुसारिणी
14
Keep
जीवो जीवत्वमेव स्वजीवत्वादेव च स्वतः ।
अन्तस्त्वेन वहिष्ट्वेन दृश्यते न च वायुवत्
15
Keep
नीहारेणेव संवीतश्चेत्यवस्तुपरायणः ।
जात्यन्ध इव पन्थानं मारुतात्मा न पश्यति
16
Keep
जगज्जृम्भिकया जीवः स्वमैक्यं द्वित्वमास्थितः ।
स्पन्दशक्त्येव पवन आवृतात्मा न पश्यति
17
Keep
अज्ञानस्य महाग्रन्थेर्मिथ्यावेद्यात्मनोऽसतः ।
अहमित्यर्थरूपस्य भेदो मोक्ष इति स्मृतः
18
Keep
व्यपगतघनचेतनः समन्ता-
दहमिति नूनमबुध्यमान आस्व ।
अनभिधघनचेतनैकरूपः
क्षितसदसत्सदसत्सदोदितश्च
Previous
←
Sarga 19
Next
Sarga 21
→